भारतकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 343, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 343

३२० रसार्णवे समं तं जारयेत् सूतं$^१$ सारयित्वा समेन तु । सहस्रांशेन लोहानि वेधयेन्नात्र संशयः ॥ २१ ॥ कृष्णवैक्रान्तभागैकं शुद्धसूतपलांशकम्$^२$ । एकत्र मर्दयेत् खल्ले चूर्णं च भवति द्वयम्$^३$ ॥ २२ ॥ अस्य चूर्णस्य भागैकं$^४$ हेमभागसहस्रकम् । एकत्र मर्दयेत् तावत् यावच्छ्लक्ष्णं तु जायते$^५$ ॥ २३ ॥ धमेत्तच्चान्धमूषायां$^६$ यावत् खोटो$^७$ भविष्यति ॥ २४ ॥ समांशमभ्रचूर्णं$^८$ तस्य शुद्धसूतं तु कारयेत्$^९$ । वेधयेत् सर्व्वलोहानि स्पर्शमात्रेण पार्व्वति$^{१०}$ ॥ २५ ॥ तच्चूर्णमभ्रकं$^{११}$ चैव रसेन सह मर्दयेत् । एकत्र मर्दयेत्तावद्यावच्छ्लक्ष्णं प्रजायते$^{१२}$ ॥ २६ ॥


(१) B has जायते सूते. D has जारयेत् सूतः. K has जायते सूतं. M has तद्गुणं जारयेत् सूते. (२) D has तं च सूतं पलांशकं. K has हेमभाग- सहस्रकं. M has शुद्धसूतशतांशकं. (३) K wants this charana and the next four. My reads ध्रुवम्. (४) M reads मानेकं, which is incorrect. (५) This hemistich and the next one are not found in D. (६) भवेत्त चांधमूषायां, a variant in B. तदभ्रव्वैदग्ध्यमूषायां, a variant in M. (७) B reads घोटो. M reads वोहो. (८) B has समास भक्षकं. M has समांशमभ्रकं. (९) M has पोटिकां कारयेत् बुधः. (१०) B reads वैशता. K reads पार्वती, which is grammatically incorrect. M and My read हैमता. (११) D reads तन्मूर्वं गन्धकं. (१२) B reads यावदभ्रक्षं तु जायते, which is partly incorrect.. This hemistich and the next four are not found in D, M and My.