रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 203, कुल 558 में से
संदर्भ में पढ़ें१८० रसार्णवे मूषास्थं धमयेत्¹ सूतं दृढाग्नौ नैव कम्पते² ॥ १५० ॥ जारयेत् सर्वरत्नानि बद्धः³ खेचरतां⁴ नयेत् । इति⁵ लोहेऽष्टगुणिते⁶ जीर्णे स्याद्रसबन्धनम् ॥ १५१ ॥ लोहानि सत्त्वं त्रिगुणं द्विगुणं⁷ कनकं तथा । धूमावलोकवेधी⁸ स्यात् भवेन्निर्वाणदो रसः⁹ ॥ १५२ ॥ आदावष्टगुणं जार्यं व्योमसत्त्वं महारसम्¹⁰ । समं हेमदशांशेन वज्ररत्नानि जारयेत् ॥ १५३ ॥ सर्व्वे¹¹ च जारयेदृक्षं तदासौ¹² खेचरो रसः । भ्रमेत् प्रदक्षिणावर्त्तः कोटिवेधी च जायते ॥ १५४ ॥ समे तु पन्नगे जीर्णे दशवेधी भवेद्रसः । द्विगुणे शतवेधी स्यात् त्रिगुणे तु सहस्रकम्¹³ ॥ १५५ ॥ चतुर्गुणेऽयुतं¹⁴ देवि क्रमेणानिन्¹⁵ वर्धयेत् ।
(1) K reads धमते. M reads धामयेत्. (2) B has नैव कल्पते. M has नावकम्पते. (3) M reads बद्धं. (4) K reads खचरतां. (5) The portion commencing from इति and ending in जारयेत् (153) is not found in K, only the following portion is found after भवेद्रसः (155),—गुणौता जीर्णे स्याद्रसबन्धन लोहसत्त्व त्रिगुण त्रिगुणकनकं तथा ४६ धमलोहकवेधौ स्यान्निर्वाणददो रसः । M reads दृष्ट in lieu of इति. (6) B reads गुणीता, which is inc. (7) M reads त्रिगुणं. (8) धूमलोहकवेधौ is the reading in B. (9) B reads वरः. (10) Two slokas are wanting in B, beginning from this word. (11) K reads सम. (12) M reads तथासौ. (13) सहस्र च त्रिसंगुणे, a variant in B. सहस्र तु चतुर्गुणे, a variant in K. (14) K reads पञ्चगुणेऽयुतं. (15) K reads incompletely क्रमेणानि वर्धयेत्.