रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 146, कुल 558 में से
संदर्भ में पढ़ेंसप्तमः पटलः । १२३ पृथग्दशपलं¹ सर्व्वं सूक्ष्मचूर्णं तु कारयेत् । कुभद्वयं कुलत्थानां काष्ठेन तिनिशस्य च² ॥ १४२ ॥ क्वाथयेन्मृदुतापेन यावत् कुम्भावशेषितम् । तेन क्वाथेन तच्चूर्णं भावयेदेकविंशतिम्³ ॥ १४३ ॥ रत्नानि तेन लिप्तानि तत्क्वाथस्थं धमेत्⁴ पुनः । अहोरात्रेण तान्याशु द्रवन्ति सलिलं यथा ॥ १४४ ॥ ॥ इति रत्नद्रावविधिः ॥⁵ अभ्रकादीनि लोहानि द्रवन्ति ह्यविचारतः । निर्मलानि च⁶ जायन्ते हरवीजोपमानि च⁷ ॥ १४५ ॥ मिलन्ति च रसेनाशु वह्निस्थान्यन्ययाणि च⁸ । तैर्दुतः स्पर्शमात्रेण⁹ क्षणाद्बध्येत सूतकः¹⁰ ॥ १४६ ॥ लोहानां मारणं¹¹ वक्ष्ये समाहितमनाः¹² शृणु । *(1) B reads दशफलं, which is incorrect. (2) B has तिमिरस्य च. K has तिमरस्य च. M has काष्ठेन तिमिशस्य च. We have adopted the above reading after collating all the texts. (3) B and M read एकविंशति. K reads एकविंशतिः. All the readings are inc. (4) तत क्वाथे तड़मत्, a reading in M, which has no sense. (5) This portion is not found in B and M. (6) B and M read निर्लेपानि च. (7) K has हरवोजोपयोनि च, which has no clear sense. (8) K reads वह्निस्थान्यन्चिणानि च, which seems to be inc. (9) तैर्दतै सर्षप- मात्रेण, an incorrect variant in K. (10) B reads चणाद्बुध्येत. K reads चणादवेध्येत. M reads चणादबध्येव सूतकम्. (11) B has मारणै, which is gram. inc. (12) K has समाहितमना (without विसर्ग), which is gram. inc.