रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 166, कुल 558 में से
संदर्भ में पढ़ेंनवमः पटलः । १४३ सर्व्वाङ्गं खण्डगस्विन्नं¹ नातिशुष्कं² शिलातले³ । दग्धकाण्डेस्तिलानां तु पञ्चाङ्गं मूलकस्य च ॥ ११ ॥ प्लावयेन्मूत्रवर्गेण जलं तस्मात् परिस्रुतम्⁴ । लोहपात्रे पचेद्यन्त्रे हंसपाकेऽग्निमानवित्⁵ ॥ १२ ॥ वाप्याणां⁶ बुद्बुदानाञ्च बहुनामुद्गमो यदा । तदा काशीससोराष्ट्रा-क्षारत्रयकटुत्रयम् ॥ १३ ॥ गन्धकञ्च⁷ सितं हिङ्गु लवणानि च षट् तथा । एषां चूर्णं क्षिपेदेष⁸ लोहसम्पुटमध्यगः⁹ । सप्ताहं भूगतः पश्चाद्धान्यस्थः प्रवरो विड़ः ॥ १४ ॥ जम्बीराम्लेन पचनं¹⁰ शिग्रुमूलद्रवेण च । चूलिकागन्धकासिक्तो¹¹ हो विड़ो शतशः क्रमात् ॥ १५ ॥ कोषातकी¹²दलरसैः क्षारैर्वा निचुलोग्निदैः¹³ । (1) खण्डर्गन्स्विन्नं is the incorrect variant in M. (2) M has नातिशुष्कां, which seems to be inc. (3) K reads शिलातल, which is gram. inc. (4) K reads परिस्रुत, which destroys the metre. M has जानिलस्नात् परिस्रुतम्, which has neither grammar nor sense. (5) हंस- पाकाग्निमानवित्, a variant in K. (6) K reads बाष्पाणां, which is incorrect. (7) K and M read गन्धकस्य, which is inc. (8) M reads क्षिपिदेतत्, which is not gram. correct. (9) M reads मध्यगम्, which is not gram. correct. (10) M reads च वन, which is inc. (11) K reads सिक्तो. M reads सिक्ता. Both the readings are not correct. (12) M reads कोषातकी (13) K has क्षारो वा M has क्षारा वा निचुलद्रवै