रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 91, कुल 94 में से
संदर्भ में पढ़ें८४ आयुर्वेदीयग्रन्थमाला । [उपदेशः अचलेशश्च तत्रैव स्पर्शवेधकरः परः । दक्षिणे अचलेशस्य योजनैकेन विद्यते ॥ १५४ ॥ अमरेश्वरदेवाख्यस्तत्र स्वर्णशिला शुभा । तस्य पृष्ठे च गोमांसं महामांसं च वा क्षिपेत् ॥ १५५ ॥ प्रज्वाल्य बदरीकाष्ठैः प्रातः स्वर्णोपमा तु सा । दृश्यते रजसा स्त्रीणां भावितं वस्त्रखण्डकम् ॥ १५६ ॥ तच्छिलालोडितं कुर्याद्रक्षेद्लाबुपात्रके । तेन संस्पर्शमात्रेण लोहं भवति हाटकम् ॥ १५७ ॥ श्रीशैले तत्र तत्रैव पाषाणा पिण्डभूस्थिताः । तच्चूर्णं त्रिफलासार्धं कर्षैकं भक्षयेत्सदा ॥ १५८ ॥ मासार्धं तु जरां हन्ति जीवेदाचन्द्रतारकम् । नैर्ऋत्ये शैलराजस्य पटाहकर्ण ईश्वरः ॥ १५९ ॥ तस्य चेशानदिग्भागे पञ्चविंशतिधन्वके । द्विहस्तमात्रोर्ध्वशिला तत्र हस्तद्वयं खनेत् ॥ १६० ॥ शरावसंपुटसंकाशान् पाषाणांस्त्रिशदाहरेत् । कृत्वा तानग्निवर्णांश्च सिञ्चेत्कूष्माण्डजैर्द्रवैः ॥ १६१ ॥ तन्मध्यान्नवनीतं तु गृह्णाद्देवाय भागकम् । अतिथेर्भागमेकं तु भागैकं भक्षयेद्बुधः ॥ १६२ ॥ मूर्च्छा भवेद्दिवारात्रं प्रबुद्धो जायते नरः । जीवेद्वर्षायुतं वीरो वलीपलितवर्जितः ॥ १६३ ॥ तस्य देवस्य सोपानं द्वितीयं स्पर्शवेधकम् । तस्य देवस्य पार्श्वे तु पाषाणाः श्वेतपीतकाः ॥ १६४ ॥ सर्वस्पर्शा न संदेह एकमेव समाहरेत् । तस्य देवस्य पूर्वे तु कूपः स्यान्नातिदूरतः ॥ १६५ ॥ तन्मध्ये भेकसंकाशाः पाषाणाः स्पर्शवेधकाः । उत्तरे तस्य देवस्य विख्यातो लिङ्गपर्वतः ॥ १६६ ॥