रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 65, कुल 94 में से
संदर्भ में पढ़ें५८ आयुर्वेदौयग्रन्थमाला । [उपदेशः वाजीकरः कामदेवरसः । मृतसूतं त्रयो भागा भागैकं हाटकं मृतम् । कदलीकन्दजैर्द्रवैः शाल्मलीजद्रवैर्दिनम् ॥ २२ ॥ गोक्षीरैश्च दिनं मर्द्यं क्षणैकं पाचयेद्घृतैः । तन्मध्ये शर्करां द्राक्षां धात्रीं रम्भाफलं मधु ॥ २३ ॥ गोक्षीरं मुशलीं माषान् कोकिलाक्षस्य बीजकम् । सूताचतुर्गुणं क्षिप्त्वा मर्द्यं शाल्मलिजैर्द्रवैः ॥ २४ ॥ तत्सर्वं दिनमेकं तु कामदेवो रसो भवेत् । निष्कमात्रं सदा भक्ष्यं गवां क्षीरं पिबेदनु ॥ २५ ॥ मैथुने दृढलिङ्गः स्याद्रावयेद्वनिताकुलम् । वाजीकरो रतिकामरसः । प्रारम्भरजसा स्त्रीणां मर्दयेद्वससूतकम् ॥ २६ ॥ . मृतं ताम्रं च तारं च गन्धकं च समं दिनम् । सितामध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ २७ ॥ रतिकामरसो नाम कामिनीरमणे हितः । वानरीमूलगोधूमं कोकिलाक्षस्य बीजकम् ॥ २८ ॥ माषांश्चैक्षुरसैः सर्वं लोडितं पाचयेद्घृतैः । तेनैव वटकाः कार्या नित्यं खादेद्द्वयं द्वयम् ॥ २९ ॥ अनुपानमिदं सिद्धं सेवनाद्रमयेच्छतम् । वाजीकरो मदवर्धनरसः । शुद्धसूतसमं गन्धं त्र्यहं कह्लारजैर्द्रवैः ॥ ३० ॥ मर्दितं चान्धितं पच्याद्यामं वालुकयन्त्रके । रक्तागस्त्यद्रवैर्भाव्यं दिनैकं तु सितायुतम् ॥ ३१ ॥ निष्कमात्रं सदा खादेद्रसोऽयं मदवर्धनः । अजस्य वृषणं क्षीरे पक्वं तिलसितायुतम् ॥ ३२ ॥ यथेष्टं भक्षयेच्चानु रमयेत्कामिनीशतम् ।