रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 362, कुल 558 में से
संदर्भ में पढ़ेंपञ्चदशः पटलः । ३३६ शतांशेन तु चन्द्रार्कं वेधयेत् सुरवन्दिते ॥ १२८ ॥ पुनस्तेनैव योगेन पिष्टीस्तम्भं तु¹ कारयेत् । सारयित्वा ततो हेम्ना वेधयेच्च सहस्रकम्² ॥ १२९ ॥ एवं लक्षाणि कोटिं च वेधयेत् क्रमयोगतः । सप्तसंकलिकादूर्ध्वं कृत्वा वक्त्रे³ तु गोलकम् । वर्षेणैकेन स भवेत्⁴ वलीपलितवर्जितः ॥ १३० ॥ चाण्डाली⁵ राक्षसी चैव कुण्डलोद्भवो⁶ रसः । बीजं सूतं च वैक्रान्तं मर्दयेत् प्रहरत्रयम्⁷ ॥ १३१ ॥ विशुद्धं गोलकं⁸ कृत्वा मूकमूषागतं⁹ पुटेत् । खोटस्तु जायते देवि सुस्नातः¹⁰ खदिराम्बुना ॥ १३२ ॥ चाण्डालीराक्षसीपुष्प-रस¹¹ मध्वाज्यटङ्कणैः । महारसाष्टमञ्चैक-मभ्रकं चापि¹² योजयेत् ॥ १३३ ॥ नागं वङ्गं समं¹³ सूतं हेम तारमथापि वा ।
(1) B and My read पिष्टिसम्भुन, which is gram. inc. (2) वेध- येच्च सहस्रकं, a variant in B and My. (3) K wants वक्त्रे. My reads वक्त्रं. (4) D reads सह भवेत्, which is incorrect. (5) B reads चण्डालौ. (6) कुण्डलोलोद्भवो is the reading in D, which seems to be incorrect. (7) D and My have पहरद्वयम्. (8) D reads विशुद्धगोलक. (9) D and K read मूकमूष्वागत, which is incorrect. (10) B reads स्नातः, which mars the metre. (11) चंडालीराक्षसी- पुष्पीरस is the reading in B. राक्षसीपुष्पेरस is the reading in D. (12) B reads मञ्चैकमभ्रकं चापि, wherein the first term is incorrect. (13) K and My read नागवंगसम.