रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 186, कुल 558 में से
संदर्भ में पढ़ेंएकादशः पटलः । १६३ चित्रकार्द्रकमूलाना¹मेकैकेन तु सप्तधा । प्लावितव्यं² प्रयत्नेन गन्धकाभ्रकचूर्णकम् ॥ ४३ ॥ मागमुण्डीरसस्तन्य³रजो⁴लुङ्गाम्लभावितम् । षोडशांशेन तद्दत्तं दोलायां⁵ तु चरेद्रसः ॥ ४४ ॥ चतुःषष्टि⁶गुणं देवि द्वात्रिंशद्गुणमेव वा⁷ । अथवा षोडशगुणं तथाष्टगुणमेव वा⁸ । चतुर्गुणं वा⁹ द्विगुणं समं वा चारयेत्¹⁰ प्रिये ॥ ४५ ॥ परमभ्रकसत्त्वस्य¹¹ जारणं शृणु पार्वति ॥ ४६ ॥ व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम्¹² । स खल्वेवं¹³ चरेद्देवि गर्भद्रावो¹⁴ भवेद्रसः ॥ ४७ ॥ नागाभ्रं देवि वङ्गाभ्रं¹⁵ तीक्ष्णाभ्रं¹⁶ करकाभ्रकम्¹⁷ । ताराभ्रं देवि¹⁸ हेमाभ्रं¹⁹ रसगर्भेण²⁰ जारयेत् ॥ ४८ ॥
(1) K reads मूलानि. (2) All the texts have this reading, which is gram. erroneous, the correct form being प्लावयितव्यं. (3) K reads नागं मुण्डीरसस्तन्य. (4) K reads रसं लुङ्गाम्लभावितम्. (5) M reads डोलायां. (6) K reads चतुषष्टि, which is inc. (7) K reads च. (8) K and M read च, which is not accurate. (9) M reads च. (10) K has सम मारयते. (11) K reads पत्रस्य. (12) K reads erroneously पुंसक्तं. (13) K has संकल्वेन. (14) K reads गर्भद्रावि. M reads गर्भद्रावं. Both the readings are gram. incorrect. (15) M reads वङ्गाभं. (16) K reads तिक्ताभ्रं. (17) K reads भास्कराभ्रकम्. (18) K reads तु, which mars the metre. (19) M reads शुल्बाभ्रं. (20) K reads रसगर्भे, thus wanting one letter.