रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 67, कुल 94 में से
संदर्भ में पढ़ें६० आयुर्वेदीयग्रन्थमाला । [उपदेशः उद्धृत्य बन्धयेद्वस्त्रे दृढे चैव चतुर्गुणे । क्षुद्रशम्बूकमांसात्तच्छागीरक्तगतं पचेत् ॥ ४५ ॥ दोलायन्त्रे त्र्यहं यावद्देयं रक्तं पुनः पुनः । गुडूच्या गजपिप्पल्या कदल्या कोकिलाक्षकैः ॥ ४६ ॥ गोक्षुरीवानरीमूलजातीमूलस्य च द्रवैः । पाचयेत्तत्कषायैर्वा दोलायन्त्रे दिनत्रयम् ॥ ४७ ॥ ततः क्षीरे सितायुक्ते तद्वत्पच्यादिनावधि । उद्धृत्य मुशलीक्वाथैर्मर्द्यं यामचतुष्टयम् ॥ ४८ ॥ रसः पूर्णेन्दुनामाऽयं खादेन्मांसं सितायुतम् । गोक्षुरो वानरीबीजं गुडूची गजपिप्पली ॥ ४९ ॥ कोकिलाक्षस्य बीजानि मज्जा कार्पासबीजजा । शतावरी च रम्भायाः फलं सर्वं समं भवेत् ॥ ५० ॥ सर्वतुल्या सिता योज्या मधुना लोडितं लिहेत् । पलार्धमनुपानं स्यात्ततः पेयं गवां पयः ॥ ५१ ॥ कामिनीनां सहस्रैकं रमते कामदेववत् । वाजीकरो मदनकामो रसः । पद्मबीजं कसेरुं च कन्दं नालं च कर्णिकाम् ॥ ५२ ॥ मुशली भृङ्गराद् द्राक्षा पक्वं श्लेष्मातकं फलम् । विजया मर्कटी माषाः शणबीजानि वै तिलाः ॥ ५३ ॥ कोकिलाक्षस्य बीजानि भूकूष्माण्डी शतावरी । शृङ्गाटं चिर्भिटं फञ्जीबीजानि चाश्वगन्धिका ॥ ५४ ॥ एतत्सर्वं समं चूर्ण्य पादांशं चाहरेत्पृथक् । पादांशस्याष्टमांशेन शुद्धं सूतं विमिश्रयेत् ॥ ५५ ॥ पारदादष्टमांशं च कर्पूरं तत्र निक्षिपेत् । चातुर्जातकमेकैकं कर्पूराद्विगुणं भवेत् ॥ ५६ ॥ सूततुल्या सिता योज्या मर्द्यं रम्भाद्रवैर्दिनम् । तद्गोलं डामरे यन्त्रे क्रमवृद्धाग्निना पचेत् ॥ ५७ ॥