रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 230, कुल 558 में से
संदर्भ में पढ़ेंद्वादशः पटलः । २०७ बद्धा¹ पोटलिकां² तेन गगनं तेन जारयेत्³ । समे⁴ तु गगने जीर्णे बद्धस्तिष्ठति सूतकः ॥ ६२ ॥ भस्त्रा⁵फूत्कारयुक्तेन⁶ ध्मायमानेन नश्यति⁷ । काकविष्ठासमं रूपं समजीर्णस्य जायते⁸ ॥ ६३ ॥ द्विगुणे गगने जीर्णे षष्ठीं लोहानि संहरेत् ॥ ६४ ॥ पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ ६५ ॥⁹ शिवदेहात् समुत्पन्ना ओषधी तुरसिंहनी¹⁰ । जारयेद्गन्धकं सा तु¹¹ जारयेत् सापि तालकम्¹² ॥ ६६ ॥ काञ्चनं जारयेत् सापि¹³ रसेन्द्रं सा च बद्धयेत्¹⁴ । प्रवालं जारयेत् सा तु¹⁵ गगनं द्रावयेत् तथा¹⁶ । (1) This is wanting in D. (2) M reads पदलिकां. (3) भागं तं तेन जारयेत्, a variant in D. M reads चारयन् (4) D reads सम. (5) D has भख, which is not accurate. (6) M has भात्कारणात् यन्त्रेण, which is absurd. (7) D reads मध्यति. K reads साध्यति. (8) D reads जार्यन्. M reads सम जीर्णस्य. (9) This hemistich and the next are not found in D. (10) K reads चौषधी. M reads तङ्गरौडो. (11) We do not find गन्धकं सा तु in K. (12) M has मालयेत् सा पटालकम् The portion be- ginning from this charana and ending in वज्रञ्च घातयेत् सा तु is not found in K. (13) D has जार्य्यस्यामि, which is an error of the scribe. (14) रसेन्द्रञ्चापि बन्धनात्, a variant in D. (15) D reads भावयेत्त्यासु, which seems to be भावयन्त्याशु. (16) M reads तत