रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 90, कुल 94 में से
संदर्भ में पढ़ें८.] रसरत्नाकरस्य रसायनखण्डः । ८३ तत्र कूर्मोपमं लिङ्गं स्पर्शवेधकरं परम् । कृत्तिकायां सुपूर्णायां कृत्वा पूजां ममाहरेन् ॥ १४१ ॥ गव्यूतिद्वयतस्तस्मान्नाम्ना नीलवनं स्मृतम् । तत्र लिङ्गं नीलवर्णं जलं चैव तु तादृशम् ॥ १४२ ॥ अश्वाभ्रकाकसदृशाः पाषाणाः स्पर्शवेधकाः । सन्ति देवगृहस्यान्तः खनेज्जान्वन्तराद्धरेत् ॥ १४३ ॥ श्रीशैलस्य तु नैर्ऋत्ये नाम्ना गुण्डिग्रभा स्थिता । तस्याग्राद्रक्तमृद्ग्राह्या पीतवर्णा पुटैर्दहेत् ॥ १४४ ॥ तस्मान्निःसरते हेम स्फुरद्रूपं न संशयः । तत्रैव अमराःस्युश्च पूर्ववत्फलदायकाः ॥ १४५ ॥ तथा तम्बीपुरे नाम्नि तीर्थे च विपुले शुभम् । सदाफलं तु विख्यातं पूर्ववत्साधयेत्सुधीः ॥ १४६ ॥ महानन्देश्वरं नाम श्रीशैलस्य तु नैर्ऋते । तस्य पूर्वोत्तरे पार्श्वे गच्छेद्राजपथेन तु ॥ १४७ ॥ कालवर्णेश्वरो नाम देवस्तस्याग्रकुण्डकम् । इन्द्रगोपकसंकाशस्तन्मध्ये विद्यते रसः ॥ १४८ ॥ तप्तानि सप्तलोहानि तत्सेकात्काञ्चनं भवेत् । श्रीशैलस्य तु ईशाने देवः स्यात्तरलेश्वरः ॥ १४९ ॥ तस्योत्तरे सुविख्यातं उमापर्वत उत्तमः । तस्य मूर्ध्नि त्रिशूलाभा दर्भास्तिष्ठन्ति शोभनाः ॥ १५० ॥ तस्याधः कटिमात्रं तु खात्वा नीलां मृदं हरेत् । तां पचेदक्षजैः काष्ठैर्भागं देवाय कल्पयेत् ॥ १५१ ॥ अतिथेश्च तथाऽग्नेश्च भागं भागं प्रकल्पयेत् । भागमात्मनि भुञ्जीत जीवेत्कल्पायुतं नरः ॥ १५२ ॥ तत्र कोटीश्वरं ख्यातमिलेश्वरसमीपतः । तस्याग्रे पुष्पमात्रं तु स्पर्शवेधकरं भवेत् ॥ १५३ ॥