रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 318, कुल 558 में से
संदर्भ में पढ़ेंचतुर्दशः पटलः । २९५ तस्य खोटस्य भागैकं¹ भागैकं गन्धकस्य च² । अन्धमूषागतं ध्मातं यावद्धङ्गावशेषितम्³ ॥ ७२ ॥ अनेन क्रमयोगेन वङ्गं निर्वाप्य षड्गुणम्⁴ । अनेन क्रमयोगेन वह्निनागञ्च षड्गुणम्⁵ ॥ ७३ ॥ तद्रसं रञ्जयेत् पश्चात् तीक्ष्णशुल्यकपालिना⁶ । रञ्जयेत् तत् प्रयत्नेन यावत् कुङ्कुमसंनिभम्⁷ ॥ ७४ ॥ हेम्ना सह समावर्त्य⁸ सारणात्रयसारितम्⁹ । शतांशे¹⁰ वेधयेत् शुद्धं, दिव्यं हेम प्रजायते ॥ ७५ ॥ पुनरन्यं प्रवक्ष्यामि द्रवसंस्कारमुत्तमम्¹¹ ॥ ७६ ॥ रञ्जयेत्¹² शुद्धकनकं तीक्ष्णशुल्य¹³कपालिना ।
(1) तल्खोटभागमेकैकं, a variant in B. तत्षोडशागमेकन्त, a variant in M. (2) K reads erroneously गकगतस्य च. (3) यावत् सूतो- वशेषितं, an incorrect variant in M. (4) B reads षड्गुणं. D reads निर्वाप्यं. K reads षट्गुणं. M reads निर्वाह्य. (5) B reads षड्गुणं. D has वह्निना षड्गुणं वङ्गं, which is senseless and void of metre. K has षट्गुणं. This hemistich is not found in M. (6) D has तीक्ष्णशुल्य- कपालिकां, which seems to be incorrect. (7) K wants this hemistich. M reads सन्निभः, which is incorrect. (8) हेम्ना सहस- मावर्त्यं, a variant in B. हेम्ना सहसमावर्त्त, a variant in D. This charaṇa and the next are not found in K. (9) सारण यन्त्रसारित, a variant in D. (10) K reads शतांश. (11) रसबन्धनमुत्तमम्, a variant in D. दिव्यसंस्कारमुत्तमम्, a variant in M. (12) This hemistich is not found in D. M reads वारयेत्. (13) K reads तीक्ष्णं शूल्य. M reads erroneously तीक्ष्णगुल्य