भारतकोश
संग्रह पर लौटें

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

८४ आयुर्वेदीयग्रन्थमाला । [उपदेशः अचलेशश्च तत्रैव स्पर्शवेधकरः परः । दक्षिणे अचलेशस्य योजनैकेन विद्यते ॥ १५४ ॥ अमरेश्वरदेवाख्यस्तत्र स्वर्णशिला शुभा । तस्य पृष्ठे च गोमांसं महामांसं च वा क्षिपेत् ॥ १५५ ॥ प्रज्वाल्य बदरीकाष्ठैः प्रातः स्वर्णोपमा तु सा । दृश्यते रजसा स्त्रीणां भावितं वस्त्रखण्डकम् ॥ १५६ ॥ तच्छिलालोडितं कुर्याद्रक्षेद्लाबुपात्रके । तेन संस्पर्शमात्रेण लोहं भवति हाटकम् ॥ १५७ ॥ श्रीशैले तत्र तत्रैव पाषाणा पिण्डभूस्थिताः । तच्चूर्णं त्रिफलासार्धं कर्षैकं भक्षयेत्सदा ॥ १५८ ॥ मासार्धं तु जरां हन्ति जीवेदाचन्द्रतारकम् । नैर्ऋत्ये शैलराजस्य पटाहकर्ण ईश्वरः ॥ १५९ ॥ तस्य चेशानदिग्भागे पञ्चविंशतिधन्वके । द्विहस्तमात्रोर्ध्वशिला तत्र हस्तद्वयं खनेत् ॥ १६० ॥ शरावसंपुटसंकाशान् पाषाणांस्त्रिशदाहरेत् । कृत्वा तानग्निवर्णांश्च सिञ्चेत्कूष्माण्डजैर्द्रवैः ॥ १६१ ॥ तन्मध्यान्नवनीतं तु गृह्णाद्देवाय भागकम् । अतिथेर्भागमेकं तु भागैकं भक्षयेद्बुधः ॥ १६२ ॥ मूर्च्छा भवेद्दिवारात्रं प्रबुद्धो जायते नरः । जीवेद्वर्षायुतं वीरो वलीपलितवर्जितः ॥ १६३ ॥ तस्य देवस्य सोपानं द्वितीयं स्पर्शवेधकम् । तस्य देवस्य पार्श्वे तु पाषाणाः श्वेतपीतकाः ॥ १६४ ॥ सर्वस्पर्शा न संदेह एकमेव समाहरेत् । तस्य देवस्य पूर्वे तु कूपः स्यान्नातिदूरतः ॥ १६५ ॥ तन्मध्ये भेकसंकाशाः पाषाणाः स्पर्शवेधकाः । उत्तरे तस्य देवस्य विख्यातो लिङ्गपर्वतः ॥ १६६ ॥

८.] रसरत्नाकरस्य रसायनखण्डः । ८५ तस्य चोत्तरपार्श्वे तु नदी स्यात्पूर्ववाहिनी । नद्याः पश्चिमदिग्भागे लिङ्गं पिङ्गलवर्णकम् ॥ १६७ ॥ तत्र शैलोदकैः कुण्डं पूर्ण स्यात्क्षणवेधकम् । महेशाद्दक्षिणे भागे चण्डिका योजनद्वये ॥ १६८ ॥ पिण्डादेवीति विख्याता तस्या वायव्यकोणतः । कूपस्तिष्ठति तन्मध्ये पाषाणा मुद्रवर्णकाः ॥ १६९ ॥ तथा पथ्यानिभाश्चैव सर्वे ते स्पर्शवेधकाः । स्पर्शनादत्र सर्वेषां वेधयुक्तिर्विधीयते ॥ १७० ॥ स्थूलश्वेत्पेषयेच्छ्लक्ष्णं तेन मूषां तु कारयेत् । अष्टलोहानि तन्मध्ये समावर्त्यानि कारयेत् ॥ १७१ ॥ तत्सर्वं जायते स्वर्णमेवं कुर्याद्यथेप्सितम् । सूक्ष्मंश्वेदष्टलोहानां द्रुतानां यत्र कुत्रचित् ॥ १७२ ॥ तं सर्वं निक्षिपेन्मध्ये सर्वं तत्काञ्चनं भवेत् । मल्लिकार्जुनवायव्ये तीर्थं सर्वेश्वरं स्थितम् ॥ १७३ ॥ तस्य दक्षिणदिग्भागे जलमार्गेऽर्धयोजने । गते डाङ्गरिकं तत्र दृश्यते तस्य मूर्धनि ॥ १७४ ॥ धात्रीफलानि कृष्णानि विद्यन्ते तानि भक्षयेत् । यथेष्टानि तु सप्ताहं वज्रकायो भवेन्नरः ॥ १७५ ॥ वलीपलितनिर्मुक्तो जीवेत्कल्पशतत्रयम् । तस्माच्च दक्षिणे भागे काकलेरीमहानवम् ॥ १७६ ॥ तत्रास्ति स्तम्भकदली प्रविशेत्तत्र साधकः । गच्छेत्क्रोशार्धमात्रं तु दृश्यते रसकुण्डकम् ॥ १७७ ॥ गृहीत्वाऽलाबुपात्रे तु कोटिवेधी भवेद्रसः । तस्मिन् वने मयूरः स्यान्नीलवर्णशिलामयः ॥ १७८ ॥ मुखाग्रे तस्य कुण्डं तु द्वादशाङ्गुलनीलकम् । तन्मध्ये शुष्कवंशं तु क्षिप्त्वा स्यान्नूतनः क्षणात्॥१७९॥ ८

८६ आयुर्वेदीयग्रन्थमाला । [ उपदेशः दिने पत्रं फलं पुष्पं जायते तस्य नान्यथा । तत्र पारदप्रस्थैकं क्षित्वा तावज्जलं हरेत् ॥ १८० ॥ क्षौद्रतुल्यं पिवेत्तं वै तत्क्षणान्मूर्च्छितो भवेत् । मुहूर्त्ताल्लब्धराज्यः स्याज्जीवेद्युगसहस्रकम् ॥ १८१ ॥ शैलस्याग्नेयभागे तु गुटिकासिद्धिकेश्वरः । विद्यते तस्य पुरतः पञ्चहस्तां खनेद्ध्रुवम् ॥ १८२ ॥ पाषाणा बदराकाराः सन्ति खेगतिदायकाः । एकमेव समाहृत्य वक्त्रे धार्यः खगामिभिः ॥ १८३ ॥ श्रीशैले सर्वयोगानामुक्तानां विधिरुच्यते । मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेदनु ॥ १८४ ॥ अघोरं तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् । क्षेत्रदेवतामावाहयेत् । तत्र खस्थे देवता प्रत्यक्षीभूय वरं ददाति। एवं मन्त्रपरैः सुनिश्चलतरैर्भक्तैश्च तत्साधकैः शम्भोः पूजनतत्परैः प्रतिदिनं पूजाविधेः पालकैः । कार्यं श्रीगिरिसाधनं जपपरैराम्नायपारंगतै- र्नो चेत्क्लेशकरं पराकृतमहो व्यर्थं भवेन्निश्चितम् ॥१८५॥ इति श्रीपार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे श्रीपर्वतसाधनं नामाष्टमोपदेशः ॥ समाप्तोऽयं रसायनखण्डः । १ श्रीशैलपर्वतस्तु दक्षिणभारते कर्णाटकदेशे वर्तते ।

रसायनखण्डपाठसंशोधनम् । —————— अपपाठः \qquad\qquad सुपाठः \qquad\qquad पृ० \quad पं० दिनावधिः \qquad\qquad दिनावधि \qquad\qquad १५ \quad १ ब्रह्मीयुगंच्छति \qquad\qquad ब्रह्मायुर्गच्छति \qquad\qquad २० \quad २२ द्वन्द्वमूषायां लिप्तायां \qquad\qquad द्वन्द्वलिप्तायां मूषायां \qquad\qquad २८ \quad ७ 'श्रीनित्यसिद्धनाथ' \qquad\qquad 'नित्यनाथसिद्ध' \qquad\qquad ४८ \quad २६ १ 'बलकरं' ख. । \qquad\qquad १ 'बलकरं परमं' ख. । \qquad\qquad ४९ \quad २५ 'भिदामूत्रेण (?) वेष्टयेन् \qquad\qquad 'भिदामूत्रेण मर्दयेन् \qquad\qquad ५० \quad २३ गौरामलकचूर्णं \qquad\qquad गौर्यामलकचूर्णं \qquad\qquad ५५ \quad ७ शुद्धसतसमं \qquad\qquad शुद्धमूतसमं \qquad\qquad ५७ \quad ६ तद्घृतैर्यटकं \qquad\qquad घृतैस्तद्घटकं \qquad\qquad ६२ \quad २२ मदनानन्दमोदकः \qquad\qquad कामेश्वरमोदकः \qquad\qquad ६३ \quad ९ विदारि मुशली गोकण्टकेक्षुरकौ \qquad\qquad विदारिमुशलीगोकण्टकेक्षुरकं \qquad\qquad ,, \quad ११ जैसलमेरोः पत्तने \qquad\qquad पश्चिमसमुद्रस्य तटे \qquad\qquad ६८ \quad ४ स्पृष्टुं \qquad\qquad स्प्रष्टुं \qquad\qquad ७२ \quad १६ तेन \qquad\qquad तस्य \qquad\qquad ७३ \quad २ ॰स्त्वानि तिष्ठन्ति \qquad\qquad ॰स्तिष्ठन्ति तांस्तु \qquad\qquad ,, \quad १८ धार्यतां \qquad\qquad धारय \qquad\qquad ७८ \quad २५ सुझते \qquad\qquad मुञ्चसे \qquad\qquad ,, \quad २६ १ ख-पुस्तके पाठान्तरं, युक्तं चैतत्; अस्मन्मित्रैः वैद्य धीरजराम करुणाशङ्कर इत्येतैर्भावनगराधिपतीनामाज्ञया कराचीबन्दर इति प्रसिद्धनगरात् पश्चिमतः पञ्चाशन्मै- लदूरस्थितात् गुवादर इत्याख्यस्थानात् समुद्रतीरात् आनीताः खलु वालुकामीनाः।