रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 153, कुल 558 में से
संदर्भ में पढ़ें१३० रसार्णवे रसगर्भे द्रवेत् कृष्णं¹ पत्त्रं कनकतारयोः ॥ २२ ॥ सङ्कराख्यन्तु² दुर्मेल्यं प्रिये मृदुखराह्वयम्³ । ततः संमृदितं⁴ देवि द्वन्द्वमेलापनं द्रुतम्⁵ । भवेत् समरसं गर्भे⁶ रसराजस्य च द्रवेत्⁷ ॥ २३ ॥ अतः परं⁸ प्रवक्ष्यामि द्वन्द्वमेलापनं शृणु ॥ २४ ॥ वर्षाभूकदलीकन्द-काकमाचीपुनर्नवाः । खर्णं नरकपालं च⁹ गुञ्जाटङ्कणसंयुतम्¹⁰ । चोरतैलेन सुध्मातं हेमाभ्रं मिलति प्रिये ॥ २५ ॥¹¹ अनेनैव विधानेन ताराभ्रमपि मेलयेत्¹² ॥ २६ ॥ वङ्गभावर्त्त्य¹³ देवेशि पुनः सूतकयोजितम्¹⁴ । कदलीकन्दतोयेन मर्दयेट्टङ्गणान्वितम् । अन्धमूषागतं¹⁵ ध्मातं वङ्गाभ्रं¹⁶ मिलति क्षणात् ॥ २७ ॥ चूर्णं नरकपालस्य स्त्रीस्तन्यं वनशिग्रुकम् । (1) K reads कृष्णात्. M reads भवेत् कृष्ण. (2) K reads संगराख्यं तु. (3) K has an incomplete charana--दुखराह्वयोः. M reads खरा- ह्वयात्. (4) K reads सम्मिश्रितं. (5) K reads ततः. (6) सवेत् सरससंसर्गो, a variant in K, which is partially incorrect. M reads वरेत्, which is senseless. (7) K reads चन्द्रवत्. (8) K reads अतएव. (9) M reads तु. (10) M has संस्थितम्. (11) This hemistich is not found in K. (12) तालकाभ्र विमेलयेत्, a variant in M. (13) K reads भंग, which is incorrect. M reads erroneously वङ्गमावत्य. (14) K has योजितः. (15) K reads अधमूखागत. M reads अन्धमूषा- गत Both are inc. (16) M reads वङ्गाभ.