रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 254, कुल 558 में से
संदर्भ में पढ़ेंद्वादशः पटलः । २२१ अनेन मनुना प्रोक्ता सिद्धिर्भवति नान्यथा । षण्मासेन तथा वह्नौ मन्त्रपूतेन रक्षयेत् ॥ १८६ ॥¹ शुद्धगुल्बं² तु संगृह्य मूषामध्ये तु संस्थितम्³ । त्रिपञ्चपलसंख्यं तु⁴ कर्षार्द्धसितगुञ्जया⁵ ॥ १८७ ॥ सङ्केकत भवेत्सारं⁶ तस्य गन्धविवर्जितम् । शङ्कारोति⁷समायुक्तं गुञ्जाचूर्णं सङ्केकतः । देवानां भूषणं देवि जायते हेम शोभनम्⁸ ॥ १८८ ॥ ॥ इत्यौषधिक्रिया ॥⁹ चन्द्रोदकेन¹⁰ देवेशि वक्ष्यामि¹¹ रसबन्धनम् ॥ १८९ ॥ शुक्लपक्षे पूर्णमास्यां दृष्ट्वा¹² पूर्णेन्दुमण्डलम् ।
(1) This śloka is not found in D and M. (2) K reads शुद्धं गुल्वं M reads शुद्धगुल्कं, which is incorrect. (3) K reads मूखामध्ये, [which = मूषामध्ये.] D reads संस्थिताम्, which is gram inc. (4) विपञ्च- पलसंख्याता, a variant in D. द्विपंचपलसंख्यं तु, a variant in K. द्विपञ्च- फलसंख्यन्, a variant in M. We have adopted the above reading after collating all the texts. (5) D has. कर्षाङ्घ्रि सितगुञ्जया. K has कर्षाङ्के सितगुञ्जया. M has कर्षांङ्ग्रे' सिगुञ्जय, which is incomplete. (6) M reads भवेत्समं. (7) D reads शङ्करारति, which is evidently an error of the scribe. K reads शङ्करोती. (8) M reads भुवनं, which creates a tautology. (9) This is not found in D and M. (10) After गुञ्जाविधि we find in M कर्पूरोरसबन्धन, but in D and K चन्द्रोदकविधि. Hence we place the latter first. (11) D reads जायते. (12) D reads दृष्टा. K reads दृष्टा. Both are incorrect.