रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 82, कुल 94 में से
संदर्भ में पढ़ेंरसरत्नाकरस्य रसायनखण्डः । ७५ शिला तत्र समाख्याता स्पर्शग्राहा प्रयत्नतः । नाम्ना हस्तिशिरः ख्यातं सैव हस्तिशिला भवेत् ॥४२॥ तस्या दक्षिणदिग्भागे योजनैकेन तिष्ठति । छायाछत्रं प्रसिद्धं तच्छिवरूपं शिवोदितम् ॥ ४३ ॥ शतहस्तप्रमाणं तु तत्क्षेत्रं परिवर्तुलम् । योऽसौ गच्छति तस्याधो नासौ केनापि दृश्यते ॥४४॥ रुद्रतुल्यो भवेत्सिद्धः क्रीडते भुवनत्रये । अथवा साधयेद्भूरात्ख्यातं सिद्ध्यष्टकं तु यत् ॥ ४५ ॥ कान्ताभ्रं काञ्चनं सूतं मर्द्यं क्रमगुणोत्तरम् । तद्गोलं वेष्टयेल्लोहैस्त्रिभिर्ह्लात्क्रमेण वै ॥ ४६ ॥ वस्त्रे बद्ध्वा तु तद्वस्त्रं वंशाग्रे बन्धयेद्दृढम् । मन्त्रयेत्कालिमन्त्रेण छायाच्छत्रे निवेशयेत् ॥ ४७ ॥ तद्दंशाग्रं क्षणेकेन जायते गुटिका तु ताम् । साधको धारयेद्वक्त्रे खेचरत्वप्रदायिकाम् ॥ ४८ ॥ तालकं कुनटीं तद्वद्वंशे बद्ध्वा निवेशयेत् । ताभ्यामञ्जितनेत्रो यो निधिं पश्यति भूतगतम् ॥ ४९॥ वंशे बद्ध्वा क्षिपेत्खङ्गं पूर्वमन्त्रेण मन्त्रितम् । तत्खङ्गं धारयेद्धस्ते त्रैलोक्यविजयी भवेत् ॥ ५० ॥ वस्त्रे गोरोचनं बद्ध्वा वंशस्थं तत्र वेशयेत् । तेनैव तिलकं कुर्याद्दृष्ट्वा मोहयते जगत् ॥ ५१ ॥ स्रोतोञ्जनं कज्जलं च क्षित्वा तत्रैव पूर्ववत् । तेन चाञ्जितनेत्रो यो देवैरपि न दृश्यते ॥ ५२ ॥ पादुकां तेन योगेन क्षित्वा पद्भ्यां तु धारयेत् । यत्रेच्छा तत्र तत्रैव गन्ता भवति तत्क्षणात् ॥ ५३ ॥ तद्वद्रक्तपटं तत्र क्षित्वा संवेष्ट्य साधकः । अदृश्यो जायते सम्यक्पटे मुक्ते तु दृश्यते ॥ ५४ ॥