रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 320, कुल 558 में से
संदर्भ में पढ़ेंचतुर्थः पटलः । २६७ मृतवज्रस्य भागैकं भागाः षोडश सूतकम्¹ ॥ ८१ ॥ देवदाली-शंखपुष्पी-रसेन मर्दितं² क्रमात् । मारयेद्³भूधरे यन्त्रे भस्मीभवति तत्क्षणात्⁴ ॥ ८२ ॥ फूत्काराणां सहस्रेण⁵ धाम्यमानो न⁶ गच्छति । ईदृशं भस्मसूतं च देहे लोहे च योजयेत्⁷ ॥ ८३ ॥ तद्भस्मपलमेकं तु⁸ पलमेकं तु गन्धकम्⁹ । अन्धमूषागतं¹⁰ ध्मातं खोटो¹¹ भवति तत्क्षणात् ॥ ८४ ॥ तं खोटं¹² रञ्जयेत् पश्चात् कापालि¹³क्रमयोगतः । सारस्वातप्रयोगेण¹⁴ शुल्बवेधं¹⁵ प्रदापयेत् ॥ ८५ ॥ भस्मसूतपलैकं च¹⁶ पलैकं पन्नगस्य च¹⁷ । (1) D reads मृतकम, which is an error of the scribe. (2) B and M read मर्दित. (3) D and M read मर्दयेद्. (4) M reads erroneously तक्षणात्. (5) K reads फूत्कारणां. M reads पुत्काराणां सहस्राणि. Both are incorrect. (6) D has धान्यमानेन. K has धाम्यमानेन. M has धाम्यमानानि. (7) देहे च योजये, an incomplete variant in K. देहलोडे च वेधयेत्, a variant in M. (8) M has तत्- भक्तपलमेकञ्च, which is partly incorrect. (9) K reads पलैकं गन्धकस्य च. (10) D reads चन्धं मूषागत, which is incorrect. K reads चंध- मूखागतं, which is also incorrect. (11) D has खेटो. M has वोहो. (12) M reads तत् वोह . (13) K reads कपाली. M reads कावाली. (14) सारस्वाक्रमयोगेन, a variant in M. (15) D has शुल्क वेध. K has पुल्वे वेधं. (16) B reads तु. (17) B reads कनकस्य च. D reads गन्धकस्य च. K reads पलमेक च संघकं. We have adopted the reading in M, since we see afterwards the term नागेन in all the texts. 38