रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
रसरत्नाकरस्य रसायनखण्डः । ७५ शिला तत्र समाख्याता स्पर्शग्राहा प्रयत्नतः । नाम्ना हस्तिशिरः ख्यातं सैव हस्तिशिला भवेत् ॥४२॥ तस्या दक्षिणदिग्भागे योजनैकेन तिष्ठति । छायाछत्रं प्रसिद्धं तच्छिवरूपं शिवोदितम् ॥ ४३ ॥ शतहस्तप्रमाणं तु तत्क्षेत्रं परिवर्तुलम् । योऽसौ गच्छति तस्याधो नासौ केनापि दृश्यते ॥४४॥ रुद्रतुल्यो भवेत्सिद्धः क्रीडते भुवनत्रये । अथवा साधयेद्भूरात्ख्यातं सिद्ध्यष्टकं तु यत् ॥ ४५ ॥ कान्ताभ्रं काञ्चनं सूतं मर्द्यं क्रमगुणोत्तरम् । तद्गोलं वेष्टयेल्लोहैस्त्रिभिर्ह्लात्क्रमेण वै ॥ ४६ ॥ वस्त्रे बद्ध्वा तु तद्वस्त्रं वंशाग्रे बन्धयेद्दृढम् । मन्त्रयेत्कालिमन्त्रेण छायाच्छत्रे निवेशयेत् ॥ ४७ ॥ तद्दंशाग्रं क्षणेकेन जायते गुटिका तु ताम् । साधको धारयेद्वक्त्रे खेचरत्वप्रदायिकाम् ॥ ४८ ॥ तालकं कुनटीं तद्वद्वंशे बद्ध्वा निवेशयेत् । ताभ्यामञ्जितनेत्रो यो निधिं पश्यति भूतगतम् ॥ ४९॥ वंशे बद्ध्वा क्षिपेत्खङ्गं पूर्वमन्त्रेण मन्त्रितम् । तत्खङ्गं धारयेद्धस्ते त्रैलोक्यविजयी भवेत् ॥ ५० ॥ वस्त्रे गोरोचनं बद्ध्वा वंशस्थं तत्र वेशयेत् । तेनैव तिलकं कुर्याद्दृष्ट्वा मोहयते जगत् ॥ ५१ ॥ स्रोतोञ्जनं कज्जलं च क्षित्वा तत्रैव पूर्ववत् । तेन चाञ्जितनेत्रो यो देवैरपि न दृश्यते ॥ ५२ ॥ पादुकां तेन योगेन क्षित्वा पद्भ्यां तु धारयेत् । यत्रेच्छा तत्र तत्रैव गन्ता भवति तत्क्षणात् ॥ ५३ ॥ तद्वद्रक्तपटं तत्र क्षित्वा संवेष्ट्य साधकः । अदृश्यो जायते सम्यक्पटे मुक्ते तु दृश्यते ॥ ५४ ॥
७६ आयुर्वेदीयग्रन्थमाला । [उपदेशः कान्ताभ्रं काञ्चनं सूतं कृत्वा गोलं तु वेशयेत् । वंशाग्रस्थं मन्त्रयुक्तं स्पर्शवेधी भवेत्तु तत् ॥ ५५ ॥ श्रीशैले पश्चिमे द्वारे नाम्ना ब्रह्मेश्वरेश्वरः । तल्लिङ्गं स्पर्शमित्याहुर्दुर्गा तत्रैव तादृशी ॥ ५६ ॥ नवमं यत्तु सोपानं नद्यां तत्तादृशं स्थितम् । देवस्य तिष्ठति द्वारे मुद्गवर्णं विलोकयेत् ॥ ५७ ॥ ब्रह्मेश्वरस्य नैर्ऋत्ये संस्थितं तिन्तिणीवनम् । तस्मिन् वने स्थितं कुण्डं तत्र तिष्ठति चण्डिका ॥५८॥ एकपादेन चिञ्चाधस्तद्वृक्षात्पत्रमाहरेत् । बद्ध्वा वस्त्रे क्षिपेत्कुण्डे स्नानं तत्र समाचरेत् ॥ ५९ ॥ स्नानान्ते पोटली ग्राह्या सर्वे मत्स्या भवन्ति ते । तत्काष्ठैः पाचयेत्तानि कण्ठं पुच्छं शिरस्त्यजेत् ॥६०॥ भागं देवाय संकल्प्य द्वितीयमतिथेर्भवेत् । तृतीयं साधको भुक्त्वा क्षणं भवति मूर्च्छितः ॥ ६१ ॥ तत्क्षणाज्जायते सिद्धश्छिद्रां पश्यति मेदिनीम् । अजरामरतां याति न बाध्यस्त्रिदशैरपि ॥ ६२ ॥ अलंपुरोत्तरे भागे ग्रामः स्याद्धीमपादुकः । तस्य ग्रामस्य पार्श्वे तु हस्तमात्रं खनेद्ध्रुवम् ॥ ६३ ॥ पाषाणाः सर्पवद्वक्रा ग्राह्या स्पर्शा भवन्ति ते । योगेश्वरीति विख्याता देवता या त्वलंपुरे ॥ ६४ ॥ देव्या ह्यग्रे गुहा रम्या तन्मध्ये निखनेद्ध्रुवम् । पाषाणा भेकसंकाशा ग्राह्या मार्जारविष्ठया ॥ ६५ ॥ मिश्रीकृत्य क्षिपेद्वङ्गे तद्वङ्गं तारतां व्रजेत् । मध्वाज्यसहितान् भक्ष्येत्पाषाणांस्तान्विचक्षणः ॥ ६६ ॥ श्रीशैलस्योत्तरद्वारे महेशो नाम देवता । भ्रमराम्रः स्थितस्तत्र तस्य पक्वफलानि वै ॥ ६७ ॥
८.] रसरत्नाकरस्य रसायनखण्डः । ७७ स्फोटयेत्तत्र निर्यान्ति भ्रमरा जीवसंयुताः । इत्येवं प्रत्ययं ज्ञात्वा भ्रमरांस्तान् परित्यजेत् ॥ ६८ ॥ फलानि पाचयेत्क्षीरैः पिवेन्क्षीरं यथेष्टकम् । किंचिन्मूर्च्छा भवेत्तेन ततो बोधे पिवेत्पुनः ॥ ६९ ॥ एवं कुर्यात्त्रिसप्ताहं वज्रकायो भवेन्नरः । वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥ ७० ॥ सर्ववाङ्मयवेत्ता च वायुवेगी भवेन्नरः । तेनैवाम्रफलैकेन वर्जितभ्रमरेण च । सहस्रपलवङ्गं तु द्रावितं स्तम्भयेद्ध्रुवम् ॥ ७१ ॥ क्षेपाच्चारमवाप्नोति सत्यमीश्वरभाषितम् । तत्फलं छिद्रितं कृत्वा उत्पाट्य भ्रमरं ततः ॥ ७२ ॥ शुद्धपारदकर्षैकं तत्तुल्यं कृष्णमभ्रकम् । क्षिप्त्वा तस्मिन्मुखं रुद्धा लिम्पेन्मृद्गोमयेन च ॥ ७३ ॥ छायाशुष्कं तदाम्रोत्थैः काष्ठैर्यामं¹ विपाचयेत् । स्वभावशीतला ग्राह्या गुटिका फलमध्यगा ॥ ७४ ॥ मुखस्था खेचरं दत्ते अदृश्यत्वं महाबला । काथे वाक्पतितुल्यः स्याज्जीवेदाचन्द्रतारकम् ॥ ७५ ॥ तारं ताम्रं भुजङ्गं वा कोटिभागेन वेधयेत् । कृष्णाभ्रं शुद्धसूतं च पूर्ववत्तत्फले क्षिपेत् ॥ ७६ ॥ लिम्पेन्मृद्गोमयैस्तद्वदारण्योत्पलकैः पुटेत् । स्वभावशीतलं ग्राह्यं तद्रसं मधुसर्पिषा ॥ ७७ ॥ गुञ्जामात्रं सदा खादेन्मासाद्वालो भवेन्नरः । जीवेद्ब्रह्मदिनं वीरो नवनागबलान्वितः ॥ ७८ ॥ विद्यते लोकविख्यातः पूज्यः पञ्चोपचारकैः । ॐ हुं फट्कारमन्त्रेण निर्विकल्पेन साधकैः ॥ ७९ ॥ १ 'काष्ठैर्यामं' ख. ।
७८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः वीक्ष्य पश्चिमदिग्भागे ह्यन्तरिक्षे च तत्क्षणात् । पश्येदिव्यविमानानि जायते प्रत्ययो महान् ॥ ८० ॥ ततः पश्चिमदिग्भागे गच्छेन्नदीं तरेत्सुधीः । गह्वरं दृश्यते तत्र प्रविशेत्पश्चिमामुखम् ॥ ८१ ॥ योजनत्रितयं गच्छेदेकाकी निर्विकल्पकः । पञ्चयोजनविस्तीर्णं दृश्यते कदलीवनम् ॥ ८२ ॥ तस्य मध्येऽतिविस्तीर्णं जलपूर्णं सरोवरम् । सिंहासनं तु तन्मध्ये शुद्धस्फटिकसंनिभम् ॥ ८३ ॥ तं दृष्ट्वा दण्डवद्भूमौ निपतेन्मन्त्रमुच्चरेत् । ॐ ह्रीं विद्यावागीश्वराधिपतये ह्रीं ॐ स्वाहा । स्नानं कृत्वा प्रयत्नेन लक्षमेकं जपेदनु ॥ यथेष्टं भोजनं कृत्वा कन्दमूलफलादिकम् ॥ ८४ ॥ ततः सिंहासनस्योर्ध्वं शुद्धस्फटिकसंनिभः । चतुर्भुजस्त्रिनेत्रश्च दृश्यते परमेश्वरः ॥ ८५ ॥ स्तोत्रमन्त्रैर्नमस्कारैः प्रणिपत्य पुनः पुनः । वरं दत्ते यथेष्टं वै साधकस्य न संशयः ॥ ८६ ॥ शतमायतनं तत्र कूपानां च शतं नव । तावत्संख्यास्तथाऽऽरामा नन्दनाख्यवनानि च ॥ ८७ ॥ तथा नवशतं वाप्यो विद्यन्ते कदलीवने । बिलद्वाराणि तावन्ति कल्पवृक्षास्तथैव च ॥ ८८ ॥ तत्रैव मौकली नाम यक्षिणी प्रकटा स्थिता । सा वक्ति भोजनं देहि यदीच्छसि समीहितम् ॥ ८९ ॥ ततस्तस्यै प्रवक्तव्यं दास्यामि परमेश्वरि । क्षीरान्नं वा फलाहारं तदग्रे दापयेत्सुधीः ॥ ९० ॥ सा वक्ति मम पुत्रोऽयं क्षणं वक्षसि धार्यताम् । यदा न मुञ्चते भूमौ तदा सिद्धयष्टकं तव ॥ ९१ ॥
८.] रसरत्नाकरस्य रसायनखण्डः । ७९ दास्येऽहं नात्र संदेहो भोजनान्तेऽथवा पुनः । त्यक्ते करोमि संहारं तस्माद्यत्नेन रक्षय ॥ ९२ ॥ इत्येवं साधको वीरः कुर्यात्सिद्धिमवाप्नुयात् । गच्छेदुत्तरदिग्भागे तत्सरो योजनार्थकम् ॥ ९३ ॥ तत्रास्ति पुष्पसंपूर्णं दिव्याख्यं नन्दनं वनम् । पुष्पाणां घ्राणमात्रेण क्षुत्पिपासा न विद्यते ॥ ९४ ॥ अथवा भक्षयेत्तस्मात्फलमेकं यथोचितम् । तेन भक्षितमात्रेण वज्रकायो भवेन्नरः ॥ ९५ ॥ सरो दक्षिणदिग्भागं गच्छेद्योजनपादकम् । तत्र दाडिमसंपूर्ण दृश्यते नन्दनं वनम् ॥ ९६ ॥ तत्फलं भक्षयेत्सिद्धो जीवेद्युगसहस्रकम् । तत्सरःपूर्वदिग्भागे गच्छेत्क्रोशार्धमात्रकम् ॥ ९७ ॥ तत्र धात्रीफलैः पूर्णं श्यामलं नन्दनं वनम् । फलानि भक्षयेत्तानि जीवेत्कल्पशतत्रयम् ॥ ९८ ॥ तत्सरःपश्चिमे भागे गच्छेद्योजनमात्रकम् । तत्र बिल्वफलैः पूर्णं दृश्यते नन्दनं वनम् ॥ ९९ ॥ तत्फलं भक्षयेद्वीरो जीवेच्चन्द्रार्कतारकम् । तन्नन्दनवने रम्ये लिङ्गं स्यान्नीलवर्णकम् ॥ १०० ॥ प्रविशेदुत्तरद्वारे तत्र नागो महाबलः । उग्रः सप्तफणाकारो दृश्यतेऽतिभयङ्करः ॥ १०१ ॥ तस्य कुर्यान्नमस्कारं हुं¹ हुं कुर्यात्समुद्धरेत् । तदाऽसौ वदते वाणीमदृश्यत्वं ददामि ते ॥ १०२ ॥ गच्छ त्वं पश्चिमद्वारे तत्रास्ति दिव्यकन्यका । गच्छेत्तत्र महावीरः साधको मन्त्रमुच्चरन् ॥ १०३ ॥
१ 'हुंकारं च समुच्चरेत्' ख. ।
आयुर्वेदीयग्रन्थमाला । [उपदेशः हारं दास्यति सा तुष्टा नै प्रवेशं प्रयच्छति । तं हारं धारयेत्कण्ठे साक्षाद्वागीश्वरो भवेत् ॥ १०४ ॥ ततस्तु दक्षिणं द्वारं गच्छेत्तत्र भयङ्करम् । मुक्तकेशं वक्रनेत्रं गदाहस्तं दिगम्बरम् ॥ १०५ ॥ नीलवर्णं क्षेत्रपालं दृष्ट्वा मन्त्रं समुच्चरेत् । ह हा हे हे हं हुंकारं फट् हुं स्वाहान्तमेव च ॥ १०६ ॥ अनेन मन्त्रपाठेन क्षेत्रपालः प्रसीदति । ददाति खेचरीं सिद्धिं न प्रवेशं कदाचन ॥ १०७ ॥ ततस्तु पूर्वदिग्भागे द्वारं तत्र गणेश्वरः । दृश्यते पूजयेतं वै साधकः प्रविशेत्ततः ॥ १०८ ॥ दृश्यते दिव्यचापं तु तथा लिङ्गं मनोहरम् । पूजयेच्छिवमन्त्रेण रकारेणैव नान्यथा ॥ १०९ ॥ ततस्तत्र जपं कुर्यादहोरात्रमुपोषितः । प्रत्यक्षो जायते रुद्रो वरं दत्ते यथेप्सितम् ॥ ११० ॥ इत्येवमादयः सन्ति सिद्धयः कदलीवने । अक्षैर्लिखितं द्वारे तत्र पद्मावतीबिलम् ॥ १११ ॥ सरसः पूर्वदिग्भागे योजनैकेन तिष्ठति । वमनं रेचनं कृत्वा प्रविशेत्तत्र साधकः ॥ ११२ ॥ धन्वन्तरं शतं यावद्गच्छेत्तत्र मृदङ्गकम् । दृष्ट्वा तं वादयेद्धीरः सम्यक्पद्मावती ततः ॥ ११३ ॥ आगत्य चामृतं दत्ते यत्पानादमरो भवेत् । ततस्तं प्रार्थयत्येव आगच्छ मम मन्दिरम् ॥ ११४ ॥ दिव्यं कन्यापञ्चशतं परिवारेण स्वीकुरु । अहं पत्नी भविष्यामि यावद्ब्रह्मा च जीवति ॥ ११५॥ १ 'प्रजेशत्वं' ख. ।
८.] रसरत्नाकरस्य रसायनखण्डः । ८१ तदन्ते परमं स्थानं गच्छामो नात्र संशयः । कदम्बेश्वरदेवस्तु आग्नेय्यां दिशि विद्यते ॥ ११६ ॥ तस्य पूर्वतटाकाग्रे स्थितो वृक्षः कदम्बकः । तस्य पत्राणि संगृह्य कटुतैलेन लेपयेत् ॥ ११७ ॥ तद्वृक्षबीजतैलैर्वा तत्काष्ठैः पाचयेत्सुधीः । मत्स्या भवन्ति ते सर्वे ताम्रपात्रे विनिक्षिपेत् ॥ ११८॥ कण्ठपुच्छशिरोवर्जं मध्वाज्याभ्यां तु भक्षयेत् । तत्क्षणाज्जायते सिद्धो रुद्रतुल्यो महाबलः ॥ ११९ ॥ नदीस्थाने च यो वृक्षो विद्यते कुण्डलेश्वरे । पूर्ववत्क्रमयोगेन सिद्धिः स्यान्नात्र संशयः ॥ १२० ॥ कपोतेश्वरदेवस्योत्तरे पुष्पगिरिः स्थितः । तस्य कुर्यात् प्रयत्नेन त्रिवारं तु प्रदक्षिणम् ॥ १२१ ॥ ततः शिरः समारुह्य खेचरत्वं लभेन्न
आयुर्वेदीयग्रन्थमाला । [उपदेशः कपोतेश्वरदेवस्य वायव्ये हस्तमात्रकम् । खनेत्पारावतप्रख्याः पाषाणाः स्पर्शभेदकाः ॥ १२८ ॥ तिष्ठन्ति ग्राहयेदेकं देवताराधने कृते । मल्लिकार्जुनदेवस्य ऐशान्यां भृगुपातनम् ॥ १२९ ॥ विद्यते तत्समीपस्थं कुण्डं तस्मान्मृदाहरेत् । पञ्चगव्येन संमिश्रां खदिराङ्गारकैर्धमेत् ॥ १३० ॥ नीलोत्पलसमं लोहं पतत्येवाथ सेचयेत् । मध्वाज्याभ्यां सुतप्तं तत्सप्तवारं पुनः पुनः ॥ १३१ ॥ तद्गोलं धारयेद्वक्त्रे विष्णुतुल्यो भवेन्नरः । भृगुपातात् पूर्वभागे क्रोशोदधिकपाटके ॥ १३२॥ तस्याग्रे अच्छतैलाख्यः पर्वतो नाम विश्रुतः । तत्पश्चिमे बिलद्वारं तन्मध्ये धन्वपञ्चकम् ॥ १३३ ॥ गते तु दृश्यते कुण्डं रसो लाक्षारसप्रभः । अलाबुपात्रे संगृह्य कोटिवेधी भवेत्तु सः ॥ १३४ ॥ मल्लिकार्जुनदेवस्य पूर्वतो लोकविश्रुतः । प्राकारश्चन्द्रगुप्तस्य विद्यते तत्र मन्दिरम् ॥ १३५ ॥ तस्य पूर्वे स्थितश्चैत्यश्चैत्यपूर्वे महाशिला । मुद्वर्णा च सा ख्याता स्पर्शवेधकरा तु सा ॥ १३६॥ गजस्तत्रैव विख्यातस्तमारुह्य समाहितः । तस्य पृष्ठात्तृणं ग्राह्यं तत्सर्वं कनकं भवेत् ॥ १३७ ॥ गजस्य चोत्तरे पार्श्वे जानुमात्रं खनेद्ध्रुवम् । जम्बूफलसमाकाराः सन्ति ते स्पर्शवेधकाः ॥ १३८ ॥ गजस्याधः खनेद्वाऽथ जानुमात्रं लभेत्ततः । त्रिकोणगुटिकां सिद्धां लक्षवेधकरां पराम् ॥ १३९ ॥ श्रीशैलस्य तु वायव्ये तीर्थे देवह्रदः स्थितम् । तत्र कुण्डे मुद्वर्णाः पाषाणाः स्पर्शवेधकाः ॥ १४० ॥
८.] रसरत्नाकरस्य रसायनखण्डः । ८३ तत्र कूर्मोपमं लिङ्गं स्पर्शवेधकरं परम् । कृत्तिकायां सुपूर्णायां कृत्वा पूजां ममाहरेन् ॥ १४१ ॥ गव्यूतिद्वयतस्तस्मान्नाम्ना नीलवनं स्मृतम् । तत्र लिङ्गं नीलवर्णं जलं चैव तु तादृशम् ॥ १४२ ॥ अश्वाभ्रकाकसदृशाः पाषाणाः स्पर्शवेधकाः । सन्ति देवगृहस्यान्तः खनेज्जान्वन्तराद्धरेत् ॥ १४३ ॥ श्रीशैलस्य तु नैर्ऋत्ये नाम्ना गुण्डिग्रभा स्थिता । तस्याग्राद्रक्तमृद्ग्राह्या पीतवर्णा पुटैर्दहेत् ॥ १४४ ॥ तस्मान्निःसरते हेम स्फुरद्रूपं न संशयः । तत्रैव अमराःस्युश्च पूर्ववत्फलदायकाः ॥ १४५ ॥ तथा तम्बीपुरे नाम्नि तीर्थे च विपुले शुभम् । सदाफलं तु विख्यातं पूर्ववत्साधयेत्सुधीः ॥ १४६ ॥ महानन्देश्वरं नाम श्रीशैलस्य तु नैर्ऋते । तस्य पूर्वोत्तरे पार्श्वे गच्छेद्राजपथेन तु ॥ १४७ ॥ कालवर्णेश्वरो नाम देवस्तस्याग्रकुण्डकम् । इन्द्रगोपकसंकाशस्तन्मध्ये विद्यते रसः ॥ १४८ ॥ तप्तानि सप्तलोहानि तत्सेकात्काञ्चनं भवेत् । श्रीशैलस्य तु ईशाने देवः स्यात्तरलेश्वरः ॥ १४९ ॥ तस्योत्तरे सुविख्यातं उमापर्वत उत्तमः । तस्य मूर्ध्नि त्रिशूलाभा दर्भास्तिष्ठन्ति शोभनाः ॥ १५० ॥ तस्याधः कटिमात्रं तु खात्वा नीलां मृदं हरेत् । तां पचेदक्षजैः काष्ठैर्भागं देवाय कल्पयेत् ॥ १५१ ॥ अतिथेश्च तथाऽग्नेश्च भागं भागं प्रकल्पयेत् । भागमात्मनि भुञ्जीत जीवेत्कल्पायुतं नरः ॥ १५२ ॥ तत्र कोटीश्वरं ख्यातमिलेश्वरसमीपतः । तस्याग्रे पुष्पमात्रं तु स्पर्शवेधकरं भवेत् ॥ १५३ ॥
८४ आयुर्वेदीयग्रन्थमाला । [उपदेशः अचलेशश्च तत्रैव स्पर्शवेधकरः परः । दक्षिणे अचलेशस्य योजनैकेन विद्यते ॥ १५४ ॥ अमरेश्वरदेवाख्यस्तत्र स्वर्णशिला शुभा । तस्य पृष्ठे च गोमांसं महामांसं च वा क्षिपेत् ॥ १५५ ॥ प्रज्वाल्य बदरीकाष्ठैः प्रातः स्वर्णोपमा तु सा । दृश्यते रजसा स्त्रीणां भावितं वस्त्रखण्डकम् ॥ १५६ ॥ तच्छिलालोडितं कुर्याद्रक्षेद्लाबुपात्रके । तेन संस्पर्शमात्रेण लोहं भवति हाटकम् ॥ १५७ ॥ श्रीशैले तत्र तत्रैव पाषाणा पिण्डभूस्थिताः । तच्चूर्णं त्रिफलासार्धं कर्षैकं भक्षयेत्सदा ॥ १५८ ॥ मासार्धं तु जरां हन्ति जीवेदाचन्द्रतारकम् । नैर्ऋत्ये शैलराजस्य पटाहकर्ण ईश्वरः ॥ १५९ ॥ तस्य चेशानदिग्भागे पञ्चविंशतिधन्वके । द्विहस्तमात्रोर्ध्वशिला तत्र हस्तद्वयं खनेत् ॥ १६० ॥ शरावसंपुटसंकाशान् पाषाणांस्त्रिशदाहरेत् । कृत्वा तानग्निवर्णांश्च सिञ्चेत्कूष्माण्डजैर्द्रवैः ॥ १६१ ॥ तन्मध्यान्नवनीतं तु गृह्णाद्देवाय भागकम् । अतिथेर्भागमेकं तु भागैकं भक्षयेद्बुधः ॥ १६२ ॥ मूर्च्छा भवेद्दिवारात्रं प्रबुद्धो जायते नरः । जीवेद्वर्षायुतं वीरो वलीपलितवर्जितः ॥ १६३ ॥ तस्य देवस्य सोपानं द्वितीयं स्पर्शवेधकम् । तस्य देवस्य पार्श्वे तु पाषाणाः श्वेतपीतकाः ॥ १६४ ॥ सर्वस्पर्शा न संदेह एकमेव समाहरेत् । तस्य देवस्य पूर्वे तु कूपः स्यान्नातिदूरतः ॥ १६५ ॥ तन्मध्ये भेकसंकाशाः पाषाणाः स्पर्शवेधकाः । उत्तरे तस्य देवस्य विख्यातो लिङ्गपर्वतः ॥ १६६ ॥
८.] रसरत्नाकरस्य रसायनखण्डः । ८५ तस्य चोत्तरपार्श्वे तु नदी स्यात्पूर्ववाहिनी । नद्याः पश्चिमदिग्भागे लिङ्गं पिङ्गलवर्णकम् ॥ १६७ ॥ तत्र शैलोदकैः कुण्डं पूर्ण स्यात्क्षणवेधकम् । महेशाद्दक्षिणे भागे चण्डिका योजनद्वये ॥ १६८ ॥ पिण्डादेवीति विख्याता तस्या वायव्यकोणतः । कूपस्तिष्ठति तन्मध्ये पाषाणा मुद्रवर्णकाः ॥ १६९ ॥ तथा पथ्यानिभाश्चैव सर्वे ते स्पर्शवेधकाः । स्पर्शनादत्र सर्वेषां वेधयुक्तिर्विधीयते ॥ १७० ॥ स्थूलश्वेत्पेषयेच्छ्लक्ष्णं तेन मूषां तु कारयेत् । अष्टलोहानि तन्मध्ये समावर्त्यानि कारयेत् ॥ १७१ ॥ तत्सर्वं जायते स्वर्णमेवं कुर्याद्यथेप्सितम् । सूक्ष्मंश्वेदष्टलोहानां द्रुतानां यत्र कुत्रचित् ॥ १७२ ॥ तं सर्वं निक्षिपेन्मध्ये सर्वं तत्काञ्चनं भवेत् । मल्लिकार्जुनवायव्ये तीर्थं सर्वेश्वरं स्थितम् ॥ १७३ ॥ तस्य दक्षिणदिग्भागे जलमार्गेऽर्धयोजने । गते डाङ्गरिकं तत्र दृश्यते तस्य मूर्धनि ॥ १७४ ॥ धात्रीफलानि कृष्णानि विद्यन्ते तानि भक्षयेत् । यथेष्टानि तु सप्ताहं वज्रकायो भवेन्नरः ॥ १७५ ॥ वलीपलितनिर्मुक्तो जीवेत्कल्पशतत्रयम् । तस्माच्च दक्षिणे भागे काकलेरीमहानवम् ॥ १७६ ॥ तत्रास्ति स्तम्भकदली प्रविशेत्तत्र साधकः । गच्छेत्क्रोशार्धमात्रं तु दृश्यते रसकुण्डकम् ॥ १७७ ॥ गृहीत्वाऽलाबुपात्रे तु कोटिवेधी भवेद्रसः । तस्मिन् वने मयूरः स्यान्नीलवर्णशिलामयः ॥ १७८ ॥ मुखाग्रे तस्य कुण्डं तु द्वादशाङ्गुलनीलकम् । तन्मध्ये शुष्कवंशं तु क्षिप्त्वा स्यान्नूतनः क्षणात्॥१७९॥ ८
८६ आयुर्वेदीयग्रन्थमाला । [ उपदेशः दिने पत्रं फलं पुष्पं जायते तस्य नान्यथा । तत्र पारदप्रस्थैकं क्षित्वा तावज्जलं हरेत् ॥ १८० ॥ क्षौद्रतुल्यं पिवेत्तं वै तत्क्षणान्मूर्च्छितो भवेत् । मुहूर्त्ताल्लब्धराज्यः स्याज्जीवेद्युगसहस्रकम् ॥ १८१ ॥ शैलस्याग्नेयभागे तु गुटिकासिद्धिकेश्वरः । विद्यते तस्य पुरतः पञ्चहस्तां खनेद्ध्रुवम् ॥ १८२ ॥ पाषाणा बदराकाराः सन्ति खेगतिदायकाः । एकमेव समाहृत्य वक्त्रे धार्यः खगामिभिः ॥ १८३ ॥ श्रीशैले सर्वयोगानामुक्तानां विधिरुच्यते । मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेदनु ॥ १८४ ॥ अघोरं तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् । क्षेत्रदेवतामावाहयेत् । तत्र खस्थे देवता प्रत्यक्षीभूय वरं ददाति। एवं मन्त्रपरैः सुनिश्चलतरैर्भक्तैश्च तत्साधकैः शम्भोः पूजनतत्परैः प्रतिदिनं पूजाविधेः पालकैः । कार्यं श्रीगिरिसाधनं जपपरैराम्नायपारंगतै- र्नो चेत्क्लेशकरं पराकृतमहो व्यर्थं भवेन्निश्चितम् ॥१८५॥ इति श्रीपार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे श्रीपर्वतसाधनं नामाष्टमोपदेशः ॥ समाप्तोऽयं रसायनखण्डः । १ श्रीशैलपर्वतस्तु दक्षिणभारते कर्णाटकदेशे वर्तते ।
रसायनखण्डपाठसंशोधनम् । —————— अपपाठः \qquad\qquad सुपाठः \qquad\qquad पृ० \quad पं० दिनावधिः \qquad\qquad दिनावधि \qquad\qquad १५ \quad १ ब्रह्मीयुगंच्छति \qquad\qquad ब्रह्मायुर्गच्छति \qquad\qquad २० \quad २२ द्वन्द्वमूषायां लिप्तायां \qquad\qquad द्वन्द्वलिप्तायां मूषायां \qquad\qquad २८ \quad ७ 'श्रीनित्यसिद्धनाथ' \qquad\qquad 'नित्यनाथसिद्ध' \qquad\qquad ४८ \quad २६ १ 'बलकरं' ख. । \qquad\qquad १ 'बलकरं परमं' ख. । \qquad\qquad ४९ \quad २५ 'भिदामूत्रेण (?) वेष्टयेन् \qquad\qquad 'भिदामूत्रेण मर्दयेन् \qquad\qquad ५० \quad २३ गौरामलकचूर्णं \qquad\qquad गौर्यामलकचूर्णं \qquad\qquad ५५ \quad ७ शुद्धसतसमं \qquad\qquad शुद्धमूतसमं \qquad\qquad ५७ \quad ६ तद्घृतैर्यटकं \qquad\qquad घृतैस्तद्घटकं \qquad\qquad ६२ \quad २२ मदनानन्दमोदकः \qquad\qquad कामेश्वरमोदकः \qquad\qquad ६३ \quad ९ विदारि मुशली गोकण्टकेक्षुरकौ \qquad\qquad विदारिमुशलीगोकण्टकेक्षुरकं \qquad\qquad ,, \quad ११ जैसलमेरोः पत्तने \qquad\qquad पश्चिमसमुद्रस्य तटे \qquad\qquad ६८ \quad ४ स्पृष्टुं \qquad\qquad स्प्रष्टुं \qquad\qquad ७२ \quad १६ तेन \qquad\qquad तस्य \qquad\qquad ७३ \quad २ ॰स्त्वानि तिष्ठन्ति \qquad\qquad ॰स्तिष्ठन्ति तांस्तु \qquad\qquad ,, \quad १८ धार्यतां \qquad\qquad धारय \qquad\qquad ७८ \quad २५ सुझते \qquad\qquad मुञ्चसे \qquad\qquad ,, \quad २६ १ ख-पुस्तके पाठान्तरं, युक्तं चैतत्; अस्मन्मित्रैः वैद्य धीरजराम करुणाशङ्कर इत्येतैर्भावनगराधिपतीनामाज्ञया कराचीबन्दर इति प्रसिद्धनगरात् पश्चिमतः पञ्चाशन्मै- लदूरस्थितात् गुवादर इत्याख्यस्थानात् समुद्रतीरात् आनीताः खलु वालुकामीनाः।