रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 27, कुल 558 में से
संदर्भ में पढ़ेंप्रथमः पटलः । ३ शून्यपापो मन्त्रयाजी^१ न पिण्डं धारयेत् क्वचित् । देवानामपि देवेशि दुर्लभं पिण्डधारणम् ॥ १४ ॥ किं पुनर्म्मानुषाणान्तु धरणीतलवासिनाम् । धर्म्मे नष्टे कुतो धर्म्मी धर्म्मि नष्टे कुतः क्रिया ॥ १५ ॥ क्रियानष्टे^२ कुतो योगः योगे नष्ट कुतो गतिः । गतिनष्टे^२ कुतो मोक्षो मोक्षे नष्टे न किञ्चन ॥ १६ ॥ (तेन पिण्डो महाभाग रक्षणीयः प्रयत्नतः ।)^३ श्रीदेव्युवाच । जीवन्मुक्तिस्वरूपं तु देवदेव श्रुतं मया । तत्प्रत्युपायं मे ब्रूहि यद्यस्ति करुणा मयि ॥ १७ ॥ श्रीभैरव उवाच । कर्म्मयोगेन देवेशि प्राप्यते पिण्डधारणम् । रसश्च पवनश्चेति कर्म्मयोगो द्विधा स्मृतः^४ ॥ १८ ॥ मूर्च्छितो हरते व्याधिं^५ मृतो जीवयति स्वयम् । बद्धः खेचरतां कुर्य्यात् रसो वायुश्च भैरवि ॥ १६ ॥^६ ज्ञानान्मुक्तः सुरेशाने ज्ञानं पवनधारणात् । (1) K reads शून्यपायामन्त्रजायी, which seems to be grammatically incorrect. (2) क्रियानष्टे - क्रियानाशे , गतिनष्टे - गतिप्रवृत्तौ [तु किञ्चन] K reads गती नष्टे, which is inc. (3) K adds the line within brackets without affixing a serial number to it. (4) स. द. सं. and रसकण्ठ- भरण read मृत. (5) स. द. सं. reads हरति व्यथान्. (6) The 18th and the 19th ślokas are quoted in स. द. सं.