भारतकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 68, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 68

६.] रसरत्नाकरस्य रसायनखण्डः । ६१ दिनान्ते चोर्ध्वलग्नं तद्ग्राह्यं रम्भाद्रवैर्दृढम् । मर्दितं सितया तुल्यं माषकं भक्षयेत्सदा ॥ ५८ ॥ रसो मदनकामोऽयं बलवीर्यविवर्धनः । दिव्यरूपो भजेद्रामाः कामाकुलकलान्विताः ॥ ५९ ॥ भागत्रयं तु यत्पूर्वं पृथक्चूर्णं सुरक्षितम् । कुलीरमांसच्छागाण्डचटकाण्डानि वै पृथक् ॥ ६० ॥ प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः । तत्सर्वं चालयन् पच्याद्यावत्पिण्डत्वमागतम् ॥ ६१ ॥ प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् । अस्य चूर्णस्य कर्पूरं चतुःषष्ठ्यंशकं क्षिपेत् ॥ ६२ ॥ चातुर्जातकचूर्णं तु क्षिपेद्द्वात्रिंशदंशतः । सर्वतुल्या सिता योज्या रक्षयेन्नूतने घटे ॥ ६३ ॥ कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् । वाजीकरा अभ्रकयोगाः । निष्कैकं मारितं चाभ्रं खादेच्छर्करया समम् ॥ ६४ ॥ शाल्मलीमूलचूर्णं तु भृङ्गराजस्य मूलकम् । पलैकं सितया चानु सेवेत कामिनीशतम् ॥ ६५ ॥ वानरीकोकिलाक्षस्य बीजानि तिलमाषकाः । वासागोक्षुरयोर्मूलं सर्वं चूर्णं समं भवेत् ॥ ६६ ॥ चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या तु शर्करा । एतत्कर्षं गवां क्षीरैः पिबेत् कामाङ्गनायकः ॥ ६७ ॥ तैलेन पक्वं चटकं खादेत्पूर्वं तु भोजनात् । भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥ ६८ ॥ अश्वगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च । मूलं मुशलिजं कन्दं कोकिलाक्षस्य बीजकम् ॥ ६९ ॥ ६