रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 73, कुल 94 में से
संदर्भ में पढ़ें६६ आयुर्वेदियग्रन्थमाला । [उपदेश० तन्मुक्ते मुञ्चते वीर्यं सिद्धयोग उदाहृतः । वीर्यस्तम्भकरो नाभिलेपः । सहदेवीयमूलं तु तत्समं पद्मकेशरम् ॥ १८ ॥ पिष्ट्वा मध्वाज्यसंयुक्तो लेपो नाभौ तु वीर्यधृक् । वीर्यस्तम्भकरी कोकिलाक्षादिवटी । श्वेतस्य कोकिलाक्षस्य बीजं मूलं समाहरेत् ॥ १९ ॥ पिष्टं तण्डुलसंभूतं बदरीणां फलं समम् । जलैः पिष्ट्वा वटी धार्या वीर्यस्तम्भकरी मुखे ॥ २० ॥ वीर्यस्तम्भकरो नाभिलेपः । नागवल्लीपयःपिष्टं लज्जामूलं प्रलेपयेत् । तन्नाभौ वीर्यधृक् पुंसां मूलं वा तुलसीभवम् ॥ २१ वीर्यस्तम्भकरो दीपः । मूलेन श्वेतगुञ्जाया वर्तिं कृत्वा प्रदीपयेत् । दीपं सूकरतैलेन वीर्यस्तम्भकरं नृणाम् ॥ २२ ॥ वीर्यस्तम्भकरी वटिका । बीजमीश्वरलिङ्ग्यास्तु मृतं वृश्चिककण्टकम् । सर्वं पूगफलस्यान्तः क्षिप्त्वा वेष्ट्यं त्रिलोहकैः ॥ २३ ॥ जिह्वोपरि स्थिते तस्मिन्नरो वीर्यं न मुञ्चति । वीर्यस्तम्भार्थं श्लेष्मातकादियोगः । श्लेष्मातस्य कुरण्टस्य बीजं फण्याः समाहरेत् ॥ २४ अजाक्षीरेण तं पिष्ट्वा कर्षं भुक्त्वा तु वीर्यधृक् । वीर्यस्तम्भार्थं सूरणादियोगः । शूरणं तुलसीमूलं ताम्बूलैः सह भक्षयेत् ॥ २५ ॥ न मुञ्चति नरो वीर्यं कर्षैकेन पृथक्पृथक् । वीर्यस्तम्भार्थे मार्जारनखादिबन्धनम् । नखास्थीनि समादाय मार्जारस्य सितस्य वै ॥ २६ ॥ १ 'तुम्बरतैलेन' ख. । २ 'तुलसीं फलीं' ख. ।