भारतकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 350, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 350

पञ्चदशः पटलः । ३२७ हेमाभं चपलं¹ देवि पादार्धेन² तु संयुतम् । पादेन³ कनकं दत्त्वा कुनट्या मर्दयेत् क्षणम् ॥ ६० ॥ लाङ्गली चित्रकञ्चैव स्त्रीस्तन्यं करवीरकम्⁴ । गृध्रविष्ठा तथा⁵ सर्व्वं मूषालिेपं⁶ तु कारयेत् ॥ ६१ ॥ तन्मध्ये तु स्थितं ध्मातं खोटो भवति शोभनः⁷ । पूर्व्वोक्तं वेधयेदेतं⁸ निर्व्वीजं कनकं भवेत् ॥ ६२ ॥ [ सुतप्ते लोहपात्रे च क्षिपेच्च पलपूर्णकम् । सबीजं पारदं कृत्वा चपलस्य तु वापयेत् । लाक्षाभो बध्यते सूतो गजेनेव महागजः ॥ ]⁹ ॥ इति चपलबन्धः ॥ शुद्धसूतपलैकं तु¹⁰ पलैकं गन्धकस्य च¹¹ । एकीकृत्याथ संमर्द्य धुत्तूरस्य रसेन च¹² ॥ भावयेच्चक्रयोगेन¹³ भक्ष्योभवति सूतकम्¹⁴ ॥ ६३ ॥


(1) हेमाभचपलं is the reading in M. (2) M reads पादोर्धेन, which is inc. (3) M and My read पारदे. (4) कटुवीरकम् is the reading in M. (5) M has गृध्रविष्ठतया, which is inc. My reads ततः. (6) K reads मुखालिपं, which is inc. (7) खोड़ो भवति शोभनः, a variant in M. After this My has the following hemistich—तेन खोटशतांशेन विद्धो नागोऽरुणो भवेत् । (8) K reads वेधयेदत्तं, which is inc. (9) The portion within brackets is found only in M and My. (10) K reads बह्न in place of शुद्ध. M reads च instead of तु. (11) K reads तु. (12) धत्तूररसकेन तु, a variant in K. (13) M and My read मारयेच्चक्रयोगेन. (14) भक्तं भवति सूतकं is the variant in M.