रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 29, कुल 558 में से
संदर्भ में पढ़ेंप्रथमः पटलः । ५ यावन्न हरबीजन्तु भक्षयेत् पारदं रसम् । तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥ २८ ॥¹ मद्यमांसरताप्रज्ञा² मोहिताः³ शिवमायया । जल्पन्ति च वयं मुक्ता यास्यामः शिवमन्दिरम् ॥ २९ ॥ पिण्डधारणयोगे च निस्पृहा मन्दबुद्धयः । खण्डज्ञानेन देवेशि रञ्जितं सचराचरम् ॥ ३० ॥ स्वदेहे खेचरत्वं च शिवत्वं येन लभ्यते । तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥ ३१ ॥ श्रीदेव्युवाच । अवतारं रसेन्द्रस्य माहात्म्यं तु सुरेश्वर । श्रोतुमिच्छामि देवेश वक्तुमर्हसि तत्त्वतः ॥ ३२ ॥ श्रीभैरव उवाच । साधु पृष्टं महाभागे गुह्याद्गुह्यतरं त्वया । अनुग्रहकरं ध्यानं लोकानामुपकारकम् ॥ ३३ ॥ त्वं माता सर्व्वभूतानां पिता चाहं सनातनः⁴ । द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥ ३४ ॥ स्वैरतः सम्भवाद्देवि⁵ पारदः कीर्त्तितो महः⁶ । (1) र. चि. exactly quotes this śloka. (2) K reads मद्यमांसरता प्रज्ञा, which is inc. (3) K reads मोहिता, which seems to be an error of the scribe. (4) K reads सनातनम्, which is inc. This śloka (34th) is also found in र. चि. (5) K reads स्वरत्सम्भवोद्देवि, which is absurd, being gram. untenable. (6) K reads महा, which is inc.