रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
३२८ रसार्णवे भस्ममूषागतं ध्मातं खोटो भवति शोभनः । सूतं हेम च¹ नागं च चन्द्रार्कौ² चापि वेधयेत् ॥ ६४ ॥ पलैकं शुद्धसूतस्य कर्षैकं गन्धकस्य च³ । मर्दयेत् स्निग्धखल्ले तु⁴ देवदालीरसप्लुतम्⁵ । मर्दयेत्सु कराङ्गुल्या⁶ गन्धपिष्टिसु⁷ जायते ॥ ६५ ॥ जम्बीरार्द्ररसेनेव⁸ दिनमेकन्तु मर्दयेत् । पलाशमूलक्वाथेन मर्दयेत् त्रिदिनं ततः⁹ ॥ ६६ ॥ पञ्चद्रावकसंयुक्तां वटिकां कारयेत् शुभाम्¹⁰ । पलाशमूलकल्केन वटिकां तां प्रलेपयेत्¹¹ ॥ ६७ ॥ धमेत् खोटो भवेच्छेतः¹² काचटङ्कणयोगतः । शोधयेत् तत् प्रयत्नेन यावन्निर्मलतां व्रजेत्¹³ ॥ ६८ ॥ तत्खोटं रञ्जयेद्देवि¹⁴ त्रिगुणं पन्नगं ततः । शतशो रञ्जयेत् पश्चात् शुद्धाभ्रक¹⁵कपालिना¹⁶ ॥ ६९ ॥
(1) K reads हेमं च, which is unusual. M reads सितहेम च. (2) M and My read चन्द्रार्कं. (3) K has an incomplete charana कस्य च. (4) स्निग्धखत्वेन is the reading in K and My. (5) M has देवदालोरसैस्सह. (6) अङ्गुष्टेनापि सम्यक्, an incomplete variant in M. (7) M reads गन्धपिष्टन्तु. (8) जंविरस्य रसेनेव, a variant in M and My. (9) त्रिदिनं मर्दयेत्ततः, a variant in M. (10) M reads
पञ्चदशः पटलः । ३२९ शुल्वे तारे च खोटोऽयं¹ सहस्रांशेन वेधकः² ॥ गन्धकेन हते सूते³ मृतलोहानि⁴ वाहयेत् ॥ ७० ॥ पुनर्हेम समावर्त्त्य समांशं भक्षणं⁵ कुरु । जारिते शुल्वकारे च⁶ घोषं⁷ विध्यति सूतकः⁸ ॥ ७१ ॥ रसं⁹ हेमसमं कृत्वा पिष्टिकाद्धेन गन्धकम्¹⁰ । द्विपदीरजसा युक्तं मर्दयेद्दङ्कणान्वितम् ॥ ७२ ॥ नष्टपिष्टं च तत् शुल्बं¹¹ ध्मातं खोटो भवेत्ततः¹² । सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा तु शोधयेत्¹³ ॥ ७३ ॥ अक्ष्णोष्णो मिलिते हेम्नि¹⁴ समावर्त्तस्तु जायते । समांशं भक्षणं हेम्नि¹⁵ शुद्धसूतेन कारयेत् ॥ ७४ ॥ नष्टपिष्टं च तच्छुल्बं¹⁶ ध्मातं खोटो भवेत्ततः¹⁷ । (१) M reads खोटोग्रं. (२) M reads वेधयेत्. (३) गंधकी मिलिते सूते, a variant in M. गन्धकेन हिते सूते, a variant in My. (४) K reads मृतलोहानी, which is gram. inc. (५) K has समांसग्रक्षं, which has no sense at all. (६) झारीतशुल्बसूताशं, a variant in M, which is unintelligible. जारितं शुल्वतारे च, a variant in My. (७) K reads याष, which appears to be incorrect. (८) M and My read सूतकम्. (९) M reads सूतं. My reads रस, which is incorrect. (१०) K and My read गन्धकः. M reads गन्धकौ, which appears to be incorrect. (११) M and My read शुल्कं. (१२) ध्मातो भवति खोटकः, a variant in My. (१३) This hemistich and the next four are not found in M. (१४) My reads मिलति हेना. (१५) My reads मं तु. (१६) My reads तच्छुल्कं. (१७) This hemistich is written in My after the next hemistich. 42
३३० रसार्णवे द्विपदौरजसा युक्तं मर्दयेत् टङ्कणान्वितम् ॥ ७५ ॥ चन्द्रार्कषोडशांशेन¹ विद्धं भवति काञ्चनम् । हेमार्थं मिलितं तन्तु² मातृकासमतां³ व्रजेत् ॥ ७६ ॥ कुर्यात् संकलिकायोगात्⁴ वेधं⁵ दशगुणोत्तरम् । यथा हेम्नि तथा तारेऽप्यादिवीजानि योजयेत्⁶ ॥ ७७ ॥ तृतीयसंकलाबन्धं⁷ षट्शतांशेन वेधयेत्⁸ । चतुर्गुणेन तेनैव सहस्रांशेन काञ्चनम् ॥ ७८ ॥ अनेन क्रमयोगेण सप्त संकलिका यदि । कुरुते काञ्चनं दिव्यमष्टौ लोहानि सुन्दरि⁹ ॥ ७९ ॥ तं पुनश्चूर्णयित्वा तु¹⁰ पुटेद्भस्म प्रजायते¹¹ । सर्व्वव्याधिहरो देवि¹² पलैके तस्य भक्षिते ॥ ८० ॥ द्विपले¹³ ब्राह्ममायुष्यं¹⁴ त्रिपले¹⁵ वैष्णवं भवेत् ।
(1) M and My read चन्द्रार्कं षोडशांशेन. (2) M reads हेमार्थ्यं, which appears to be incorrect. My reads तं तु. (3) M has मात्रका, which has no clear sense. (4) मण्डलिकायोगात् is the variant in M. (5) M reads वेध्यं. (6) स्याद्वीजानि योजयेत्, an incomplete charaṇa in K. ऽप्यादिवीजेन योजितम्, a variant in M. My reads व्याधिवीजानि योजित. (7) तृतीयमण्डलावस्थं, a variant in M. (8) षट्शते नाग- वेधकं, a variant in K and My, which is partly incorrect. (9) M reads विध्यति. (10) B wants तु. (11) Both B and M read पुटयेद्भस्म जायते. My reads स्फोटयेद्भस्म जायते. (12) My reads सर्व्व- व्याधि हरेद्देवि, which is incorrect. (13) K reads द्विपलं. My reads द्वेपलं, which is incorrect. (14) B and My read ब्रह्ममायुष्यं. K reads ब्रह्म चायुष्यं (15) K reads त्रिपलं. My reads त्रिदग्धे, which is incorrect.
पञ्चदशः पटलः । ३३१ चतुःपले तु रुद्रत्व-मीशः¹ पञ्चपले भवेत् ॥ ८१ ॥ षट्पले भक्षिते देवि सदाशिवतनुर्भवेत् ॥ ८२ ॥ सूतकं गन्धकं तारं² मेषवल्लीरसेन च³ । त्रिदिनं मर्दयेत्तीक्ष्णं⁴ वङ्गपादेन मेलयेत्⁵ । अन्धमूषागतं ध्मातं वङ्गं स्तम्भयति क्षणात् ॥ ८३ ॥ चूर्णितं गन्धकं देवि मर्कटी⁶रसभावितम् । भावयेच्छतवारांस्तु जीव⁷भस्म तु गच्छति ॥ ८४ ॥ दीपयेन्मृन्मये⁸ पात्रे रसेन सह संयुक्तम् । तापयेद्रवितापेन मर्कटी⁹रससंयुक्तम् ।¹⁰ गन्धकं ग्रसते सूतः¹¹ पिष्टिका¹² भवति क्षणात् ॥ ८५ ॥ तिलपर्णी¹³रसेनेव गन्धकं भावयेत् प्रिये । सप्त वारांस्तु देवेशि छायाशुष्कं पुनः पुनः ॥ ८६ ॥ शोधितं पातितं सूतं पलैकप्रमितं¹⁴ प्रिये । (1) All the texts read ईशः , but ईश is proper. (2) M reads कान्तं. (3) मेषवल्लीरसे समाः, a variant in B. अष्टवल्लीरसेन च, a variant in K. मेषवल्लीरसैस्सह, a variant in M. मेषवल्लीरसे समाः, a variant in My. (4) M and My read मर्दयेत्तीक्ष्ण. (5) वंकपत्रेषु लेपयेत्, a variant in M. वंगपादेन लेपयेत्, a variant in My (6) My reads कर्कोटी. (7) My reads बीज. (8) B and My have दापयेन्मृन्मये. M has तापयेन्मृन्मये. (9) My reads कर्कोटी. (10) This hemistich is
३३२ रसार्णवे मूषामध्ये¹ विनिक्षिप्य नरेन्द्ररस²संयुतम् । जारयेद्वालुकायन्त्रे भावितं गन्धकं³ पुनः ॥ ८७ ॥ त्रुटि त्रुटि⁴ प्रदातव्यं गन्धकञ्च पुनः पुनः । अनेन क्रमयोगेण⁵ जायते गन्धपिष्टिका ॥ ८८ ॥ गन्धपाषाणचूर्णं तु कनकस्य रसेन तु । एकीकृत्य तथा खल्ले मर्दयित्वा यथाविधि⁶ । आतपे स्थापयेद्देवि कनकस्य रसेन तत् ॥ ८९ ॥⁷ भावयेत् सप्तवारांस्तु स्त्रीपुष्पेण तु सप्तधा । शुद्धसूतपलैकं च खर्परे⁸ दापयेत्ततः ॥ ९० ॥ भावितं गन्धकं दद्यान्नरपित्तेन संयुतम् । दोलयेद्द्रवितापेन⁹ पिष्टिका भवति क्षणात् ॥ ९१ ॥ गन्धकं सूक्ष्मचूर्णन्तु चणकाम्लेन भैरवि । भावयेत् सप्तवारांस्तु¹⁰ स्त्रीपुष्पेण च¹¹ सप्तधा ॥ ९२ ॥ द्रुतसूतकंमध्ये तु कर्पूरं गन्धकं समम्¹² ।
(1) K reads मूखामध्ये, which is incorrect. (2) K reads नरेन्द्रे रस, which is incorrect. My reads रसेन्द्र. (3) K reads गंधकं. (4) My reads कुटीकुटि. (5) K reads क्रियमाणेन. (6) B reads खल्वे मर्द्य दिनावधि. (7) The 89th śloka is not found in M and My. (8) M reads कर्परी, which seems to be incorrect. (9) ढालयेद्द्रवितापेन, a variant in B. लोलयेद्द्रवितापेन, a variant in M. जोलयेद्द्रवितापेन, a variant in My. (10) All the texts read सप्तवाराणि, which is gram. inc. (11) K, M and My read तु. (12) My reads रसं.
पंचदशः पटलः । ३३३ दापयेच्चिक्खिपेन्नोष्ठे¹ सप्ताह्याद्गन्धपिष्टिका² ॥ ६३ ॥ कटुकोशातकीबीजं चण्डाली³कन्दमेव च⁴ । स्तनक्षीरेण संपेष्य⁵ पिष्टिकां तेन लेपयेत् ॥ ६४ ॥ पुटयेद्भूधरे यन्त्रे स्तम्भते⁶ नात्र संशयः । हेमसम्पुटमध्ये तु समावर्त्तं⁷ तु कारयेत् ॥ ६५ ॥ अष्टमांशेन तेनैव नागवेधं⁸ प्रदापयेत् । तन्नागं जायते दिव्यं सिन्दूरारुणसन्निभम् ॥ ६६ ॥ तन्नागेनाष्टमांशेन⁹ शुल्कवेधं प्रदापयेत् । षोडशांशेन तेनैव तारवेधं¹⁰ प्रदापयेत् ॥ ६७ ॥ तत्तारं जायते हेम सिद्धयोगेश्वरीमतम्¹¹ ॥ ६८ ॥ गन्धपिष्टिपलैकं तु नागपिष्टिपलाष्टकम् । लेपयेन्नागपत्राणि¹² छायायां शोषयेत्ततः ॥ ६६ ॥ (1) B, K and My read गोटे. (2) B reads गंधपिष्टिकां, which seems to be incorrect. (3) K reads चांडाली. (4) M has चण्डालीकाममेव च, which seems to be incorrect. (5) सव्यक्षीरेण संमद्यं, a variant in K. (6) M reads सम्भितो. My reads संभ्यते. (7) M reads समाहस्त. (8) This hemistich is not found in K. M reads तारवेधं. (9) तन्नाग चाष्टमांशेन, a variant in K. नागेन चाष्टमांशेन, a variant in M. नागेनाष्टमलेशेन, a variant in My. (10) B reads तार वेधं. K and My read तारे वेध. (11) K reads सिद्धयोगेश्वरोमतं. M and My want this hemistich (12) M reads नागपाताणि, which is incorrect
२३४ ३३४ रसार्णवे आटरूपकपिण्डेन¹ नागपत्राणि² लेपयेत् । आरण्योत्पलके·देवि दापयेच्च पुटद्वयम्³ ॥ १०० ॥ तन्नागं म्रियते दिव्यं सिन्दूरारुणसन्निभम् ॥ १०१ ॥ तन्नागपलमेकं⁴ तु शुल्बचूर्णपलाष्टकम्⁵ । वासकस्य रसेनेव⁶ प्रहरैकं तु मर्दयेत् । मारयेत् पातनायन्त्रे शुल्बं तन्म्रियते⁷ क्षणात् ॥ १०२ ॥ षोडशांशेन तेनैव तारवेधं⁸ प्रदापयेत् । जायते कनकं दिव्यं देवाभरणमुत्तमम्⁹ ॥ १०३ ॥ या काचिद्गर्भपिष्टी तु¹⁰ चादौ¹¹ नागं तु मारयेत् । नागं तु¹² वेधयेच्छुल्बं शुल्बं तारं तु वेधयेत् । कनकं जायते दिव्यं सिद्धयोग उदाहृतः¹³ ॥ १०४ ॥ (1) आषवकपिण्डेन, an incorrect variant in B. आशुवरसपिण्डेन, a variant in K, which has no clear sense. (2) M reads नागपात्राणि, which is incorrect. (3) This hemistich and the next one are not found in M. (4) K reads तं नागं पलमेक. My reads तन्नागं पलमेकं. (5) K and M read शुल्वचूर्णं पलाष्टकम्. (6) My reads वासकस्वरसेनेव. (7) B and K read तु म्रियते. My reads erroneously तं म्रियते. (8) B and K read तारे वेधं. (9) देवा- भरणभूषणं, a variant in B, M and My. (10) K has या काचिद्- गर्भपिष्टिस्तु. M has या काचिद्गभपिष्टत्तु, which is gram. inc. (11) M wants चादौ. (12) B and My read नागेन. This hemistich is wanting in K. (13) सिद्धयोगसमुदाहृतं, an incorrect variant in B. This hemistich is not found in M and My.
पञ्चदशः पटलः । ३३५ गन्धकं मधुसंयुक्तं हरबीजेन¹ मर्दितम् । भूमिस्थं मासषट्कं तु² तारमायाति³ काञ्चनम् ॥ १०५ ॥ उद्वर्त्तनं तु⁴ तेनैव कुष्ठरोगस्य नाशनम्⁵ । घृतेन सह संयुक्तं व्रणरोगविनाशनम्⁶ । संवत्सरप्रयोगेण सहस्रायुर्भवेन्नरः ॥ १०६ ॥ ॥ इति गन्धकबन्धः ॥ शुद्धसूतपलैकं च पलैकं तालकस्य च । एकीकृत्याय संमर्द्य उन्मत्तरसेन च । मारयेच्चक्रयन्त्रेण भस्मीभवति सूतकम्⁷ ॥ १०७ ॥ अन्धमूषागतं ध्मातं खोटो भवति शोभनः । वङ्गं तारं⁸ च शुल्बं च क्रमशौ वेधयेद्रसः ॥ १०८ ॥ शुद्धवङ्गपलैकं च पलैकं सूतकस्य च⁹ । द्विपलं¹⁰ तालकं चैव उन्मत्तरसमर्दितम् । मारयेत् पातनायन्त्रे धमनात् खोटतां नयेत्¹¹ ॥ १०९ ॥
(1) My reads erroneously चिरबीजेन. (2) M and My read मासमेकं तु. (3) B reads तारमायति. K reads तारं भवति. M reads तारमायात. The first and the last readings are incorrect. (4) M has उद्वर्त्तनेन. (5) सर्वकुष्ठं विनश्यति, a variant in B, K and My. (6) K reads वर्णरोगविनाशनं. M wants this hemistich. (7) B, K and My read सूतकः, which is not correct here. (8) M reads वङ्गं. My reads वंगतारे. (9) My reads तालकस्य च. (10) M reads द्वे पले. My reads द्विपले. (11) M reads खोटतां नयेत्. M and My
३३६ रसार्णवे तालपिष्टोपलैकं¹ तु पलैकं गन्धकस्य च । द्वे पले शुद्धसूतस्य² दिनमेकन्तु तेन वै ॥ ११० ॥ एकौकृत्याय संमर्द्य उन्मत्तरसेन च । मारयेत् पातनायन्त्रे धमनात् खोटतां नयेत् ॥ १११ ॥ ॥ इति तालकबन्धः ॥ शुद्धनागपलैकं च पलैकं सूतकस्य च । पलद्वयं कुलत्थाश्च सर्व्वमेकत्र मर्दयेत्³ । मारयेत् पातनायन्त्रे धमनात् खोटतां नयेत् ॥ ११२ ॥ हेमपिष्टिपलैकं तु पलैकं गन्धकस्य च । एकौकृत्याय संमर्द्य धुस्तूरकरसेन⁴ च । मारयेत् पातनायन्त्रे धमनात् खोटतां नयेत् ॥ ११३ ॥⁵ कृष्णाभ्रकस्य सत्त्वं च कान्तं तीक्ष्णं च हाटकम् । शुद्धशुल्बं च तारं च माक्षिकं समभागिकम्⁶ । अन्धमूषागतं ध्मातं खोटो⁷ भवति तत्क्षणात् ॥ ११४ ॥ (1) K reads तालपिष्टिपलैकं. This charaṇa and the next seven are not found in M and My, (2) B reads द्वौपले, which is incor- rect. K reads द्विपलं. (3) K reads रंजयत्, which seems to be incorrect. (4) K and My have धत्तूरकरसेन. (5) We do not find 112th and 113th ślokas in B. We find the following hemis- tich in K only :— हेमपिष्टिपलैकं तु पलैकं गंधकस्य तु, which seems to us a repetition. (6) शुद्धशुल्बतारं च माक्षिकं समभागानि कारयेत्, a variant in B, which appears to us irregular. शुद्धतारञ्च माक्षिकं समभागानि कारयेत्, a vari- ant in M and My, wherein शुल्ब is not mentioned. (7) M reads खोटी..
पञ्चदशः पटलः । ३३७ तत्खोटपलमेकं तु पलैकं सूतकस्य च । पलद्वयं कुलत्थस्य सर्व्वमेकत्र मर्दयेत्¹ । मारयेत् पातनावन्ते धमनात् खोटतां² भवेत् ॥ ११५ ॥ स्वच्छाभ्रकपलैकं तु³ रसकस्य पलं तथा⁴ । सूतकस्य पलैकं तु सर्व्वमेकीकृतं प्रिये ॥ ११६ ॥ उन्दूरकरसेनेव मर्दयेत् प्रहरद्वयम् । मर्दयेद्दिनमेकं तु⁵ टङ्कणेन समन्वितम् ॥ ११७ ॥ गुटिकां⁶ कारयेद्देवि छायाशुष्कां तु कारयेत् । मूषावह्निगतं ध्मातं खोटी भवति सूतकम्⁷ ॥ ११८ ॥ तं खोटं शोधयेच्छ्वेत⁸काचटङ्कणयोगतः । हेम्ना सह समावर्त्त्य⁹ सारत्वात्त्रयसारितम् ॥ ११९ ॥ सहस्रांशेन तेनैव मुख्यवेधं¹⁰ प्रदापयेत् । अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ॥ १२० ॥ बीजद्वयं पलाशस्य पलमेकं तु सूतकम् । जम्बीराम्लेन संमर्द्य छायाशुष्कं तु कारयेत् ॥ १२१ ॥
(1) B and My read कारयेत्. (2) 'M reads खोटतां. (3) शुद्धाभ्रपलमेकं तु, a variant in K. (4) पलैकं गन्धकस्य च, a variant in M. This charaṇa and the next one are not found in My. (5) B and My read हि. After this charaṇa we do not find 70 (117—187) ślokas in M. (6) B has अंगुलिकां, which seems to be incorrect. (7) K and My read सूतक:. (8) K reads शोधयेदेतत्, which seems to be incorrect. My reads खोटं संशोघयेत् श्वेत. (9) हेमा सहलजावर्त्य, a variant in B. (10) B reads वृद्धवेधं. 43
३९८ रसार्णवं तुम्बो च¹ मेघनादा च काकजङ्घा च चूलिका² । स्त्रोतस्येन प्रलिप्तायां मूषायां³ च विनिक्षिपेत् ॥ १२२ ॥ धमयेत् खदिराङ्गारैः खोटो भवति चाक्षयः ॥ १२३ ॥ पलाशतैलं⁴ संमर्द्य यावत् स्याद्रसपिष्टिका⁵ । अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥ १२४ ॥ पूर्व्वशुद्धेन सूतेन⁶ सह हेम्ना⁷ च पार्व्वति । गोलकं कारयेत्तेन मर्द्दयित्वा द्रुतं⁸ हतम् ॥ १२५ ॥ ब्रह्मवृक्षस्य बीजानि कार्पासास्थि विभीतकम् । यवचिञ्चा तु⁹ वन्ध्या च राजिका च समन्वितम् ॥ १२६ ॥ सूक्ष्मपिण्डीकृतं¹⁰ सर्व्वं तेन लिप्त्वा तु गोलकम् । पुटनैः सप्तभिर्देवि पिष्टिकास्तम्भनं भवेत् ॥ १२७ ॥ बृहत्पुटं ततो दत्त्वा मूषायां तत्तु भावयेत्¹¹ । [L
पञ्चदशः पटलः । ३३६ शतांशेन तु चन्द्रार्कं वेधयेत् सुरवन्दिते ॥ १२८ ॥ पुनस्तेनैव योगेन पिष्टीस्तम्भं तु¹ कारयेत् । सारयित्वा ततो हेम्ना वेधयेच्च सहस्रकम्² ॥ १२९ ॥ एवं लक्षाणि कोटिं च वेधयेत् क्रमयोगतः । सप्तसंकलिकादूर्ध्वं कृत्वा वक्त्रे³ तु गोलकम् । वर्षेणैकेन स भवेत्⁴ वलीपलितवर्जितः ॥ १३० ॥ चाण्डाली⁵ राक्षसी चैव कुण्डलोद्भवो⁶ रसः । बीजं सूतं च वैक्रान्तं मर्दयेत् प्रहरत्रयम्⁷ ॥ १३१ ॥ विशुद्धं गोलकं⁸ कृत्वा मूकमूषागतं⁹ पुटेत् । खोटस्तु जायते देवि सुस्नातः¹⁰ खदिराम्बुना ॥ १३२ ॥ चाण्डालीराक्षसीपुष्प-रस¹¹ मध्वाज्यटङ्कणैः । महारसाष्टमञ्चैक-मभ्रकं चापि¹² योजयेत् ॥ १३३ ॥ नागं वङ्गं समं¹³ सूतं हेम तारमथापि वा ।
(1) B and My read पिष्टिसम्भुन, which is gram. inc. (2) वेध- येच्च सहस्रकं, a variant in B and My. (3) K wants वक्त्रे. My reads वक्त्रं. (4) D reads सह भवेत्, which is incorrect. (5) B reads चण्डालौ. (6) कुण्डलोलोद्भवो is the reading in D, which seems to be incorrect. (7) D and My have पहरद्वयम्. (8) D reads विशुद्धगोलक. (9) D and K read मूकमूष्वागत, which is incorrect. (10) B reads स्नातः, which mars the metre. (11) चंडालीराक्षसी- पुष्पीरस is the reading in B. राक्षसीपुष्पेरस is the reading in D. (12) B reads मञ्चैकमभ्रकं चापि, wherein the first term is incorrect. (13) K and My read नागवंगसम.
३४० रसार्णवे अभ्रकं द्रुतिसत्त्वं¹ वा मर्द्दयेत् प्रहरद्वयम्² ॥ १३४ ॥ छायाशुष्कं ततो गोलं³ मूकमूषागतं धमेत् । दत्त्वा लघुपुटं देवि खोटो भवति शोभनः ॥ १३५ ॥ रम्भा वीरा⁴ सुहीक्षीरं कञ्चुकी यवचिञ्चिका । दोनारी चैव⁵ गोरक्षा मीनाक्षी काकमाचिका ॥ १३६ ॥ एभिर्मर्द्दित⁶सूतस्य पुनर्जन्र्म न विद्यते । पूर्व्ववत् क्रमयोगेण खोटो भवति शोभनः ॥ १३७ ॥ विष्णुकान्ता च चक्राङ्गा बला च तुलसी तथा⁷ । महासोमाह्विवल्ली⁸ च सूर्यावर्त्तश्च सुन्दरि⁹ । एभिस्तु मर्द्दितः सूतः¹⁰ पूर्व्ववत् खोटतां व्रजेत्¹¹ ॥ १३८ ॥ मुखेन ग्रसते ग्रासं¹² जारणा तेन सुन्दरि । रसोनराजिकामूलै¹³र्मर्द्दितं वरवर्णिनि ।
(1) My reads द्रुतसत्वं. (2) B reads प्रहरत्रयम्. (3) K reads गोलां, which is incorrect. My reads तथा गोलं. (4) K and My read विरा. (5) K reads दीनादिनेव, which seems to be incorrect. (6) समैर्मर्दितं is the reading in D, which is incorrect. (7) काचला तुलसी कथा, a variant in D. (8) B reads महासोमा च वल्लि, wherein the last term is incorrect. My reads महासोमा च वल्ली. (9) सूर्यावर्त्तं च सुन्दरि, a variant in D. सूर्यावचा च सुंदरी, a variant in K. सूर्यावर्त्तं च सुदरी, a variant in My. (10) B and My have मर्दितं सूतं. D has मर्द्दिनैः सूत. (11) B, K and My read नयेत्. (12) B has an incomplete charana—मुखेन गर्म. D and My want this charana and the next nine ones. K reads ग्रासो. (13) रसैर्निजविमूलैः, a variant in B.
पञ्चदशः पटलः । ३४१ दिव्यौषधिपुटं पाक्यं¹ रसखोटस्य लक्षणम् ॥ १३८ ॥ एतत्ते कथितं गुह्यं विज्ञेयं² रसवादिभिः । मत्प्रसादेन देवेशि तस्य सिद्धिर्न³ संशयः ॥ १४० ॥ स्नुहीक्षीरं सकाञ्जीकं⁴ बीजानि⁵ कनकस्य च । कञ्चुकी लाङ्गली चेन्द्रवारुणी विषमुष्टिका । पलाश⁶मूलतोयं च मर्दयेत्तेन सूतकम् ॥ १४१ ॥ समे हेम्नि⁷ समं सूतं पिष्टिकां कारयेद्बुधः⁸ । महारसान् पिष्टिकार्थं⁹ मर्दयेदौषधोरसैः ॥ १४२ ॥ यामत्रयं मर्दयित्वा गोलकं कारयेद्बुधः । पिष्टिकां बन्धयित्वा तु गन्धतैले¹⁰ विपाचयेत् ॥ १४३ ॥ अन्धमूषागतं गोलं¹¹ छायाशुष्कं तु कारयेत् । [ ततो लघुपुटं दत्त्वा खदिराग्नौ तु धामयेत् । खोटस्तु जायते हेम्नि सह हेम्ना ह जारयेत् ॥ ]¹² (1) B reads erroneously पाथ. (2) B reads विज्ञतं, which is incorrect. (3) B reads तस्य सिद्धेन. (4) स्नुहीक्षीरस काञ्जिकं, a variant in B. स्नुहिक्षीरस्य काञ्जीकं, a variant in My. (5) My reads बीजकं. (6) K reads पालाश. (7) B and My have समहेम्नि. (8) पिष्टिका काठैद्बुधः, an incorrect variant in D. My reads कारयेत्ततः. (9) महारसान् पिष्टिकारार्थं, an incorrect variant in B. This hemistich and the next one are not found in D. महारसं पिष्टिकार्थं, a variant in My. (10) D has गन्धतैलं, which is inaccurate. (11) D and K have चैव. (12) The śloka within brackets is found only in B and My.
३४२ रसार्णवे अक्षीणे मिलिते¹ हेम्नि समावर्त्तश्च जायते ॥ १४४ ॥ भक्षणादेव सूतस्य² दिव्यदेहो भवेन्नरः । वेधयेत् सर्व्वलोहानि रञ्जितः क्रमितो रसः³ ॥ १४५ ॥ समांशभक्षणं सूतं⁴ मर्दयेद्दोषधौरसैः⁵ । नष्टपिष्टं तु तं कृत्वा पूर्व्वयोगेन धामयेत् ॥ १४६ ॥ खोटस्तु जायते दिव्यः⁶ षोडशांशेन वेधयेत्⁷ । बद्धः⁸ संकलिकाद्योगाद्दिव्येह्यष्टगुणोत्तरम् ॥ १४७ ॥ मृगदूर्व्वा⁹ चन्द्रवल्ली पक्का चिञ्चा¹⁰ तथैव च । कोकिला¹¹ करवीरं च बीजं चोन्मत्तकस्य च । काकाण्डी¹²फलसंयुक्तं मर्दयेत् सुरसुन्दरि ॥ १४८ ॥ समहेम्नि समं सूतं पिष्टिकां कारयेद्बुधः ॥ १४६ ॥ अथवा सारयित्वा तु समेन सह सूतकम् । (1) D reads लिखिते, which qualifies हेम्नि. My wants this charana. (2) D reads तस्याम्भू. The portion beginning with दिव्यदेहो and ending in वेधयेत् is not found in K. (3) D reads क्रामितो रसः. (4) समांसभक्षण सूतं, a variant in B. समांसं भक्षणं सूते, a variant in D. समांश भक्षणं सूते, a variant in K. (5) D reads मर्दयेत दुग्धौरसै, which appears to be incorrect. (6) B, K and My read दिव्य, which is gram. inc. (7) B and My read वेधकः. (8) D reads बद्ध. K reads बद्ध. (9) My reads मृगा दूर्वां. (10) B reads erro- neously पक्वचिन्ता. D reads पक्वांचत्रौ (11) B has काकिला. D has कोकणा My has कंचेला. (12) D reads काकण्डी. K reads झाकडि
पञ्चदशः पटलः । २४१ महारसं पिष्टिकार्थं१ मर्दयेदोषधोरसैः ॥ १५० ॥ यामत्रयं मर्दयित्वा गोलकं कारयेत्ततः२ । अन्धमूषागतं३ गोलं छायाशुष्कं त कारयेत् ॥ १५१ ॥ ततो लघुपुटं दत्त्वा४ प्रातः खोटो भवेत् प्रिये ॥ १५२ ॥ मृगदूर्व्वातमासोम-रसैः५ सूतकचारणम्६ । मूलैस्त्रयाणां लाङ्गल्या रामठेन च हन्यते७ ॥ १५३ ॥ समेन हेम्ना संयुक्तां पिष्टिकां८ कारयेद्बुधः । अथ तारकपिष्टं च९ समसूतेन कारयेत् ॥ १५४ ॥ पूर्ववत् क्रमयोगेण खोटो भवति शोभनः । अन्धमूषागतं१० भूमौ स्वेदयेत् करिषाग्निना ॥ १५५ ॥ पहोरात्रं त्रिरात्रं वा चूर्णबन्धो११ भवेत्ततः । तच्चूर्णबंधः कुरुते१२ वेधं दशगुणोत्तरम् ॥ १५६ ॥
[L1
३४४ रसार्णवे शूलिनौरससूतञ्च¹ स्रोतोऽञ्जनसमन्वितम् । पूर्व्ववत् पिष्टिकाattr/योगात् खोटो भवति शोभनः ॥ १५७ ॥ स्रोतोऽञ्जनं सतगरं² पिष्टिमययुतं रसम्³ । धमयेद्वह्निकसञ्चित्तं⁴ सूतकः सर्व्वकर्म्मकृत् ॥ १५८ ॥ हेमाभ्रं चैव ताराम्रं⁵ शुल्बाम्रं चाम्रतीक्ष्णकम् । वङ्गाभ्रं चैव नागाभ्रं समसूतेन वेधयेत्⁶ ॥ १५९ ॥ यथालाभौषधीघृष्टं⁷ महारससमन्वितम् । हेम्ना तारेण शुल्बेन तीक्ष्णवङ्गोरगैस्तथा⁸ ॥ १६० ॥ एभिर्व्वस्तैः समैःसर्व्वा पिष्टिं कृत्वा समे समाम्⁹ । मारयेत् पूर्व्वविधिना गर्भयन्त्रे¹⁰ तुषाग्निना ॥ १६१ ॥ समांशं सूतकं दत्त्वा वारं वारं पुनः पुनः ।
(1) मृतगौरससूतं च, a variant in D. (2) स्रोतोऽञ्जनशतगुणं, a variant in D. K reads सतगरं. (3) पिष्टिमययुतं रसः, a variant in D., which seems to be incorrect. (4) B reads वह्निप्रसञ्चितं, which has no clear sense. (5) The portion beginning from ताराम्रं and ending in चैव is wanting in K. My has हेमाभ्रकं च ताराम्रं. (6) समसूतेन बंधयेत्, a variant in B and My. D reads समं सूतेन वेधयेत्, K has समं सूतेन बंधयेत्. (7) यथालाभौषधीधृष्टं, a variant in D. यदा लाभीषधीधृष्टं, a variant in My. (8) तीक्ष्णवङ्गरसेन च, a variant in D, which seems to be incorrect. (9) पौठीं कृत्वा समे समाः, a variant in B and My, which is partly correct. D reads समः, which is incorrect. (10) B and D read गर्भपचे. For the description of गर्भयन्त्र vide रस. स. Chap. ix, verses 28 - 31.
पञ्चदशः पटलः। ३४५ जायन्ते विविधाः खोटाः¹ कान्तबद्धो² महारसः ॥ १६२ ॥ भवेत् संकलिकायोगात् वेधो दशगुणोत्तरः ॥ १६३ ॥ खोटः पोटस्तथा³ भस्म धूलिः कल्कश्च⁴ पञ्चमः । एते निगलगोलाभ्यां⁵ सर्व्वबन्धफलोदयाः⁶ ॥ १६४ ॥ शिग्रुसर्व्वभवं क्षारं⁷ भल्लाबीजानि गुग्गुलुः । सैन्धवं द्विगुणं दत्त्वा मर्दयित्वा विचक्षणः ॥ १६५ ॥ पिष्टिकावेष्टनं कृत्वा कल्केनानेन⁸ सुन्दरि । विल्वप्रमाणं कृत्वा तु मूषामतिदृढां शुभाम्⁹ ॥ १६६ ॥ अर्द्धाधो लवणं दत्त्वा मूषामध्ये¹⁰ रसं क्षिपेत् । मूषालेपः प्रदातव्यो¹¹ दग्धशंखादिचूर्णकः¹² ॥ १६७ ॥
(१) जायते-विविधः खोटः, a variant in D, K and My. (२) D reads कान्तवेधो. K and My read कान्तिबद्धो. (३) B and My read पाटस्तथा. (४) D reads काल्कं च. My reads धूलो कल्कं च. (५) D reads कोलाभ्यां. K reads काङ्गाभ्यां. My reads रोगाभ्यां. (६) सर्व्वबंघा फलोदया, a variant in B. सर्व्व बन्धफलो द्विजेत्, a variant in D. सर्व्वबद्धः फलोदया, a variant in My. (७) सुह्वर्कसंभवं चीरं, a variant in B and My. D reads चारौ. सिपुसर्वंभवक्षारं, a variant in K. (८) D has मूखा यनेन. K has मूखामनेन. (९) D has an incomplete hemistich —बिल्वप्रमाण मूखां कृत्वामाटो हृदपभम्. (१०) D and K read मूखामध्ये, which is incorrect. (११) मूषालेपे प्रदातव्यं, a variant in B and My. मूखालिपा प्रहातव्यं, a variant in D. मूखालिपष्प्रदातव्यं, a variant in K. All the texts are incorrect. (१२) All the texts read चूर्वंकम्, which is not, lexicographically correct. 44
मुखं तस्या¹ दृढं बद्ध्वा लोणमृत्तिकया² पुनः । कारयेच्च सुधालेपं³ छायाशुष्कं च कारयेत् ॥ १६८ ॥ उक्तो निगलवन्धोऽयं⁴ पुत्रस्यापि न कथ्यते ॥ १६९ ॥ तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत्⁵ । अहोरात्रप्रमाणेन⁶ पुटं दत्त्वा प्रयत्नतः⁷ ॥ १७० ॥ एवं⁸ मूषा महेशानि रसस्य खोटतां नयेत्⁹ । सुध्यातः¹⁰ खदिराङ्गारैः रसेन्द्रः खोटतां व्रजेत्¹¹ ॥ १७१ ॥ सौवीरं टङ्कणं काचं¹² दत्त्वा खोटं तु शोधयेत्¹³ । अक्षीणे मिलिते¹⁴ हेम्नि समावर्णस्तु जायते ॥ १७२ ॥
(1) D reads मूखा तस्य, which is incorrect. My reads तस्य. (2) D reads लवणमृत्तिकया, which destroys the metre. K reads लोणडत्तिकया, which is incorrect. My reads लोणमृत्तिकया. (3) D has दृढा मूखा. K has दृढां मूर्खा. Both are improper. (4) B and D read निगल- बंधोयं. K reads मुक्तो निगलबंधोयं, wherein the first term is incorrect. (5) मृदुर्घामचतुष्टयोः, a variant in D. मृदुदेयशतष्टयोः, a variant in K. (6) B and My have अहोरात्रं चिरात्रं वा. (7) D reads प्रमाद्यतः. (8) B reads सर्वं. This hemistich is not found in D and My. (9) B has खोटता व्रजेत्. (10) B and My read सुध्मातं. D reads सुध्मांतं, which is incorrect. (11) रसेंद्रं खोटतां नयेत्, a variant in B. रसेन्द्रं खोटतां व्रजेत्, a variant in D. रसेन्द्रो खोटतां नयेत्, a variant in My. The last two readings seem to be incorrect. (12) D reads काचं, which is incorrect. (13) दत्वा दत्वा विशोधयेत्, a variant in B and My. दत्त्वा खोटे तु साधयेत्, a variant in D. (14) D and K read अचिक्षौ मिलितं, wherein the first term is incorrect. अक्षीणौ निर्मलं, a variant in My.
पञ्चदशः पटलः । ३४७ समांशभक्षणं तं तु¹ शुद्धसूतेन कारयेत् । भ्रमयेत् पूर्व्वयोगेन² रसेन्द्रं खोटतां³ नयेत् ॥ १७३ ॥ भवेत् संकलिकायोगात् वेधो दशगुणोत्तरः⁴ ॥ १७४ ॥ पलाशबीजनिर्यासं कोकिलोक्षत्तवारुणि⁵ । शूलिनीरससंयुक्तं⁶ पेषयेत् सैन्धवान्वितम् ॥ १७५ ॥ पिष्टिकावेष्टनं कृत्वा निगलेन तु बन्धयेत् ॥ १७६ ॥ मूषायां निगलो देवि लेपितः शिवशासनात्⁷ । रसस्य परिणामाद्य महदग्निस्थितो⁸ भवेत् ॥ १७७ ॥ अभ्रकस्य तु पत्रेषु वज्रार्कक्षीरसिञ्चना⁹ । ताप्येन लोहकिट्टेन¹⁰ सिकतामृन्मयेन च ॥ १७८ ॥ (1) B and K have समांश भक्षण ततु. D has समांसं भक्ष्यान्तं तु. (2) भ्रमें तमप्रयोगेन, a variant in D. (3) रसेन षोडतां is an incorrect reading in D. My reads erroneously रसेन्द्रो खोटतां. (4) B reads दशगुणोत्तरं, which is incorrect. (5) कोकिलीत्तरवारुणी, a variant in D. (6) शूलीरसेन संयुक्त, a variant in D. (7) B reads सौवसासन. K reads विश्वसासनात्. Both the texts are incorrect. This hemistich and the next one are not found in D and My. (8) B has परीणामाद्या माहदग्निस्थिती. K reads महादग्निस्थितो. Both the texts are incorrect. The text adopted above is also gram. inc. , महाग्निस्थितो is. the proper term, which mars the metre. (9) D reads पचिणा instead of सिञ्चना. K reads वज्रका and My reads वज्रांक instead of वज्रार्क (10) B reads तापैन D reads ताप्येन लोहकठिन, which seems to be. incorrect.