रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 80, कुल 94 में से
संदर्भ में पढ़ें८.] रसरत्नाकरस्य रसायनखण्डः । ७३ तस्मिन् कुण्डे विनिक्षिप्य तानि मीना भवन्ति वै । संगृह्य तेन काष्ठेन पचेत्तेषां विवर्जयेत् ॥ १७ ॥ कण्टकानि शिरः पुच्छं शेषं भक्षेत साधकः । क्षणं मूर्च्छा भवेत्तेन प्रबुद्धो जायते स्वयम् ॥ १८ ॥ छिद्रं पश्यति मेदिन्यां जीवेद्वर्षायुतं नरः । त्रिपुरान्तकदेवस्य पश्चिमे गव्युतिद्वये ॥ १९ ॥ मणिपल्लिरिति ग्रामस्तस्य पश्चिमतो गिरिः । तस्य पश्चिमदिग्भागे कपाटं दृश्यते शुभम् ॥ २० ॥ पूर्वाभिमुखः प्रविशेत्ततो गच्छेच्च दक्षिणम् । दशधन्वन्तरं यावद्दृश्यन्ते ज्वलनप्रभाः ॥ २१ ॥ आम्राकाराः सुपाषाणा ग्राह्या वस्त्रेण बन्धयेत् । रक्तवर्णं भवेद्वस्त्रं क्षीरमध्ये क्षिपेत्ततः ॥ २२ ॥ तत्क्षीरं जायते रक्तं तत्क्षीरं साधकः पिबेत् । सप्ताहाद्वज्रकायः स्याज्जीवेच्चन्द्रार्कतारकम् ॥ २३ ॥ त्रिपुरान्तकदेवस्य उत्तरे कोकिलाबिलम् । विख्यातं सर्वलोकेषु कृत्वा वमनरेचनम् ॥ २४ ॥ साधकः प्रविशेत्तत्र दशधन्वन्तरावधि । पाषाणाः कोकिलाकारास्तानि तिष्ठन्ति चाहरत्॥ २५॥ तेषां पृष्ठे तिलाः क्षिप्ताः स्फुटन्त्येव हि तत्क्षणात् । इत्येवं प्रत्ययं दृष्ट्वा तांश्च घृष्ट्वा परस्परम् ॥ २६ ॥ क्षीरमध्ये क्षिपेत्तान् वै क्षीरं कृष्णं प्रजायते । आकण्ठान्तं पिबेत्तत्तु दिव्यकायो भवेन्नरः ॥ २७ ॥ वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् । छिद्रं पश्यति मेदिन्यां वायुवेगो महाबलः ॥ २८ ॥ त्रिपुरान्तकदेवस्य पूर्वदिग्योजनान्तरे । देवः स्वर्गपुरी नाम विद्यते तत्र वै खनेत् ॥ २९ ॥ ७