रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 85, कुल 94 में से
संदर्भ में पढ़ें७८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः वीक्ष्य पश्चिमदिग्भागे ह्यन्तरिक्षे च तत्क्षणात् । पश्येदिव्यविमानानि जायते प्रत्ययो महान् ॥ ८० ॥ ततः पश्चिमदिग्भागे गच्छेन्नदीं तरेत्सुधीः । गह्वरं दृश्यते तत्र प्रविशेत्पश्चिमामुखम् ॥ ८१ ॥ योजनत्रितयं गच्छेदेकाकी निर्विकल्पकः । पञ्चयोजनविस्तीर्णं दृश्यते कदलीवनम् ॥ ८२ ॥ तस्य मध्येऽतिविस्तीर्णं जलपूर्णं सरोवरम् । सिंहासनं तु तन्मध्ये शुद्धस्फटिकसंनिभम् ॥ ८३ ॥ तं दृष्ट्वा दण्डवद्भूमौ निपतेन्मन्त्रमुच्चरेत् । ॐ ह्रीं विद्यावागीश्वराधिपतये ह्रीं ॐ स्वाहा । स्नानं कृत्वा प्रयत्नेन लक्षमेकं जपेदनु ॥ यथेष्टं भोजनं कृत्वा कन्दमूलफलादिकम् ॥ ८४ ॥ ततः सिंहासनस्योर्ध्वं शुद्धस्फटिकसंनिभः । चतुर्भुजस्त्रिनेत्रश्च दृश्यते परमेश्वरः ॥ ८५ ॥ स्तोत्रमन्त्रैर्नमस्कारैः प्रणिपत्य पुनः पुनः । वरं दत्ते यथेष्टं वै साधकस्य न संशयः ॥ ८६ ॥ शतमायतनं तत्र कूपानां च शतं नव । तावत्संख्यास्तथाऽऽरामा नन्दनाख्यवनानि च ॥ ८७ ॥ तथा नवशतं वाप्यो विद्यन्ते कदलीवने । बिलद्वाराणि तावन्ति कल्पवृक्षास्तथैव च ॥ ८८ ॥ तत्रैव मौकली नाम यक्षिणी प्रकटा स्थिता । सा वक्ति भोजनं देहि यदीच्छसि समीहितम् ॥ ८९ ॥ ततस्तस्यै प्रवक्तव्यं दास्यामि परमेश्वरि । क्षीरान्नं वा फलाहारं तदग्रे दापयेत्सुधीः ॥ ९० ॥ सा वक्ति मम पुत्रोऽयं क्षणं वक्षसि धार्यताम् । यदा न मुञ्चते भूमौ तदा सिद्धयष्टकं तव ॥ ९१ ॥