भारतकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 70, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 70

६.] रसरत्नाकरस्य रसायनखण्डः । ६३ वाजीकरो नाभिलेपः । ऊर्णनाभिं समं क्षौद्रैः पिष्ट्वा नाभिं प्रलेपयेत् । मुच्यते बद्धषण्ढोऽपि क्षीरैर्वह्निं पिबेदनु ॥ ८१ ॥ स्वयमग्निरसं चात्र त्रिनिष्कं भक्षयेत्सदा । वाजीकरो माषयोगः । घृताक्ता दलिता माषा क्षीरेण सह पाचिताः ॥ ८२ ॥ सिताज्यसंयुता भक्ष्या वीर्यवृद्धिकरा बलम् । क्षणे क्षणे भजेद्रामां यथा पारावतो ध्रुवम् ॥ ८३ ॥ मदनानन्दमोदकः । सम्यग्जारितमभ्रकं कट्फलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारि मुशली गोकण्टकेक्षूरकौ । रम्भाकन्दशतावरी ह्यजमुदा मापास्तिला धान्यकं यष्टी नागबला कंचोरमदनं जातिफलं सैन्धवम् ॥ ८४॥ भार्गीकर्कटशृङ्गिमृङ्गत्रिकटु द्वौ जीरकौ चित्रकं चातुर्जातपुनर्नवागजकणाद्राक्षाशणं वासकः । शाल्मल्याङ्घ्रि फलत्रिकं कपिभवं बीजं समं चूर्णये- च्चूर्णांशा विजया सिता द्विगुणिता मध्वाज्यमिश्रंतु तत्॥ कर्षार्धां गुलिकां विलेहमथवा कृत्वा सदा सेवये- त्पेया क्षीरसिताऽनु वीर्यकरणे स्तम्भेऽप्यलं कामिनाम् । श्यामावश्यकरः समाधिसुखदः सङ्गेऽङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥ ८६ ॥ कासश्वासमहातिसारशमनो मन्दाग्निसंदीपनो ह्यर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिसारप्रणुत् । नित्यानन्दकवेर्विशेषकवितावाचाविलासोद्भवं दत्ते सर्वगुणं महास्थिरदशां ध्यानावसाने भृशम्॥८७॥


१ 'कसेरुदमनं' ख. ।