भारतकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 69, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 69

६२ आयुर्वेदीयग्रन्थमाला । [उपदेशः विदारीपद्मिनीकन्दं वानरीबीजकं समम् । एतच्चूर्णं मृताभ्रं तु तुल्यं शर्करया समम् ॥ ७० ॥ पलार्धं पाययेत्क्षीरैः खादेत्कुक्कुटमांसकम् । क्षीरपानं ततः कृत्वा रमयेत्कामिनीशतम् ॥ ७१ ॥ वाजीकरो धात्रीलोहः । धात्रीफलस्य चूर्णं तु भावयेत्तत्फलद्रवैः । एकविंशतिवारान् वै शोष्यं पेष्यं पुनः पुनः ॥ ७२ ॥ तत्पादांशं मृतं लोहं मध्वाज्यशर्करान्वितम् । पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु ॥ ७३ ॥ धात्रीलोहप्रभावेन रमयेत् कामिनीशतम् । वाजीकरः पुनर्नवादियोगः । पुनर्नवा नागबला वाजिगन्धा शतावरी ॥ ७४ ॥ गोक्षुरं मुशलीकन्दं मृतं सूतं समं समम् । चूर्णं मध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ ७५ ॥ तण्डुलं वानरीबीजं चूर्णयेत्सितया समम् । आलोडयेद्गवां क्षीरैस्तेन पच्यादपूपिकाम् ॥ ७६ ॥ तां घृतैर्भक्षयेच्चानु रमयेत्कामिनीकुलम् । वाजीकरो वटकः । वानरीबीजचूर्णं तु त्वग्वर्ज्यं माषचूर्णकम् ॥ ७७ ॥ नालिकेरोदकैर्भाव्यं यामान्ते पेषयेत्ततः । विंशत्यंशेन पिष्टस्य मृतमभ्रं विमिश्रयेत् ॥ ७८ ॥ तद्घृतैर्वटकं पक्त्वा मध्वाज्याभ्यां तु भक्षयेत् । क्षीरं सितां चानुपिबेद्रामाणां रमते शतम् ॥ ७९ ॥ वाजीकरो वालुकामत्स्ययोगः । वालुकासंभवं मत्स्यं सुपक्वं भक्षयेद्घृतैः । षण्ढोऽपि जायते कामी वीर्यस्तम्भः प्रजायते ॥ ८० ॥ १ 'धात्रीफलं' ख. ।

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक) · पृष्ठ 69, कुल 94 में से · BharatKosha