रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 345, कुल 558 में से
संदर्भ में पढ़ें३२२ रसार्णवे देहलोहकरो यश्च¹ पारदो लोहवत्² प्रिये ॥ ३३ ॥ नीलवर्णस्तु वैक्रान्तो³ म्रियते⁴ रससंयुतः ॥ ३४ ॥ कृष्णाभ्रकेण⁵ सहितं मधुसर्पिर्युतं च यत् । भक्षयेन्मण्डलं देवि जीवेच्चन्द्रार्कतारकम् ॥ ३५ ॥ यस्य यस्य हि यो योगः तस्य तस्य प्रयोगतः । मेलयित्वा रसं गुञ्जा-मानं षिमधुसंयुक्तम् ॥ ३६ ॥ पथ्यं क्षीराज्यशाल्यन्नं⁶ भोज्यमन्यच्च⁷ वर्ज्जयेत् ॥ ३७ ॥ [ एकान्ते मक्षिकामध्ये निर्वासः संस्थितो नरः । रसमृत्युञ्जयो मन्त्रः सदा जप्यो हृदन्तरे ॥ पशूनां विमुखस्तत्र स्त्रीणां चैव न दर्शनम् । भस्मोद्धूलितसर्वाङ्गो मन्त्रध्यानपरायणः । वत्सरं क्रमते मर्त्यस्तस्य सिद्धिर्न संशयः ॥ ]⁸ वैक्रान्तसत्त्वसंयुक्तं⁹ लुङ्गाम्ले मर्दयेद्रसम्¹⁰ ।
(1) K reads यस्य. (2) K reads पारदो लोहवत्. (3) After this charana we find the following hemistich in B only— वह्निमध्ये यथा तिष्ठे अचंचला महारसा । which we have rejected for its incongruousness. (4) D reads मृतये. M reads म्रियते. Both are incorrect. (5) This śloka and the next forty-three ( i. e. 35—78 ) are not found in B. (6) D has खोटं क्षारान्यशाल्यन्न, M has खोटं क्षीराज्यशाल्यं नं. My has खोटं वैक्रान्तशाल्यन्नं. (7) D reads भोज्यमन्यत्तु. (8) The portion within brackets is foun ( only in K MS. (9) D reads वैक्रान्तं सत्वसंयुक्तं, which seems to be inc. K reads सत्वसंयुक्तो, which is gram. inc. (10) D and K have लुंगाम्लेन मर्दयेद्रसम् M has तलुङ्गाम्लेन मर्दयेत्, which appears to be inc.