भारतकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 81, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 81

७४ आयुर्वेदौयग्रन्थमाला । [उपदेशः देवाग्रे भूमिकां जानुमात्रां तत्र फला इव । निर्गच्छन्ति तु पाषाणाः खरस्पर्शा भवन्ति वै ॥ ३०॥ त्रिपुरान्तकदेवस्य पश्चिमे योजनार्थके । विद्यते हि बिलद्वारं तन्मध्ये धनुषां त्रयम् ॥ ३१ ॥ गच्छेत्खर्जूरवृक्षो वै दृश्यते कृष्णवर्णकः । तत्फलानां रसं पीत्वा मूर्च्छा संजायते क्षणम् ॥३२॥ ततः संजायते सिद्धो जीवेच्चन्द्रार्कतारकम् । श्रीशैले दक्षिणे द्वारे जालेश्वरसुरेश्वरौ ॥ ३३ ॥ देवौ प्रसिद्धौ विद्येते निखनेत्तत्र भूमिकाम् । पाषाणाः श्रीफलाकारा निर्यान्ति स्पर्शभेदकाः ॥३४॥ देवो रामेश्वरस्तत्र विद्यते तस्य संनिधौ । रुद्राक्षाकारपाषाणाः खरस्पर्शा भवन्ति ते ॥ ३५ ॥ ज्योतिःसिद्धवटे वृक्षे एकपादेन तिष्ठति । आवर्तदेवको नाम तत्समीपे तु पश्चिमे ॥ ३६ ॥ विद्यते पर्वतस्तत्र पाषाणास्तालकोपमाः । आदाय तान् धमेत्तीव्रं दिव्यं भवति काञ्चनम् ॥३७॥ तत्रैव दक्षिणद्वारे देवः स्यात्कुण्डलेश्वरः । तत्समीपे खनेद्भूमिं जानुमात्रां ततो हरेत् ॥ ३८ ॥ पाषाणाः श्रीफलाकारा रक्ताश्च स्पर्शवेधकाः । पुरुषेश्वरदेवस्य कुण्डमस्ति समीपतः ॥ ३९ ॥ गुञ्जा च रिष्ठकश्चैव द्वौ वृक्षौ तत्र तिष्ठतः । तयोः पत्राणि संभक्ष्य तत्क्षणादमरो भवेत् ॥ ४० ॥ तथा हस्तिशिला तत्र तस्या दक्षिणतः खनेत् । हस्तमात्रं ततः पश्येज्जम्बूफलसमाकृतिः ॥ ४१ ॥


१ 'गच्छेदर्जुनवृक्षो' ख. ।