रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 83, कुल 94 में से
संदर्भ में पढ़ें७६ आयुर्वेदीयग्रन्थमाला । [उपदेशः कान्ताभ्रं काञ्चनं सूतं कृत्वा गोलं तु वेशयेत् । वंशाग्रस्थं मन्त्रयुक्तं स्पर्शवेधी भवेत्तु तत् ॥ ५५ ॥ श्रीशैले पश्चिमे द्वारे नाम्ना ब्रह्मेश्वरेश्वरः । तल्लिङ्गं स्पर्शमित्याहुर्दुर्गा तत्रैव तादृशी ॥ ५६ ॥ नवमं यत्तु सोपानं नद्यां तत्तादृशं स्थितम् । देवस्य तिष्ठति द्वारे मुद्गवर्णं विलोकयेत् ॥ ५७ ॥ ब्रह्मेश्वरस्य नैर्ऋत्ये संस्थितं तिन्तिणीवनम् । तस्मिन् वने स्थितं कुण्डं तत्र तिष्ठति चण्डिका ॥५८॥ एकपादेन चिञ्चाधस्तद्वृक्षात्पत्रमाहरेत् । बद्ध्वा वस्त्रे क्षिपेत्कुण्डे स्नानं तत्र समाचरेत् ॥ ५९ ॥ स्नानान्ते पोटली ग्राह्या सर्वे मत्स्या भवन्ति ते । तत्काष्ठैः पाचयेत्तानि कण्ठं पुच्छं शिरस्त्यजेत् ॥६०॥ भागं देवाय संकल्प्य द्वितीयमतिथेर्भवेत् । तृतीयं साधको भुक्त्वा क्षणं भवति मूर्च्छितः ॥ ६१ ॥ तत्क्षणाज्जायते सिद्धश्छिद्रां पश्यति मेदिनीम् । अजरामरतां याति न बाध्यस्त्रिदशैरपि ॥ ६२ ॥ अलंपुरोत्तरे भागे ग्रामः स्याद्धीमपादुकः । तस्य ग्रामस्य पार्श्वे तु हस्तमात्रं खनेद्ध्रुवम् ॥ ६३ ॥ पाषाणाः सर्पवद्वक्रा ग्राह्या स्पर्शा भवन्ति ते । योगेश्वरीति विख्याता देवता या त्वलंपुरे ॥ ६४ ॥ देव्या ह्यग्रे गुहा रम्या तन्मध्ये निखनेद्ध्रुवम् । पाषाणा भेकसंकाशा ग्राह्या मार्जारविष्ठया ॥ ६५ ॥ मिश्रीकृत्य क्षिपेद्वङ्गे तद्वङ्गं तारतां व्रजेत् । मध्वाज्यसहितान् भक्ष्येत्पाषाणांस्तान्विचक्षणः ॥ ६६ ॥ श्रीशैलस्योत्तरद्वारे महेशो नाम देवता । भ्रमराम्रः स्थितस्तत्र तस्य पक्वफलानि वै ॥ ६७ ॥