भारतकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 349, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 349

३२६ : रसार्णव शतांशं¹ वेधयेन्नागं गुञ्जावर्णस्तु जायते² ॥ ५३ ॥ तेन नागशतांशेन शुल्खं रक्तनिभं भवेत् । तेन शुल्खशतांशेन³ तारं विध्यति काञ्चनम् ॥ ५४ ॥ चपलस्य तु षड्भागाः⁴ तारभागास्तु सप्त च⁵ । अष्टौ कनकभागास्तु⁶ नव भागा रसस्य तु⁷ ॥ ५५ ॥ त्रिंशद्भागा मिलित्वा तु भवन्ति सुरवन्दिते ॥ ५६ ॥ चित्रकं करवीरं च लाङ्गलो गृध्रविट् तथा⁸ । मर्दितं मातुलुङ्गाम्ले⁹ मूषालेपन्तु¹⁰ कारयेत् ॥ ५७ ॥ अन्धयित्वा धमेद्देवि¹¹ खोटो भवति शोभनः¹² । तेन खोटशतांशेन¹³ विद्धो नागोऽरुणो भवेत् ॥ ५८ ॥ तेन नागेन विद्धं तु¹⁴ शुल्खं गुञ्जानिभं¹⁵ भवेत् । तेन शुल्खेन तारं तु विद्धं¹⁶ भवति काञ्चनम् ॥ ५९ ॥ (1) D reads शतांशेन. K reads शतांशै. (2) D has गुञ्जावर्णस्य तु, which is inc. My has जारयेत्. (3) M reads नागशतांशेन, which seems to be inc. (4) K reads षड् भाग. M reads षडभागाः, which is inc. (5) सप्त च तारभागकाः, a variant in D. K and M read तारभागन्, which is inc. My reads तारा भागस्य, which is also inc. (6) Both D and M have कनकभागास्तु, which is inc. (7) M reads च. (8) लाङ्गली गिरिकर्णिका, a variant in D. (9) मातुलिङ्गाम्लैः is the reading in K. (10) K reads मूखालिपं तु, (मूखा = मूषा). (11) My has साधयित्वा. M has भवेद्देवि. (12) Both D and M read शोभने. M reads खोटो. (13) M reads खोटशतांशेन. We do not find 66 ( 58—124 ) ślokas in D. (14) M has तत् instead of तु. My has पिण्डं तु. (15) M and My read गुञ्जारुण. (16) M reads सिद्धं, which is inc.