रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 344, कुल 558 में से
संदर्भ में पढ़ेंपञ्चदशः पटलः । ३२१ धमेत्तदन्धमूषायां¹ यावत् खोटो भविष्यति । समांशं भक्षपं² तस्य पिष्टिकां³ कारयेद्बुधः ॥ २७ ॥ वेधयेत् सर्व्वलोहानि स्पर्शमात्रेण हेमता⁴ । तच्चूर्णमभ्रकं चैव रसेन सह मर्द्दयेत् ॥ २८ ॥ स्वेदयेज्जारयेच्चैव⁵ ततो वह्निसहो भवेत् । स रसः⁶ सारितश्चैव सर्व्वलोहानि विध्यति ॥ २६ ॥ पीतवर्णोऽपि⁷ वैक्रान्ते रक्तकृष्णविधिर्मतः⁸ ॥ ३० ॥ पीत⁹वैक्रान्तचूर्णं तु हेमचूर्णसमन्वितम्¹⁰ । पीताभ्रकस्य चूर्णेन¹¹ मेलयित्वा महारसः । स्वेदितो मर्दितश्चैव मासादग्निसहो रसः ॥ ३१ ॥ श्वेतं पीतं तथा कृष्णं रक्तवर्णं तथैव च¹² । एवं चतुर्विधा वर्णा¹³ वैक्रान्ते वरवर्णिनि ॥ ३२ ॥ वज्रस्थाने तु वैक्रान्तो¹⁴ मेलनं परमं मतम् । (1) B reads भवेत्तदन्धमूषायां. (2) K reads भावयेत्. (3) B reads पौठिकां. (4) B and K read हेमतां, which seems to be incorrect. (5) M reads स्वेदयेद्वारयेच्चेव. (6) D reads सारसा. M reads सरितः. Both the readings seem to be incorrect. (7) D reads सितवर्णोऽपि, which is incorrect, सितवर्णं being already mentioned in the 12th śloka. (8) B reads रसक्लष्टविधिर्मतः, which appears to be incorrect. K reads रक्ताङ्कचादिकर्मतः. (9) D reads पीतं. (10) हेमचूर्णं- समसमं, a variant in B. हेमचूर्णे समन्वितं, a variant in K. (11) D and K have चूर्णे तु. (12) This hemistich and the next three are not found in D, M and My. (13) B reads चतुर्विद्यो वर्णो. (14) B reads वज्रस्थानेषु वैक्रान्तं, which seems to be incorrect. 41