रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 201, कुल 558 में से
संदर्भ में पढ़ें१७८ रसार्णवे वङ्गरत्नेषु¹ जीर्णेषु भृङ्गरागेषु² सुव्रते । रसेन्द्रो दृश्यते देवि नीलपोतारुणच्छविः ॥ १३७ ॥ शुद्धानि हेमपत्राणि शतांशेन तु लेपयेत्³ । पुटेन मारयेदेतदिन्द्रगोपनिभं⁴ भवेत् ॥ १३८ ॥ संसर्गाद्वेधयेत्सर्ब्वमिदं हेम मृतं⁵ प्रिये । त्रिभागं सूतकेन्द्रस्य तेनैव सह सारयेत् ॥ १३९ ॥ मूषामध्येस्थिते⁶ तस्मिन् पुनस्तेनैव जारयेत् । धूमवेधो भवेद्देवि पुनः सारितजारितः⁷ ॥ १४० ॥ अनेन क्रमयोगेन यदि जीर्णा त्रिशृङ्खला⁸ । वेधयेन्नात्र⁹ सन्देहो गिरिपाताल¹⁰भूतलम् ॥ १४१ ॥ पार्श्वज्योतिः¹¹ प्रदृश्येत चोर्द्धं¹² नैव तु दृश्यते । भूचरं तं विजानीयात् रसेन्द्रं¹³ नात्र संशयः ॥ १४२ ॥ तेनाक्रान्तगतिर्देवि¹⁴ योजनानां शतं व्रजेत् । दिव्यतेजा¹⁵ महाकायो दिव्यदृष्टि¹⁶र्महाबलः ॥ १४३ ॥ (1) K reads बजरत्नेषु. (2) K reads भङ्गराजेषु. (3) शलां- शेनानुलेपयेत्, an incorrect variant in K. (4) K reads नीभं, which is unusual. (5) मदं हेमत is an incomplete reading in K. (6) K has मूखामध्ये स्थिते. (7) पुनः सारितसारितः, a variant in M. (8) K reads विसंकला. (9) वैधयन्नात्र is an incorrect reading in K. (10) K reads पाषाण. M reads भूतलं., which is gram. inc. (11) K has an incomplete reading पा......ज्योति. (12) K reads ऊर्ध्व. (13) M reads रसेन्द्रा, which is inc. (14) K reads गति देवि. M reads तेनाभायगतिर्देवि. (15) K has दिव्यतेजो. (16) K reads दिव्या दृष्टि.