भारतकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 346, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 346

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:

पञ्चदशः पटलः । ३२३ तापयेत् कोष्ण¹तापेन जलेन² परिपूरयेत् ॥ ३८ ॥ सत्त्वं सूतञ्च संमिश्र³ धामेत् स्याद्रसबन्धनम्⁴ । बद्धं रसं⁵ मुखे क्षिप्त्वा भूमिरिच्छिद्राणि पश्यति⁶ ॥ ३९ ॥ निष्कमेकं च वैक्रान्तम्⁷ अश्वामूत्रेण मईयेत् । दिनमेकमिदं देवि मर्दयित्वा मृतो भवेत् ॥ ४० ॥ चतुर्दिनमिदं कृत्वा समं सूतं समानयेत्⁸ । मईनं स्वेदनं चैव पूर्ववच्छुद्धमानसः⁹ ॥ ४१ ॥ सप्तबन्धनमेकैकं¹⁰ समाष्टमपलं¹¹ भवेत् । मईयेन्मातुलुङ्गाम्लैः¹² चतुःषष्टिपुटं ददेत् । उदयारुणसंकाशः सर्व्वलोहानि वेधयेत् ॥ ४२ ॥ कृष्णाभ्रकस्य सत्त्वं च रसं हेमसमं भवेत् ।

(1) संतापयेत्युष्ण, a variant in D. My has कृण. (2) K reads जलेना. M reads मलेन. (3) D reads सात्वं सूत च संमिश्र्या. K reads सत्वं सूतं च संमिश्रं. M reads सत्वसूतश्च संश्चार्य्य, which is inc. (4) घर्मस्वं रसबन्धनम्, a variant in D. धामयेत् रसबन्धनम्, a variant in M. (5) D reads वम्बं रसं, which is incorrect. K reads बद्धरसं. (6) D reads पखति, which is incorrect. K reads भूमीछिद्राणि, which is also incorrect. (7) M reads निष्वानेकन्तु संक्रान्त, which is an error of the scribe. (8) D reads समं नयेत्. M reads सममयेत्. (9) जायते शुद्धमानसः, a variant in D. (10) K reads सत्व बंधनमेकैकं. (11) D and K read समाष्टमफलं. M reads सममाष्टपलं. My reads सममाष्टफलं. (12) K reads लिंगाग्लैः. M reads लुङ्गाम्लै. This charana and the next five are not found in D.