भारतकोश
संग्रह पर लौटें

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

६० आयुर्वेदीयग्रन्थमाला । [उपदेशः उद्धृत्य बन्धयेद्वस्त्रे दृढे चैव चतुर्गुणे । क्षुद्रशम्बूकमांसात्तच्छागीरक्तगतं पचेत् ॥ ४५ ॥ दोलायन्त्रे त्र्यहं यावद्देयं रक्तं पुनः पुनः । गुडूच्या गजपिप्पल्या कदल्या कोकिलाक्षकैः ॥ ४६ ॥ गोक्षुरीवानरीमूलजातीमूलस्य च द्रवैः । पाचयेत्तत्कषायैर्वा दोलायन्त्रे दिनत्रयम् ॥ ४७ ॥ ततः क्षीरे सितायुक्ते तद्वत्पच्यादिनावधि । उद्धृत्य मुशलीक्वाथैर्मर्द्यं यामचतुष्टयम् ॥ ४८ ॥ रसः पूर्णेन्दुनामाऽयं खादेन्मांसं सितायुतम् । गोक्षुरो वानरीबीजं गुडूची गजपिप्पली ॥ ४९ ॥ कोकिलाक्षस्य बीजानि मज्जा कार्पासबीजजा । शतावरी च रम्भायाः फलं सर्वं समं भवेत् ॥ ५० ॥ सर्वतुल्या सिता योज्या मधुना लोडितं लिहेत् । पलार्धमनुपानं स्यात्ततः पेयं गवां पयः ॥ ५१ ॥ कामिनीनां सहस्रैकं रमते कामदेववत् । वाजीकरो मदनकामो रसः । पद्मबीजं कसेरुं च कन्दं नालं च कर्णिकाम् ॥ ५२ ॥ मुशली भृङ्गराद् द्राक्षा पक्वं श्लेष्मातकं फलम् । विजया मर्कटी माषाः शणबीजानि वै तिलाः ॥ ५३ ॥ कोकिलाक्षस्य बीजानि भूकूष्माण्डी शतावरी । शृङ्गाटं चिर्भिटं फञ्जीबीजानि चाश्वगन्धिका ॥ ५४ ॥ एतत्सर्वं समं चूर्ण्य पादांशं चाहरेत्पृथक् । पादांशस्याष्टमांशेन शुद्धं सूतं विमिश्रयेत् ॥ ५५ ॥ पारदादष्टमांशं च कर्पूरं तत्र निक्षिपेत् । चातुर्जातकमेकैकं कर्पूराद्विगुणं भवेत् ॥ ५६ ॥ सूततुल्या सिता योज्या मर्द्यं रम्भाद्रवैर्दिनम् । तद्गोलं डामरे यन्त्रे क्रमवृद्धाग्निना पचेत् ॥ ५७ ॥

६.] रसरत्नाकरस्य रसायनखण्डः । ६१ दिनान्ते चोर्ध्वलग्नं तद्ग्राह्यं रम्भाद्रवैर्दृढम् । मर्दितं सितया तुल्यं माषकं भक्षयेत्सदा ॥ ५८ ॥ रसो मदनकामोऽयं बलवीर्यविवर्धनः । दिव्यरूपो भजेद्रामाः कामाकुलकलान्विताः ॥ ५९ ॥ भागत्रयं तु यत्पूर्वं पृथक्चूर्णं सुरक्षितम् । कुलीरमांसच्छागाण्डचटकाण्डानि वै पृथक् ॥ ६० ॥ प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः । तत्सर्वं चालयन् पच्याद्यावत्पिण्डत्वमागतम् ॥ ६१ ॥ प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् । अस्य चूर्णस्य कर्पूरं चतुःषष्ठ्यंशकं क्षिपेत् ॥ ६२ ॥ चातुर्जातकचूर्णं तु क्षिपेद्द्वात्रिंशदंशतः । सर्वतुल्या सिता योज्या रक्षयेन्नूतने घटे ॥ ६३ ॥ कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् । वाजीकरा अभ्रकयोगाः । निष्कैकं मारितं चाभ्रं खादेच्छर्करया समम् ॥ ६४ ॥ शाल्मलीमूलचूर्णं तु भृङ्गराजस्य मूलकम् । पलैकं सितया चानु सेवेत कामिनीशतम् ॥ ६५ ॥ वानरीकोकिलाक्षस्य बीजानि तिलमाषकाः । वासागोक्षुरयोर्मूलं सर्वं चूर्णं समं भवेत् ॥ ६६ ॥ चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या तु शर्करा । एतत्कर्षं गवां क्षीरैः पिबेत् कामाङ्गनायकः ॥ ६७ ॥ तैलेन पक्वं चटकं खादेत्पूर्वं तु भोजनात् । भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥ ६८ ॥ अश्वगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च । मूलं मुशलिजं कन्दं कोकिलाक्षस्य बीजकम् ॥ ६९ ॥ ६

६२ आयुर्वेदीयग्रन्थमाला । [उपदेशः विदारीपद्मिनीकन्दं वानरीबीजकं समम् । एतच्चूर्णं मृताभ्रं तु तुल्यं शर्करया समम् ॥ ७० ॥ पलार्धं पाययेत्क्षीरैः खादेत्कुक्कुटमांसकम् । क्षीरपानं ततः कृत्वा रमयेत्कामिनीशतम् ॥ ७१ ॥ वाजीकरो धात्रीलोहः । धात्रीफलस्य चूर्णं तु भावयेत्तत्फलद्रवैः । एकविंशतिवारान् वै शोष्यं पेष्यं पुनः पुनः ॥ ७२ ॥ तत्पादांशं मृतं लोहं मध्वाज्यशर्करान्वितम् । पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु ॥ ७३ ॥ धात्रीलोहप्रभावेन रमयेत् कामिनीशतम् । वाजीकरः पुनर्नवादियोगः । पुनर्नवा नागबला वाजिगन्धा शतावरी ॥ ७४ ॥ गोक्षुरं मुशलीकन्दं मृतं सूतं समं समम् । चूर्णं मध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ ७५ ॥ तण्डुलं वानरीबीजं चूर्णयेत्सितया समम् । आलोडयेद्गवां क्षीरैस्तेन पच्यादपूपिकाम् ॥ ७६ ॥ तां घृतैर्भक्षयेच्चानु रमयेत्कामिनीकुलम् । वाजीकरो वटकः । वानरीबीजचूर्णं तु त्वग्वर्ज्यं माषचूर्णकम् ॥ ७७ ॥ नालिकेरोदकैर्भाव्यं यामान्ते पेषयेत्ततः । विंशत्यंशेन पिष्टस्य मृतमभ्रं विमिश्रयेत् ॥ ७८ ॥ तद्घृतैर्वटकं पक्त्वा मध्वाज्याभ्यां तु भक्षयेत् । क्षीरं सितां चानुपिबेद्रामाणां रमते शतम् ॥ ७९ ॥ वाजीकरो वालुकामत्स्ययोगः । वालुकासंभवं मत्स्यं सुपक्वं भक्षयेद्घृतैः । षण्ढोऽपि जायते कामी वीर्यस्तम्भः प्रजायते ॥ ८० ॥ १ 'धात्रीफलं' ख. ।

६.] रसरत्नाकरस्य रसायनखण्डः । ६३ वाजीकरो नाभिलेपः । ऊर्णनाभिं समं क्षौद्रैः पिष्ट्वा नाभिं प्रलेपयेत् । मुच्यते बद्धषण्ढोऽपि क्षीरैर्वह्निं पिबेदनु ॥ ८१ ॥ स्वयमग्निरसं चात्र त्रिनिष्कं भक्षयेत्सदा । वाजीकरो माषयोगः । घृताक्ता दलिता माषा क्षीरेण सह पाचिताः ॥ ८२ ॥ सिताज्यसंयुता भक्ष्या वीर्यवृद्धिकरा बलम् । क्षणे क्षणे भजेद्रामां यथा पारावतो ध्रुवम् ॥ ८३ ॥ मदनानन्दमोदकः । सम्यग्जारितमभ्रकं कट्फलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारि मुशली गोकण्टकेक्षूरकौ । रम्भाकन्दशतावरी ह्यजमुदा मापास्तिला धान्यकं यष्टी नागबला कंचोरमदनं जातिफलं सैन्धवम् ॥ ८४॥ भार्गीकर्कटशृङ्गिमृङ्गत्रिकटु द्वौ जीरकौ चित्रकं चातुर्जातपुनर्नवागजकणाद्राक्षाशणं वासकः । शाल्मल्याङ्घ्रि फलत्रिकं कपिभवं बीजं समं चूर्णये- च्चूर्णांशा विजया सिता द्विगुणिता मध्वाज्यमिश्रंतु तत्॥ कर्षार्धां गुलिकां विलेहमथवा कृत्वा सदा सेवये- त्पेया क्षीरसिताऽनु वीर्यकरणे स्तम्भेऽप्यलं कामिनाम् । श्यामावश्यकरः समाधिसुखदः सङ्गेऽङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥ ८६ ॥ कासश्वासमहातिसारशमनो मन्दाग्निसंदीपनो ह्यर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिसारप्रणुत् । नित्यानन्दकवेर्विशेषकवितावाचाविलासोद्भवं दत्ते सर्वगुणं महास्थिरदशां ध्यानावसाने भृशम्॥८७॥


१ 'कसेरुदमनं' ख. ।

६४ आयुर्वेदीयग्रन्थमाला । [उपदेशः अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरा- त्सर्वेषां हितकारको निगदितः श्रीनित्यनाथेन वै वृद्धानामपि कामवर्धनकरः प्रौढाङ्गनासंगमे सिद्धोऽयं धैनवस्त्वमोघसुखदो भूपैः सदा सेव्यताम्८८ इत्येतदुक्तं बहुवीर्यवर्धनं रात्रौ सदा क्षीरसितासमन्वितम् । भुक्तोत्तरं सेवितमाशु कामिनां विदग्धरामाकुलवश्यकारकम् ॥ इति पार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते श्रीरसरत्नाकरे रसायनखण्डे वीर्यवर्धनं नाम षष्ठ उपदेशः ॥ अथ सप्तमोपदेशः । वीर्यं स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् । तेषां प्रगल्भाः प्रमदाश्च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥ १॥१ वीर्यस्तम्भकरी ब्रह्माण्डगुटिका । नागवल्लीदलद्रावैः सप्ताहं शुद्धपारदम् । मर्दयेत्तप्तखल्वे तु क्षालयेत्काञ्जिकैस्ततः ॥ २ ॥ तत्क्षिपेद्विषकन्दस्य गर्भे निष्कचतुष्टयम् । विषेण तन्मुखं रुद्धा स्थूलवाराहमांसके ॥ ३ ॥ पिण्डं गर्भे निरुन्ध्याथ मुखं सूत्रेण सीवयेत् । सन्ध्याकाले बलिं दत्त्वा कुक्कुटं मदिरायुतम् ॥ ४ ॥ ततश्चूल्यां लोहपात्रे तैले धत्तूरसंभवे । तं विंशतिपले पच्यात्सपिण्डं मन्दवह्निना ॥ ५ ॥ संध्यामारभ्य यत्नेन यावत्सूर्योदयं तथा । हठाज्जागरणं कुर्यादन्यथा तन्न सिध्यति ॥ ६ ॥ प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् । तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययमद्भुतम् ॥ ७ ॥ १ 'मम दृष्टप्रत्ययकरो' ख. ।

रसरत्नाकरस्य रसायनखण्डः । ६५ दृष्ट्वा तां धारयेद्वक्त्रे वीर्यस्तम्भकरीं रतौ । क्षीरं पीत्वा रमेद्रामाः कामाकुलकलान्विताः ॥ ८ ॥ मुखाद्भ्रस्तं यदा प्राप्ता तदा वीर्यं पतत्यलम् । ब्रह्माण्डगुटिका नाम शोषयन्ती महोदधिम् ॥ ९ ॥ वीर्यस्तम्भकरो लिङ्गलेपः । दग्धमङ्कोलमूलं तु कर्पूरं कुङ्कुमं तथा । रोचना सहदेवी च समं सर्वं प्रपेषयेत् ॥ १० ॥ विषमुष्टिकतैलेन लिप्तलिङ्गो ह्यनेन वै । नरो नारीसहस्रैकं गच्छन् वीर्यं न मुञ्चति ॥ ११ ॥ वीर्यस्तम्भकरो दीपः । श्वेतार्कतूलजां वर्तिं कृत्वा मूकरमेदसा । यावज्ज्वलति दीपोऽयं तावद्वीर्यं स्थिरं नृणाम् ॥ १२ ॥ वीर्यस्तम्भकरी इन्द्रवारुणिकामूलाया वटीः । इन्द्रवारुणिकामूलं पुष्ये नग्नः समुद्धरेत् । त्र्यूषणैश्च गवां क्षीरैः पिष्ट्वा कुर्याद्वटीं दृढाम् ॥ १३ ॥ छायाशुष्का स्थिता वक्त्रे वीर्यस्तम्भकरी नृणाम् । वरमङ्कोलतैलेन नाभिलेपोऽपि वीर्यधृक् ॥ १४ ॥ वीर्यस्तम्भार्थं रक्तापामार्गमूलयोगः । रक्तापामार्गमूलं तु सोमवारेऽभिमन्त्रयेत् । भौमे प्रातः समुद्धृत्य बन्धेत्कट्यां च वीर्यधृक् ॥ १५॥ वीर्यस्तम्भकरः पादलेपः । चटकानङ्गुलीतैलैः पादाधः संप्रलेपयेत् । न मुञ्चति नरो वीर्यं शय्यां पादेन न स्पृशेत् ॥ १६ ॥ वीर्यस्तम्भार्थे कट्यां सर्पास्थिधारणयोगः । डुण्डुभो नाम यः सर्पः कृष्णवर्णस्तमाहरेत् । तस्यास्थि धारयेत्कट्यां नरो वीर्यं न मुञ्चति ॥ १७ ॥

६६ आयुर्वेदियग्रन्थमाला । [उपदेश० तन्मुक्ते मुञ्चते वीर्यं सिद्धयोग उदाहृतः । वीर्यस्तम्भकरो नाभिलेपः । सहदेवीयमूलं तु तत्समं पद्मकेशरम् ॥ १८ ॥ पिष्ट्वा मध्वाज्यसंयुक्तो लेपो नाभौ तु वीर्यधृक् । वीर्यस्तम्भकरी कोकिलाक्षादिवटी । श्वेतस्य कोकिलाक्षस्य बीजं मूलं समाहरेत् ॥ १९ ॥ पिष्टं तण्डुलसंभूतं बदरीणां फलं समम् । जलैः पिष्ट्वा वटी धार्या वीर्यस्तम्भकरी मुखे ॥ २० ॥ वीर्यस्तम्भकरो नाभिलेपः । नागवल्लीपयःपिष्टं लज्जामूलं प्रलेपयेत् । तन्नाभौ वीर्यधृक् पुंसां मूलं वा तुलसीभवम् ॥ २१ वीर्यस्तम्भकरो दीपः । मूलेन श्वेतगुञ्जाया वर्तिं कृत्वा प्रदीपयेत् । दीपं सूकरतैलेन वीर्यस्तम्भकरं नृणाम् ॥ २२ ॥ वीर्यस्तम्भकरी वटिका । बीजमीश्वरलिङ्ग्यास्तु मृतं वृश्चिककण्टकम् । सर्वं पूगफलस्यान्तः क्षिप्त्वा वेष्ट्यं त्रिलोहकैः ॥ २३ ॥ जिह्वोपरि स्थिते तस्मिन्नरो वीर्यं न मुञ्चति । वीर्यस्तम्भार्थं श्लेष्मातकादियोगः । श्लेष्मातस्य कुरण्टस्य बीजं फण्याः समाहरेत् ॥ २४ अजाक्षीरेण तं पिष्ट्वा कर्षं भुक्त्वा तु वीर्यधृक् । वीर्यस्तम्भार्थं सूरणादियोगः । शूरणं तुलसीमूलं ताम्बूलैः सह भक्षयेत् ॥ २५ ॥ न मुञ्चति नरो वीर्यं कर्षैकेन पृथक्पृथक् । वीर्यस्तम्भार्थे मार्जारनखादिबन्धनम् । नखास्थीनि समादाय मार्जारस्य सितस्य वै ॥ २६ ॥ १ 'तुम्बरतैलेन' ख. । २ 'तुलसीं फलीं' ख. ।

रसरत्नाकरस्य रसायनखण्डः । ६७ श्वेतापराजितामूलं नीलीमूलं श्मशानजम् । सर्वं बद्ध्वा कटौ वीर्यं चिरकालं न मुञ्चति ॥ २७ ॥ वीर्यस्तम्भकरः पादलेपः । भूलता सिक्थकं तुल्यं लिम्पेत्तैलैः कुसुम्भजैः । पादौ वीर्यधरो भूयात्पद्भ्यां शय्यां न संस्पृशेत् ॥ २८ ॥ नवनीतेन वा लेप्यं चटकाण्डं च पूर्ववत् । इन्द्रवारुणिकामूलं उन्मत्ताजस्य मूत्रतः ॥ २९ ॥ भावयेत्तेन लेपेन नरो वीर्यं न मुञ्चति । वीर्यस्तम्भकरो लिङ्गलेपः । दाडिमस्य त्वचश्चूर्णं फलं भल्लातकाक्षयोः ॥ ३० ॥ पिष्ट्वा तत्कटुतैलेन लेपः स्यात्पूर्ववत्फलम् । कर्पूरं टङ्कणं मृतं मुनिपुष्परसं मधु ॥ ३१ ॥ मर्दयित्वा लिपेत्तेन लिङ्गं यावत्समन्ततः । जलैः प्रक्षालयेल्लिङ्गं भजेद्रामां यथोचिताम् ॥ ३२ ॥ वीर्यं स्तम्भयते पुंसां याममात्रं न संशयः । वीर्यस्तम्भार्थे कट्यां पारदगुटिकाधारणम् । कृष्णधत्तूरतैलेन पारदं घर्षयेद्दिनम् ॥ ३३ ॥ त्रिलोहैर्वेष्टितं बद्धं तत्कट्यां वीर्यधारकम् । वीर्यस्तम्भार्थे पारदादियोगः । सूतं स्वर्णं व्योमसत्त्वं तारं ताम्रं च रोचनम् ॥ ३४ ॥ बीजं वै शरपुङ्खायाः कृष्णधत्तूरबीजकम् । सर्वं मर्द्यं वटक्षीरैः कुबेराक्षस्य बीजके ॥ ३५ ॥ तत्क्षिप्त्वा धारयेद्वक्त्रे वीर्यस्तम्भकरं चिरम् । वीर्यस्तम्भार्थे हस्ते मुद्रिकाधारणम् । कृकलासस्य पुच्छाग्रं मुद्रिकाकारतां कृतम् ॥ ३६ ॥ ऊर्णनाभस्य जालेन वेष्टयित्वाऽथ धारयेत् । वामहस्ते कनिष्ठायां नरो वीर्यं न मुञ्चति ॥ ३७ ॥

६८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः वीर्यस्तम्भार्थं स्थलमीनयोगः । स्थलमीनं समादाय शुष्कं चूर्णेन लेपयेत् । उल्लिप्तं रक्षयेत्किंचिद्वक्रे धार्यश्च वीर्यधृक् ॥ ३८ ॥ जसलमेरोः पत्तने अमरचण्डेश्वरो नाम देवतायतनं, तस्याग्रे वालुकामध्ये स्थलमीनास्तिष्ठन्ति, ते च वालुकामीनाः कथ्यन्ते ॥ वनिताद्रावणार्थे जलौकायोगाः । शुद्धसूते विनिक्षिप्य स्वर्णं वा नागमेव वा । अष्टमांशेन तत्सर्वं मर्दयेत्तप्तखल्वके ॥ ३९ ॥ शाल्मल्याश्चैव पञ्चाङ्गरसं तत्र विनिक्षिपेत् । श्लेष्मान्तस्य फलं पक्वं कोकिलाक्षस्य बीजकम् ॥ ४० ॥ तिलपिण्याकचूर्णं तु दत्त्वा तावद्विमर्दयेत् । जलौका जायते यावत्ततः कर्पूरटङ्कणम् ॥ ४१ ॥ कपिकच्छुकरोमाणि बाकुचीतैलकं पटु । मागधीं च जलैः पिष्ट्वा तत्सर्वं तप्तखल्वके ॥ ४२ ॥ क्षिपेत्पूर्वजलौकां च त्रिसप्ताहं विमर्दयेत् । सा योज्या कामकाले तु नारीणां योनिगह्वरे ॥ ४३ ॥ मद्दर्पहरा तासां मदविह्वलकारका । बाल्ये षडङ्गुला योज्या यौवने सा नवाङ्गुला ॥ ४४ ॥ द्वादशाङ्गुलिका योज्या प्रगल्भानां जलौकिका । यो वा तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ॥ ४५॥ पारदादष्टमांशेन सुवर्णं नागमेव वा । योजयेत्तप्तखल्वे तु शाल्मलीत्वङ्रिजद्रवैः ॥ ४६ ॥ मुनिपत्ररसैर्नीलीमूलद्रावैश्च मर्दयेत् । श्लेष्मातकफलं पक्वं कोकिलाक्षस्य बीजकम् ॥ ४७ ॥

७.] रसरत्नाकरस्य रसायनखण्डः । ६९ मज्जा सुपक्वा बिल्वस्य क्षिपेत्तत्रैव मर्दयेत् । जलौका जायते यावत्ततस्सात्समुद्धरेत् ॥ ४८ ॥ त्रिसप्ताहं तप्तखल्वे कर्पूराद्यैश्च पूर्ववत् । मर्दयेच्च फलं तद्द्वज्जायते नात्र संशयः ॥ ४९ ॥ रसादष्टमभागं तु सुवर्णं नागमेव वा । योज्यं च त्रिफला भृङ्गी शुण्ठी छागपयो.घृतम् ॥५०॥ क्षौद्रं गोमूत्रकं चैव सर्वं सप्तदिनावधि । मर्दयेत्तद्वदच्छिन्नं जलौका यावता भवेत् ॥ ५१ ॥ कर्पूराद्यैः पुनर्मर्द्यं तप्तखल्वे तु पूर्ववत् । पूर्ववज्जायते सिद्धिस्तद्द्वयोगे न संशयः ॥ ५२ ॥ त्रिदिनं मर्दयेत्खल्वे सूतं निष्कचतुष्टयम् । त्रिफलायास्तु निर्यासं स्तोकं स्तोकं विनिक्षिपेत् ॥५३॥ पयश्चैव महाशृङ्गया दातव्यं मर्दनक्षमम् । जलौका मर्दनाद्ध्येयं जायते सुखदा नृणाम् ॥ ५४ ॥ रामाणां मदमत्तानां द्राविकाऽग्नौ घृतं यथा । पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरी भवेत् ॥ ५५ ॥ लिङ्गवर्धनाः कतिपययोगाः । पारदं मरिचं कुष्ठं तगरं कण्टकारिका । अश्वगन्धातिलक्षौद्रैस्सैन्धवश्वेतसर्षपाः ॥ ५६ ॥ अपामार्गो यवा माषाः पिप्पली च समं जलैः । पिष्ट्वा विमर्दयेत्तेन लिङ्गं मासमहर्निशम् ॥ ५७ ॥ वर्धते हस्तमात्रं तत्स्थौल्येन मुशलोपमम् । वराहवसा क्षौद्रैर्लिङ्गं मासं विलेपयेत् ॥ ५८ ॥ अतिदीर्घं दृढं स्थूलं जायते नात्र संशयः । अश्वगन्धा वचा कुष्ठं बृहती च शतावरी ॥ ५९ ॥ पाचयेत्तिलतैलेन मर्दयेत्तेन पूर्ववत् । लिङ्गं स्थूलं दृढं दीर्घं मासमात्रात्प्रजायते ॥ ६० ॥

७० आयुर्वेदीयग्रन्थमाला । [उपदेशः जम्बूसूकरजं तैलं महाराष्ट्री च टङ्कणम् । मधुना सह लेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ ६१ ॥ मिश्रितं मुशलीचूर्णं माहिषैर्नवनीतकैः । तद्भाण्डं धान्यराशौ च स्थितं सप्तदिनैर्हरेत् ॥ ६२ ॥ तेन प्रलेपयेल्लिङ्गं वर्धते मासमात्रतः । पिप्पली मरिचं क्षीरं सिता तुल्यं विमर्दयेत् ॥ ६३ ॥ मासैकं वृद्धिकृल्लिङ्गे नात्र कार्या विचारणा । माहिषं गोघृतं तुल्यं सैन्धवं च समं समम् ॥ ६४ ॥ अनेन लेपयेल्लिङ्गं स्थूलं स्यान्मासमात्रतः । अश्वगन्धापामार्गौ च सारिवाऽक्षफलं तिलाः ॥ ६५ ॥ सर्षपेन्द्रयवं तुल्यमजाक्षीरेण पेषयेत् । तेन लिङ्गं तु मासैकं मर्दनाद्वृद्धिमाप्नुयात् ॥ ६६ ॥ मांसीमक्षफलं कुष्ठमश्वगन्धां शतावरीम् । तैले पक्त्वा प्रलेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ ६७ ॥ रोहीतमत्स्यजं पित्तं जलौका लाङ्गली समम् । अनेन लेपयेल्लिङ्गं स्यान्मासान्मुशलोपमम् ॥ ६८ ॥ निशा सिताऽश्वगन्धा च पारदं मर्दयेत्समम् । अनेन मर्दयेल्लिङ्गं योनिकर्णस्तनांस्तथा । वर्धन्ते मासमात्रेण नात्र कार्या विचारणा ॥ ६९ ॥ ‘ॐ नमो भगवते उड्डामरेश्वराय सर प्रसर २ कुरु कुरु ठ ठः ।' अनेन मन्त्रेण सर्वे वर्धनयोगाः सप्ताभिमन्त्रिताः सिद्धा भवन्ति ॥ जाम्बूमार्जारयोः पित्तं यवागूमर्दितं दिहेत् । मासैकाद्वर्धते लिङ्गं स्तनौ कर्णौ च मर्दनात् ॥ ७० ॥ १ 'शैवालं' क. ।

८.] रसरत्नाकरस्य रसायनखण्डः । ७१ 'ॐ नमो भगवते उड्डामरेश्वराय सर प्रसर प्रसर निकल निकल निकालय निकालय स्वाहा ठः ठः ॥' गृहगोधा शुनो जिह्वा स्त्रीजरायुः समं समम् । पिष्ट्वा धार्यं ताम्रपात्रे सप्ताहात्तं पुनः पचेत् ॥ ७१ ॥ तिलतैलेन तत्तैलमर्दनाद्वर्धते खलु । लिङ्गं स्तनौ च कर्णौ च हस्तौ पादौ न संशयः॥ ७२ ॥ 'ॐ नमो भगवते उड्डामरेश्वराय सर सर हिलि हिलि स्वाहा ठः ठः ॥' अतितरसुखसाध्यैर्योगराजैः प्रसिद्धैः सततसुरतयोग्यं स्तम्भनं वर्धनं च । निपुणरसिकरामारञ्जकं मोहकं स्या- द्वदितमिह समस्तं भोगिनां सौख्यहेतुः ॥ ७३ ॥ इति पार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे वीर्यस्तम्भनलिङ्गवर्धनं नाम सप्तमोपदेशः ॥ अथाष्टमोपदेशः । श्रीशैले देहसिद्धिः प्रभवति सहसा वृक्षमृत्कन्दतोयै- स्तच्छास्त्रं शम्भुनोक्तं प्रगहनमखिलं वीक्षितं यत्तु सारम् । व्याहत्यानेकयुक्त्या सकलसुखकरं दृष्टसिद्धं तु यद्य- तद्वक्ष्ये साधकानामनुभवपथगं भुक्तये मुक्तये च ॥ १ ॥ मल्लिकार्जुनदेवस्य पुरतो गजसंनिभा । शिला तिष्ठति या रात्रौ स्रवते गुग्गुलुं सदा ॥ २ ॥ पालाशचाडुना ग्राह्यं क्षिपेदलाबुपात्रके । तद्गुग्गुलुसमं गन्धं निष्कैकं भक्षयेत्सदा ॥ ३ ॥ मासान्मृत्युजरां हन्ति जीवेदाचन्द्रतारकम् । तद्गुग्गुलुं द्रुते ताम्रे कोटिभागेन योजयेत् ॥ ४ ॥

७२ आयुर्वेदियग्रन्थमाला। [उपदेशः तद्भवेत्कनकं दिव्यं जाम्बूनदसमप्रभम् । वामतो मल्लिनाथस्य घण्टासिद्धेश्वरः स्थितः ॥ ५ ॥ तद्वारे विद्यते कुण्डं तत्र घण्टा विलम्बते । रात्रौ कृष्णचतुर्दश्यां सोपवासैस्त्रिभिर्जनैः ॥ ६ ॥ कर्तव्यं साधनं तत्र निर्विकल्पैरनिद्रितैः । एकस्तु स्नापयेद्देवं जलमेकस्तु वाहयेत् ॥ ७ ॥ एकस्तु वादयेद्धण्टामविच्छिन्नं निशावधि । ततस्तुष्टो भवेच्छम्भुः खेचरत्वं प्रयच्छति ॥ ८ ॥ घण्टासिद्धेश्वरस्यैव दक्षिणे क्रोशमात्रके १। निखनेद्दृश्यते तत्र मृद्गोरोचनसंनिभा ॥ ९ ॥ सिताक्षीरैः पिबेत्कर्षं सप्ताहादमरो भवेत् । चन्द्रोदकं प्रसिद्धं वै मल्लिनाथस्य पश्चिमे ॥ १० ॥ स्थितं वैशाखमासे तु पूर्णमास्यां सुसाधयेत् । साधको निर्विकल्पेन स्थित्वा तस्य समीपतः ॥ ११ ॥ रात्रौ जपं प्रकुर्वाणस्तत्तोयं चार्धरात्रके । स्पृष्टुं चन्द्रो यदा गच्छेत्तदा क्षिप्रं कराञ्जलिम् ॥ १२॥ कृत्वा तिष्ठेद्यदा याति तज्जलं तत्क्षणात्पिबेत् । वज्रकायो भवेद्वीरो जीवेदाचन्द्रतारकम् ॥ १३ ॥ श्रीशैलपूर्वद्वारे तु देवोऽस्ति त्रिपुरान्तकः । देवस्योत्तरदिग्भागे चिञ्चावृक्षः समीपतः ॥ १४ ॥ विद्यते तस्य मूले तु भैरवो दृश्यते स्वयम् । तस्याग्रे निखनेद्भूमिं पुरुषस्य प्रमाणतः ॥ १५ ॥ दृश्यते तत्रकुण्डं तु नीलवर्णजलान्वितम् । चिञ्चावृक्षस्य पत्राणि सम्यग्वस्त्रेण बन्धयेत् ॥ १६ ॥


१ 'जानुमात्रकम्' ख. ।

८.] रसरत्नाकरस्य रसायनखण्डः । ७३ तस्मिन् कुण्डे विनिक्षिप्य तानि मीना भवन्ति वै । संगृह्य तेन काष्ठेन पचेत्तेषां विवर्जयेत् ॥ १७ ॥ कण्टकानि शिरः पुच्छं शेषं भक्षेत साधकः । क्षणं मूर्च्छा भवेत्तेन प्रबुद्धो जायते स्वयम् ॥ १८ ॥ छिद्रं पश्यति मेदिन्यां जीवेद्वर्षायुतं नरः । त्रिपुरान्तकदेवस्य पश्चिमे गव्युतिद्वये ॥ १९ ॥ मणिपल्लिरिति ग्रामस्तस्य पश्चिमतो गिरिः । तस्य पश्चिमदिग्भागे कपाटं दृश्यते शुभम् ॥ २० ॥ पूर्वाभिमुखः प्रविशेत्ततो गच्छेच्च दक्षिणम् । दशधन्वन्तरं यावद्दृश्यन्ते ज्वलनप्रभाः ॥ २१ ॥ आम्राकाराः सुपाषाणा ग्राह्या वस्त्रेण बन्धयेत् । रक्तवर्णं भवेद्वस्त्रं क्षीरमध्ये क्षिपेत्ततः ॥ २२ ॥ तत्क्षीरं जायते रक्तं तत्क्षीरं साधकः पिबेत् । सप्ताहाद्वज्रकायः स्याज्जीवेच्चन्द्रार्कतारकम् ॥ २३ ॥ त्रिपुरान्तकदेवस्य उत्तरे कोकिलाबिलम् । विख्यातं सर्वलोकेषु कृत्वा वमनरेचनम् ॥ २४ ॥ साधकः प्रविशेत्तत्र दशधन्वन्तरावधि । पाषाणाः कोकिलाकारास्तानि तिष्ठन्ति चाहरत्॥ २५॥ तेषां पृष्ठे तिलाः क्षिप्ताः स्फुटन्त्येव हि तत्क्षणात् । इत्येवं प्रत्ययं दृष्ट्वा तांश्च घृष्ट्वा परस्परम् ॥ २६ ॥ क्षीरमध्ये क्षिपेत्तान् वै क्षीरं कृष्णं प्रजायते । आकण्ठान्तं पिबेत्तत्तु दिव्यकायो भवेन्नरः ॥ २७ ॥ वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् । छिद्रं पश्यति मेदिन्यां वायुवेगो महाबलः ॥ २८ ॥ त्रिपुरान्तकदेवस्य पूर्वदिग्योजनान्तरे । देवः स्वर्गपुरी नाम विद्यते तत्र वै खनेत् ॥ २९ ॥ ७

७४ आयुर्वेदौयग्रन्थमाला । [उपदेशः देवाग्रे भूमिकां जानुमात्रां तत्र फला इव । निर्गच्छन्ति तु पाषाणाः खरस्पर्शा भवन्ति वै ॥ ३०॥ त्रिपुरान्तकदेवस्य पश्चिमे योजनार्थके । विद्यते हि बिलद्वारं तन्मध्ये धनुषां त्रयम् ॥ ३१ ॥ गच्छेत्खर्जूरवृक्षो वै दृश्यते कृष्णवर्णकः । तत्फलानां रसं पीत्वा मूर्च्छा संजायते क्षणम् ॥३२॥ ततः संजायते सिद्धो जीवेच्चन्द्रार्कतारकम् । श्रीशैले दक्षिणे द्वारे जालेश्वरसुरेश्वरौ ॥ ३३ ॥ देवौ प्रसिद्धौ विद्येते निखनेत्तत्र भूमिकाम् । पाषाणाः श्रीफलाकारा निर्यान्ति स्पर्शभेदकाः ॥३४॥ देवो रामेश्वरस्तत्र विद्यते तस्य संनिधौ । रुद्राक्षाकारपाषाणाः खरस्पर्शा भवन्ति ते ॥ ३५ ॥ ज्योतिःसिद्धवटे वृक्षे एकपादेन तिष्ठति । आवर्तदेवको नाम तत्समीपे तु पश्चिमे ॥ ३६ ॥ विद्यते पर्वतस्तत्र पाषाणास्तालकोपमाः । आदाय तान् धमेत्तीव्रं दिव्यं भवति काञ्चनम् ॥३७॥ तत्रैव दक्षिणद्वारे देवः स्यात्कुण्डलेश्वरः । तत्समीपे खनेद्भूमिं जानुमात्रां ततो हरेत् ॥ ३८ ॥ पाषाणाः श्रीफलाकारा रक्ताश्च स्पर्शवेधकाः । पुरुषेश्वरदेवस्य कुण्डमस्ति समीपतः ॥ ३९ ॥ गुञ्जा च रिष्ठकश्चैव द्वौ वृक्षौ तत्र तिष्ठतः । तयोः पत्राणि संभक्ष्य तत्क्षणादमरो भवेत् ॥ ४० ॥ तथा हस्तिशिला तत्र तस्या दक्षिणतः खनेत् । हस्तमात्रं ततः पश्येज्जम्बूफलसमाकृतिः ॥ ४१ ॥


१ 'गच्छेदर्जुनवृक्षो' ख. ।

रसरत्नाकरस्य रसायनखण्डः । ७५ शिला तत्र समाख्याता स्पर्शग्राहा प्रयत्नतः । नाम्ना हस्तिशिरः ख्यातं सैव हस्तिशिला भवेत् ॥४२॥ तस्या दक्षिणदिग्भागे योजनैकेन तिष्ठति । छायाछत्रं प्रसिद्धं तच्छिवरूपं शिवोदितम् ॥ ४३ ॥ शतहस्तप्रमाणं तु तत्क्षेत्रं परिवर्तुलम् । योऽसौ गच्छति तस्याधो नासौ केनापि दृश्यते ॥४४॥ रुद्रतुल्यो भवेत्सिद्धः क्रीडते भुवनत्रये । अथवा साधयेद्भूरात्ख्यातं सिद्ध्यष्टकं तु यत् ॥ ४५ ॥ कान्ताभ्रं काञ्चनं सूतं मर्द्यं क्रमगुणोत्तरम् । तद्गोलं वेष्टयेल्लोहैस्त्रिभिर्ह्लात्क्रमेण वै ॥ ४६ ॥ वस्त्रे बद्ध्वा तु तद्वस्त्रं वंशाग्रे बन्धयेद्दृढम् । मन्त्रयेत्कालिमन्त्रेण छायाच्छत्रे निवेशयेत् ॥ ४७ ॥ तद्दंशाग्रं क्षणेकेन जायते गुटिका तु ताम् । साधको धारयेद्वक्त्रे खेचरत्वप्रदायिकाम् ॥ ४८ ॥ तालकं कुनटीं तद्वद्वंशे बद्ध्वा निवेशयेत् । ताभ्यामञ्जितनेत्रो यो निधिं पश्यति भूतगतम् ॥ ४९॥ वंशे बद्ध्वा क्षिपेत्खङ्गं पूर्वमन्त्रेण मन्त्रितम् । तत्खङ्गं धारयेद्धस्ते त्रैलोक्यविजयी भवेत् ॥ ५० ॥ वस्त्रे गोरोचनं बद्ध्वा वंशस्थं तत्र वेशयेत् । तेनैव तिलकं कुर्याद्दृष्ट्वा मोहयते जगत् ॥ ५१ ॥ स्रोतोञ्जनं कज्जलं च क्षित्वा तत्रैव पूर्ववत् । तेन चाञ्जितनेत्रो यो देवैरपि न दृश्यते ॥ ५२ ॥ पादुकां तेन योगेन क्षित्वा पद्भ्यां तु धारयेत् । यत्रेच्छा तत्र तत्रैव गन्ता भवति तत्क्षणात् ॥ ५३ ॥ तद्वद्रक्तपटं तत्र क्षित्वा संवेष्ट्य साधकः । अदृश्यो जायते सम्यक्पटे मुक्ते तु दृश्यते ॥ ५४ ॥

७६ आयुर्वेदीयग्रन्थमाला । [उपदेशः कान्ताभ्रं काञ्चनं सूतं कृत्वा गोलं तु वेशयेत् । वंशाग्रस्थं मन्त्रयुक्तं स्पर्शवेधी भवेत्तु तत् ॥ ५५ ॥ श्रीशैले पश्चिमे द्वारे नाम्ना ब्रह्मेश्वरेश्वरः । तल्लिङ्गं स्पर्शमित्याहुर्दुर्गा तत्रैव तादृशी ॥ ५६ ॥ नवमं यत्तु सोपानं नद्यां तत्तादृशं स्थितम् । देवस्य तिष्ठति द्वारे मुद्गवर्णं विलोकयेत् ॥ ५७ ॥ ब्रह्मेश्वरस्य नैर्ऋत्ये संस्थितं तिन्तिणीवनम् । तस्मिन् वने स्थितं कुण्डं तत्र तिष्ठति चण्डिका ॥५८॥ एकपादेन चिञ्चाधस्तद्वृक्षात्पत्रमाहरेत् । बद्ध्वा वस्त्रे क्षिपेत्कुण्डे स्नानं तत्र समाचरेत् ॥ ५९ ॥ स्नानान्ते पोटली ग्राह्या सर्वे मत्स्या भवन्ति ते । तत्काष्ठैः पाचयेत्तानि कण्ठं पुच्छं शिरस्त्यजेत् ॥६०॥ भागं देवाय संकल्प्य द्वितीयमतिथेर्भवेत् । तृतीयं साधको भुक्त्वा क्षणं भवति मूर्च्छितः ॥ ६१ ॥ तत्क्षणाज्जायते सिद्धश्छिद्रां पश्यति मेदिनीम् । अजरामरतां याति न बाध्यस्त्रिदशैरपि ॥ ६२ ॥ अलंपुरोत्तरे भागे ग्रामः स्याद्धीमपादुकः । तस्य ग्रामस्य पार्श्वे तु हस्तमात्रं खनेद्ध्रुवम् ॥ ६३ ॥ पाषाणाः सर्पवद्वक्रा ग्राह्या स्पर्शा भवन्ति ते । योगेश्वरीति विख्याता देवता या त्वलंपुरे ॥ ६४ ॥ देव्या ह्यग्रे गुहा रम्या तन्मध्ये निखनेद्ध्रुवम् । पाषाणा भेकसंकाशा ग्राह्या मार्जारविष्ठया ॥ ६५ ॥ मिश्रीकृत्य क्षिपेद्वङ्गे तद्वङ्गं तारतां व्रजेत् । मध्वाज्यसहितान् भक्ष्येत्पाषाणांस्तान्विचक्षणः ॥ ६६ ॥ श्रीशैलस्योत्तरद्वारे महेशो नाम देवता । भ्रमराम्रः स्थितस्तत्र तस्य पक्वफलानि वै ॥ ६७ ॥

८.] रसरत्नाकरस्य रसायनखण्डः । ७७ स्फोटयेत्तत्र निर्यान्ति भ्रमरा जीवसंयुताः । इत्येवं प्रत्ययं ज्ञात्वा भ्रमरांस्तान् परित्यजेत् ॥ ६८ ॥ फलानि पाचयेत्क्षीरैः पिवेन्क्षीरं यथेष्टकम् । किंचिन्मूर्च्छा भवेत्तेन ततो बोधे पिवेत्पुनः ॥ ६९ ॥ एवं कुर्यात्त्रिसप्ताहं वज्रकायो भवेन्नरः । वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥ ७० ॥ सर्ववाङ्मयवेत्ता च वायुवेगी भवेन्नरः । तेनैवाम्रफलैकेन वर्जितभ्रमरेण च । सहस्रपलवङ्गं तु द्रावितं स्तम्भयेद्ध्रुवम् ॥ ७१ ॥ क्षेपाच्चारमवाप्नोति सत्यमीश्वरभाषितम् । तत्फलं छिद्रितं कृत्वा उत्पाट्य भ्रमरं ततः ॥ ७२ ॥ शुद्धपारदकर्षैकं तत्तुल्यं कृष्णमभ्रकम् । क्षिप्त्वा तस्मिन्मुखं रुद्धा लिम्पेन्मृद्गोमयेन च ॥ ७३ ॥ छायाशुष्कं तदाम्रोत्थैः काष्ठैर्यामं¹ विपाचयेत् । स्वभावशीतला ग्राह्या गुटिका फलमध्यगा ॥ ७४ ॥ मुखस्था खेचरं दत्ते अदृश्यत्वं महाबला । काथे वाक्पतितुल्यः स्याज्जीवेदाचन्द्रतारकम् ॥ ७५ ॥ तारं ताम्रं भुजङ्गं वा कोटिभागेन वेधयेत् । कृष्णाभ्रं शुद्धसूतं च पूर्ववत्तत्फले क्षिपेत् ॥ ७६ ॥ लिम्पेन्मृद्गोमयैस्तद्वदारण्योत्पलकैः पुटेत् । स्वभावशीतलं ग्राह्यं तद्रसं मधुसर्पिषा ॥ ७७ ॥ गुञ्जामात्रं सदा खादेन्मासाद्वालो भवेन्नरः । जीवेद्ब्रह्मदिनं वीरो नवनागबलान्वितः ॥ ७८ ॥ विद्यते लोकविख्यातः पूज्यः पञ्चोपचारकैः । ॐ हुं फट्कारमन्त्रेण निर्विकल्पेन साधकैः ॥ ७९ ॥ १ 'काष्ठैर्यामं' ख. ।

७८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः वीक्ष्य पश्चिमदिग्भागे ह्यन्तरिक्षे च तत्क्षणात् । पश्येदिव्यविमानानि जायते प्रत्ययो महान् ॥ ८० ॥ ततः पश्चिमदिग्भागे गच्छेन्नदीं तरेत्सुधीः । गह्वरं दृश्यते तत्र प्रविशेत्पश्चिमामुखम् ॥ ८१ ॥ योजनत्रितयं गच्छेदेकाकी निर्विकल्पकः । पञ्चयोजनविस्तीर्णं दृश्यते कदलीवनम् ॥ ८२ ॥ तस्य मध्येऽतिविस्तीर्णं जलपूर्णं सरोवरम् । सिंहासनं तु तन्मध्ये शुद्धस्फटिकसंनिभम् ॥ ८३ ॥ तं दृष्ट्वा दण्डवद्भूमौ निपतेन्मन्त्रमुच्चरेत् । ॐ ह्रीं विद्यावागीश्वराधिपतये ह्रीं ॐ स्वाहा । स्नानं कृत्वा प्रयत्नेन लक्षमेकं जपेदनु ॥ यथेष्टं भोजनं कृत्वा कन्दमूलफलादिकम् ॥ ८४ ॥ ततः सिंहासनस्योर्ध्वं शुद्धस्फटिकसंनिभः । चतुर्भुजस्त्रिनेत्रश्च दृश्यते परमेश्वरः ॥ ८५ ॥ स्तोत्रमन्त्रैर्नमस्कारैः प्रणिपत्य पुनः पुनः । वरं दत्ते यथेष्टं वै साधकस्य न संशयः ॥ ८६ ॥ शतमायतनं तत्र कूपानां च शतं नव । तावत्संख्यास्तथाऽऽरामा नन्दनाख्यवनानि च ॥ ८७ ॥ तथा नवशतं वाप्यो विद्यन्ते कदलीवने । बिलद्वाराणि तावन्ति कल्पवृक्षास्तथैव च ॥ ८८ ॥ तत्रैव मौकली नाम यक्षिणी प्रकटा स्थिता । सा वक्ति भोजनं देहि यदीच्छसि समीहितम् ॥ ८९ ॥ ततस्तस्यै प्रवक्तव्यं दास्यामि परमेश्वरि । क्षीरान्नं वा फलाहारं तदग्रे दापयेत्सुधीः ॥ ९० ॥ सा वक्ति मम पुत्रोऽयं क्षणं वक्षसि धार्यताम् । यदा न मुञ्चते भूमौ तदा सिद्धयष्टकं तव ॥ ९१ ॥

८.] रसरत्नाकरस्य रसायनखण्डः । ७९ दास्येऽहं नात्र संदेहो भोजनान्तेऽथवा पुनः । त्यक्ते करोमि संहारं तस्माद्यत्नेन रक्षय ॥ ९२ ॥ इत्येवं साधको वीरः कुर्यात्सिद्धिमवाप्नुयात् । गच्छेदुत्तरदिग्भागे तत्सरो योजनार्थकम् ॥ ९३ ॥ तत्रास्ति पुष्पसंपूर्णं दिव्याख्यं नन्दनं वनम् । पुष्पाणां घ्राणमात्रेण क्षुत्पिपासा न विद्यते ॥ ९४ ॥ अथवा भक्षयेत्तस्मात्फलमेकं यथोचितम् । तेन भक्षितमात्रेण वज्रकायो भवेन्नरः ॥ ९५ ॥ सरो दक्षिणदिग्भागं गच्छेद्योजनपादकम् । तत्र दाडिमसंपूर्ण दृश्यते नन्दनं वनम् ॥ ९६ ॥ तत्फलं भक्षयेत्सिद्धो जीवेद्युगसहस्रकम् । तत्सरःपूर्वदिग्भागे गच्छेत्क्रोशार्धमात्रकम् ॥ ९७ ॥ तत्र धात्रीफलैः पूर्णं श्यामलं नन्दनं वनम् । फलानि भक्षयेत्तानि जीवेत्कल्पशतत्रयम् ॥ ९८ ॥ तत्सरःपश्चिमे भागे गच्छेद्योजनमात्रकम् । तत्र बिल्वफलैः पूर्णं दृश्यते नन्दनं वनम् ॥ ९९ ॥ तत्फलं भक्षयेद्वीरो जीवेच्चन्द्रार्कतारकम् । तन्नन्दनवने रम्ये लिङ्गं स्यान्नीलवर्णकम् ॥ १०० ॥ प्रविशेदुत्तरद्वारे तत्र नागो महाबलः । उग्रः सप्तफणाकारो दृश्यतेऽतिभयङ्करः ॥ १०१ ॥ तस्य कुर्यान्नमस्कारं हुं¹ हुं कुर्यात्समुद्धरेत् । तदाऽसौ वदते वाणीमदृश्यत्वं ददामि ते ॥ १०२ ॥ गच्छ त्वं पश्चिमद्वारे तत्रास्ति दिव्यकन्यका । गच्छेत्तत्र महावीरः साधको मन्त्रमुच्चरन् ॥ १०३ ॥


१ 'हुंकारं च समुच्चरेत्' ख. ।