रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
DevanagariHindipublished558 पृष्ठ
पृष्ठ 361, कुल 558 में से
संदर्भ में पढ़ेंपृष्ठ 361
३९८ रसार्णवं तुम्बो च¹ मेघनादा च काकजङ्घा च चूलिका² । स्त्रोतस्येन प्रलिप्तायां मूषायां³ च विनिक्षिपेत् ॥ १२२ ॥ धमयेत् खदिराङ्गारैः खोटो भवति चाक्षयः ॥ १२३ ॥ पलाशतैलं⁴ संमर्द्य यावत् स्याद्रसपिष्टिका⁵ । अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥ १२४ ॥ पूर्व्वशुद्धेन सूतेन⁶ सह हेम्ना⁷ च पार्व्वति । गोलकं कारयेत्तेन मर्द्दयित्वा द्रुतं⁸ हतम् ॥ १२५ ॥ ब्रह्मवृक्षस्य बीजानि कार्पासास्थि विभीतकम् । यवचिञ्चा तु⁹ वन्ध्या च राजिका च समन्वितम् ॥ १२६ ॥ सूक्ष्मपिण्डीकृतं¹⁰ सर्व्वं तेन लिप्त्वा तु गोलकम् । पुटनैः सप्तभिर्देवि पिष्टिकास्तम्भनं भवेत् ॥ १२७ ॥ बृहत्पुटं ततो दत्त्वा मूषायां तत्तु भावयेत्¹¹ । [L