भारतकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 152, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 152

अष्टमः पटलः । १२८ पीतारुणै¹र्हेमबीजं² तारबीजं सितैर्भवेत् । कल्पितं रञ्जितं पक्कमिति भूयस्त्रिधा भवेत् ॥ १७ ॥ कल्पितं द्विविधं तच्च³ शुद्धमिश्रविभेदतः ॥ १८ ॥ रसोपरसलोहानां⁴ बीजानां कल्पनं पृथक्⁵ । शुद्धं मिश्रं तु⁶ संयोगात्⁷ यथालाभं⁸ सुरेश्वरि ॥ १८ ॥ सत्त्वमावर्त्तितं व्योम्नि शोषितं काचटङ्गणैः । चिञ्चाफलाम्लनिर्गुण्डी⁹-पत्रकल्काभिषेचनैः¹⁰ । पक्वं निविड़ितं देवि¹¹ रसपिष्टिसमं भवेत् ॥ २० ॥ स्नेहक्षाराम्लवर्गैश्च¹² शिलायाश्च पुटत्रयात्¹³ । मृताहे धूपनायन्त्रे¹⁴ धूपगन्धानुलेपनात् । वङ्गस्यापि¹⁵ विधानेन तालकस्य हतस्य¹⁶ वा ॥ २१ ॥ ताप्यहिङ्गुलयोर्वापि हतं च¹⁷ रसकस्य वा ।

(1) M has पीतारुणौ. (2) K has हेमबीजै, which is gram. inc. (3) K reads तच्च. (4) रसोपरससत्त्वानि, a variant in K. (5) बीजा- नाञ्च पृथकस्थिते, a variant in M. (6) M has शुद्धमिश्रश्च. [रञ्जितं is described in the 41st śloka; and पक्वं in the 50th.] (7) K reads योगाय. (8) पाल्लभं is the absurd reading in K. (9) K reads फलाम्लसेहुण्ड. (10) K reads निक्षेचनैः. M reads पतिकल्क. Both are inc. (11) K has पकनिविडं सदेवि. (12) M has स्नेह- क्षाराम्ललवणैः. (13) M reads शिलया च पुटत्रयात्. K reads पुटत्रय. (14) धूपनायन्त्रे is wanting in K. (15) K reads वङ्गस्याभि, which seems to be inc. (16) K has हृतेन M has तालकं न. (17) M reads वास्तिनो, which is unintelligible. 17