रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 64, कुल 94 में से
संदर्भ में पढ़ेंरसरत्नाकरस्य रसायनखण्डः । ५७ छायायां तत्सितातुल्यं निष्कैकं भक्षयेत्सदा । शणमूलं सबीजं च मुशली शर्करा समम् ॥ १० ॥ गवां क्षीरैः पलार्धं तु अनु रात्रौ सदा पिबेत् । अनन्तं वर्धते वीर्यं रसोऽयं मदनोदयः ॥ ११ ॥ वाजीकरो मदनेश्वररसः । शुद्धसूतसमं गन्धं बदरीचित्रकद्रवैः । मर्द्यं चाङ्गेल्लजैर्द्रवैस्तत्खल्वे दिनत्रयम् ॥ १२ ॥ सद्यो हताजमांसस्य पिण्डे न्यस्तं च सीवयेत् । तत्पिण्डं तिलतैलेन लोहपात्रे शनैः पचेत् ॥ १३ ॥ यावन्मांसं रक्तवर्णं ततः सूतं समुद्धरेत् । त्रिदिनं मुशलीक्वाथैर्भावितं सितया युतम् ॥ १४ ॥ निष्कैकं भक्षयेन्नित्यं रसोऽयं मदनेश्वरः । विदारीकन्दचूर्णं तु क्षीराज्येन पलं पिबेत् ॥ १५ ॥ रमयेत्स्त्रीशतं नित्यं तच्चागादन्धतां व्रजेत् । वाजीकरः कामकलाख्यरसः । मृताभ्रं पारदं स्वर्णं तुल्यं मर्द्यं दिनत्रयम् ॥ १६ ॥ मुशलीत्रिफलाक्वाथैर्वाजिगन्धाकषायकैः । कदलीकन्दजैर्द्रवैस्तद्रोलं चान्धितं पुटेत् ॥ १७ ॥ भूधरे दिनमात्रं तु समुद्धृत्याथ मर्दयेत् । दिनैकं पूर्वजैर्द्रवैस्तद्वद्रुद्धा पुटे पचेत् ॥ १८ ॥ पुनर्मर्द्यं पुनः पाच्यमेवमष्टपुटैः पचेत् । शाल्मलीजातनिर्यासैस्तुल्यं शर्करया सह ॥ १९ ॥ खादेन्निष्कद्वयं नित्यं द्रावयेद्वनिताशतम् । गोक्षीरैर्मर्कटीबीजं पलार्धं पाययेदनु ॥ २० ॥ सर्वाङ्गोद्वर्तनं कुर्यात्सयवैः शाल्मलीद्रवैः । रसः कामकलाख्योऽयं महावीर्यकरो नृणाम् ॥ २१ ॥