भारतकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 86, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 86

८.] रसरत्नाकरस्य रसायनखण्डः । ७९ दास्येऽहं नात्र संदेहो भोजनान्तेऽथवा पुनः । त्यक्ते करोमि संहारं तस्माद्यत्नेन रक्षय ॥ ९२ ॥ इत्येवं साधको वीरः कुर्यात्सिद्धिमवाप्नुयात् । गच्छेदुत्तरदिग्भागे तत्सरो योजनार्थकम् ॥ ९३ ॥ तत्रास्ति पुष्पसंपूर्णं दिव्याख्यं नन्दनं वनम् । पुष्पाणां घ्राणमात्रेण क्षुत्पिपासा न विद्यते ॥ ९४ ॥ अथवा भक्षयेत्तस्मात्फलमेकं यथोचितम् । तेन भक्षितमात्रेण वज्रकायो भवेन्नरः ॥ ९५ ॥ सरो दक्षिणदिग्भागं गच्छेद्योजनपादकम् । तत्र दाडिमसंपूर्ण दृश्यते नन्दनं वनम् ॥ ९६ ॥ तत्फलं भक्षयेत्सिद्धो जीवेद्युगसहस्रकम् । तत्सरःपूर्वदिग्भागे गच्छेत्क्रोशार्धमात्रकम् ॥ ९७ ॥ तत्र धात्रीफलैः पूर्णं श्यामलं नन्दनं वनम् । फलानि भक्षयेत्तानि जीवेत्कल्पशतत्रयम् ॥ ९८ ॥ तत्सरःपश्चिमे भागे गच्छेद्योजनमात्रकम् । तत्र बिल्वफलैः पूर्णं दृश्यते नन्दनं वनम् ॥ ९९ ॥ तत्फलं भक्षयेद्वीरो जीवेच्चन्द्रार्कतारकम् । तन्नन्दनवने रम्ये लिङ्गं स्यान्नीलवर्णकम् ॥ १०० ॥ प्रविशेदुत्तरद्वारे तत्र नागो महाबलः । उग्रः सप्तफणाकारो दृश्यतेऽतिभयङ्करः ॥ १०१ ॥ तस्य कुर्यान्नमस्कारं हुं¹ हुं कुर्यात्समुद्धरेत् । तदाऽसौ वदते वाणीमदृश्यत्वं ददामि ते ॥ १०२ ॥ गच्छ त्वं पश्चिमद्वारे तत्रास्ति दिव्यकन्यका । गच्छेत्तत्र महावीरः साधको मन्त्रमुच्चरन् ॥ १०३ ॥


१ 'हुंकारं च समुच्चरेत्' ख. ।