रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 283, कुल 558 में से
संदर्भ में पढ़ें२६० रसार्णवे ज्ञात्वा कालप्रमाणेन बन्धयेत्¹ पारदं ततः ॥ ३२३ ॥ रक्तक्षारयुतं खातं सुवर्णं समसारितम्² । शतांशेन तु लोहानां सर्वेषां हेमकारकम्³ ॥ ३२४ ॥ द्वितीयसारणां⁴ प्राप्य भक्षयेन्मधुसर्पिषा⁵ । तत्कालं चित्तजातानां⁶मूर्द्धं भवति चानिलः⁷ ॥ ३२५ ॥ कालज्ञानं भवेत्तस्य जीवेद्युतपञ्चकम् ॥ ३२६ ॥ द्वितीयसारणां प्राप्य सहस्रांशेन विध्यति⁸ । तं खोटं⁹ धारयेद्वक्त्रे दिव्यत्वं लभते ध्रुवम्¹⁰ ॥ ३२७ ॥ निचुले¹¹ ककुभे चैव किंशुके मधुकेऽपि वा¹² । इङ्गुदो¹³फलमध्ये वा रजनीद्वयमध्यतः¹⁴ ॥ ३२८ ॥ (1) M reads बद्धयेत्. (2) K reads ममारितं M reads समवारि- तम्. (3) B has an incomplete charaṇa सर्वेषां वेधकं. M reads मारकम् (4) B and K read सारणं. (5) This charaṇa and the next four ones are not found in M. (6) तत्कालचित्तज्ञानां, an incomplete variant in K. (7) K reads चानिले. (8) M reads बिन्दति (9) B reads ततखोटं. M reads त श्लैन्. (10) M has an incorrec- variant—लव्यत्वं लभते ध्रुवम्. (11) K reads निवजे. M reads निचुर्वे Both appear to be incorrect. (12) K reads च. M reads erro- neously किशुके मधुके पि वा (13) This hemistich and the next on- are not found in K. M reads हिङ्गुदी, which is incorrect (14) रजनी चैव टकने, a variant in B. M reads मध्यगे, which is not correc- After this charaṇa we have a śloka in this text only which runs thu- —अमृते कन्दे वाथ उक्तकन्दौषधौ न च । विधाय वाटकतत्र क्षिप्त्वा तेनैव साधयेत् । which we have not adopted for its incorrectness.