रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 220, कुल 558 में से
संदर्भ में पढ़ेंद्वादशः पटलः । १८७ तं तारं जारयेत्¹ सूतं तत्सूतं बन्धनं व्रजेत्² । लेपमात्रेण तेनैव चतुःषष्टितमो भवेत् ॥ १४ ॥³ चतुःषष्टितमे⁴ भागे शुल्कवेधं⁵ तु दापयेत् । शुल्वं तु दापयेत्तारि तत्तारं काञ्चनं भवेत् ।⁶ तत्तारं जायते श्रेष्ठं⁷ धर्मकामार्थमोक्षदम् ॥ १५ ॥ निशाचरस्य पुष्पाणि⁸ सूक्ष्मचूर्णानि कारयेत्⁹ । पलानि¹⁰ दश चूर्णस्य रसैर्धात्र्यास्तु भावयेत्¹¹ ॥ १६ ॥ घृतेन मधुनालोड्य¹² नवभाण्डे¹³ विनिक्षिपेत् । धान्यराशौ निधातव्यं त्रिसप्ताहं सुरेश्वरि ॥ १७ ॥ तेन भक्षितमात्रेण बलोपलितवर्जितः¹⁴ ॥ १८ ॥ (1) D and K read भावयेत्. (2) D and K read बधनं भवेत्. M reads बन्धतां व्रजेत्. (3) This hemistich is wanting in B and M. (4) This hemistich is wanting in D. K reads चतुषष्टितमं, which is incorrect. (5) K reads शुल्ब वेधं. (6) This hemistich is wanting in B and M. (7) M reads भार्यक्रीड, which seems to be inc. (8) All other texts read पत्राणि , but M only reads पुष्पाणि. We suppose the latter to be correct , since पत्राणि is already mentioned in verse 4. (9) चूर्णितानि तु कारयेत्, a variant in D. चूर्णानि कारये- द्यतः, a variant in K. (10) M reads फलानि, which is incorrect. (11) त्रिरात्र्या यस्तु भावयेत्, a variant in D. षडैरात्र्यास्तु भावयेत्, a variant in K. द्वे धात्र्या विभावयेत्, a variant in M. (12) B reads मधुनालोढा. K reads मधुनालोढ. Both are inc. (13) B reads नवभाष्य. D reads न च भाण्डे (14) K reads निर्जेव, which is not correct.