रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 72, कुल 94 में से
संदर्भ में पढ़ेंरसरत्नाकरस्य रसायनखण्डः । ६५ दृष्ट्वा तां धारयेद्वक्त्रे वीर्यस्तम्भकरीं रतौ । क्षीरं पीत्वा रमेद्रामाः कामाकुलकलान्विताः ॥ ८ ॥ मुखाद्भ्रस्तं यदा प्राप्ता तदा वीर्यं पतत्यलम् । ब्रह्माण्डगुटिका नाम शोषयन्ती महोदधिम् ॥ ९ ॥ वीर्यस्तम्भकरो लिङ्गलेपः । दग्धमङ्कोलमूलं तु कर्पूरं कुङ्कुमं तथा । रोचना सहदेवी च समं सर्वं प्रपेषयेत् ॥ १० ॥ विषमुष्टिकतैलेन लिप्तलिङ्गो ह्यनेन वै । नरो नारीसहस्रैकं गच्छन् वीर्यं न मुञ्चति ॥ ११ ॥ वीर्यस्तम्भकरो दीपः । श्वेतार्कतूलजां वर्तिं कृत्वा मूकरमेदसा । यावज्ज्वलति दीपोऽयं तावद्वीर्यं स्थिरं नृणाम् ॥ १२ ॥ वीर्यस्तम्भकरी इन्द्रवारुणिकामूलाया वटीः । इन्द्रवारुणिकामूलं पुष्ये नग्नः समुद्धरेत् । त्र्यूषणैश्च गवां क्षीरैः पिष्ट्वा कुर्याद्वटीं दृढाम् ॥ १३ ॥ छायाशुष्का स्थिता वक्त्रे वीर्यस्तम्भकरी नृणाम् । वरमङ्कोलतैलेन नाभिलेपोऽपि वीर्यधृक् ॥ १४ ॥ वीर्यस्तम्भार्थं रक्तापामार्गमूलयोगः । रक्तापामार्गमूलं तु सोमवारेऽभिमन्त्रयेत् । भौमे प्रातः समुद्धृत्य बन्धेत्कट्यां च वीर्यधृक् ॥ १५॥ वीर्यस्तम्भकरः पादलेपः । चटकानङ्गुलीतैलैः पादाधः संप्रलेपयेत् । न मुञ्चति नरो वीर्यं शय्यां पादेन न स्पृशेत् ॥ १६ ॥ वीर्यस्तम्भार्थे कट्यां सर्पास्थिधारणयोगः । डुण्डुभो नाम यः सर्पः कृष्णवर्णस्तमाहरेत् । तस्यास्थि धारयेत्कट्यां नरो वीर्यं न मुञ्चति ॥ १७ ॥