भारतकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 351, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 351

३२८ रसार्णवे भस्ममूषागतं ध्मातं खोटो भवति शोभनः । सूतं हेम च¹ नागं च चन्द्रार्कौ² चापि वेधयेत् ॥ ६४ ॥ पलैकं शुद्धसूतस्य कर्षैकं गन्धकस्य च³ । मर्दयेत् स्निग्धखल्ले तु⁴ देवदालीरसप्लुतम्⁵ । मर्दयेत्सु कराङ्गुल्या⁶ गन्धपिष्टिसु⁷ जायते ॥ ६५ ॥ जम्बीरार्द्ररसेनेव⁸ दिनमेकन्तु मर्दयेत् । पलाशमूलक्वाथेन मर्दयेत् त्रिदिनं ततः⁹ ॥ ६६ ॥ पञ्चद्रावकसंयुक्तां वटिकां कारयेत् शुभाम्¹⁰ । पलाशमूलकल्केन वटिकां तां प्रलेपयेत्¹¹ ॥ ६७ ॥ धमेत् खोटो भवेच्छेतः¹² काचटङ्कणयोगतः । शोधयेत् तत् प्रयत्नेन यावन्निर्मलतां व्रजेत्¹³ ॥ ६८ ॥ तत्खोटं रञ्जयेद्देवि¹⁴ त्रिगुणं पन्नगं ततः । शतशो रञ्जयेत् पश्चात् शुद्धाभ्रक¹⁵कपालिना¹⁶ ॥ ६९ ॥


(1) K reads हेमं च, which is unusual. M reads सितहेम च. (2) M and My read चन्द्रार्कं. (3) K has an incomplete charana कस्य च. (4) स्निग्धखत्वेन is the reading in K and My. (5) M has देवदालोरसैस्सह. (6) अङ्गुष्टेनापि सम्यक्, an incomplete variant in M. (7) M reads गन्धपिष्टन्तु. (8) जंविरस्य रसेनेव, a variant in M and My. (9) त्रिदिनं मर्दयेत्ततः, a variant in M. (10) M reads