रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 202, कुल 558 में से
संदर्भ में पढ़ेंएकादशः पटलः। १७९ सर्व्वरोगविनिर्मुक्तो जीवेदाचन्द्रतारकम्¹ । तस्य मूत्रपुरीषं तु सर्व्वलोहानि विध्यति ॥ १४४ ॥ समजीर्णेन वज्रेण हेम्ना च सहितेन च । अग्निस्थो जारयेल्लोहान्² बन्धमायाति सूतकः ॥ १४५ ॥ सारयेत्तेन बीजेन सहस्रमपि³ वेधयेत् । सारितं जारयेत्⁴ पश्चात् लेप्यं चेप्यं सहस्रशः⁵ ॥ १४६ ॥ सारयेत्⁶ तेन बीजेन लक्षवेधमवाप्नुयात् । अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ॥ १४७ ॥ केवलं तु यदा वज्रं समजीर्णं तु जारयेत् । बद्धः⁷ सूतस्तदा ज्ञेयो निष्कम्प्यो निरुपद्रवः ॥ १४८ ॥⁸ अग्निस्थो जायते सूतः शलाकां⁹ ग्रसते क्षणात् । दृढाग्निना धाम्यमानो¹⁰ ग्रसते सर्व्वमादरात्¹¹ ॥ १४९ ॥ चरते जरते सूत¹² श्चायुर्द्रव्य¹³प्रदायकः । (1) जीवेच्चंद्रार्कतारकं, a variant in K. (2) K. reads जारयँल्लोहं. M reads जायते लोहात्. (3) समक्षमपि is the reading in K. (4) K reads जारितं. (5) लोप्ये चेप्य सहस्रशः, a variant in K. क्षेप्यं- क्षेपसहस्रशः, a variant in M [For the explanation of लेप्य and चेप्य vide रस. स. Chap. VIII. v. 80.] (6) K reads सासयेत्, which seems to be incorrect. M reads धारयेत्. (7) B reads बद्ध (without विसर्ग). (8) This śloka is not found in M. (9) M reads शलाका. (10) B and M have धाम्यमाने. K has दृढाधिसाम्यमानेन. None appears to be gram. correct. (11) M has सर्व्वपारदान्. (12) जरते जरते सूतं, a variant in B. रसते जारते सूते, a variant in K. (13). B. reads चायुर्द्रेव्यः, which is incorrect