रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 368, कुल 558 में से
संदर्भ में पढ़ेंपञ्चदशः पटलः। ३४५ जायन्ते विविधाः खोटाः¹ कान्तबद्धो² महारसः ॥ १६२ ॥ भवेत् संकलिकायोगात् वेधो दशगुणोत्तरः ॥ १६३ ॥ खोटः पोटस्तथा³ भस्म धूलिः कल्कश्च⁴ पञ्चमः । एते निगलगोलाभ्यां⁵ सर्व्वबन्धफलोदयाः⁶ ॥ १६४ ॥ शिग्रुसर्व्वभवं क्षारं⁷ भल्लाबीजानि गुग्गुलुः । सैन्धवं द्विगुणं दत्त्वा मर्दयित्वा विचक्षणः ॥ १६५ ॥ पिष्टिकावेष्टनं कृत्वा कल्केनानेन⁸ सुन्दरि । विल्वप्रमाणं कृत्वा तु मूषामतिदृढां शुभाम्⁹ ॥ १६६ ॥ अर्द्धाधो लवणं दत्त्वा मूषामध्ये¹⁰ रसं क्षिपेत् । मूषालेपः प्रदातव्यो¹¹ दग्धशंखादिचूर्णकः¹² ॥ १६७ ॥
(१) जायते-विविधः खोटः, a variant in D, K and My. (२) D reads कान्तवेधो. K and My read कान्तिबद्धो. (३) B and My read पाटस्तथा. (४) D reads काल्कं च. My reads धूलो कल्कं च. (५) D reads कोलाभ्यां. K reads काङ्गाभ्यां. My reads रोगाभ्यां. (६) सर्व्वबंघा फलोदया, a variant in B. सर्व्व बन्धफलो द्विजेत्, a variant in D. सर्व्वबद्धः फलोदया, a variant in My. (७) सुह्वर्कसंभवं चीरं, a variant in B and My. D reads चारौ. सिपुसर्वंभवक्षारं, a variant in K. (८) D has मूखा यनेन. K has मूखामनेन. (९) D has an incomplete hemistich —बिल्वप्रमाण मूखां कृत्वामाटो हृदपभम्. (१०) D and K read मूखामध्ये, which is incorrect. (११) मूषालेपे प्रदातव्यं, a variant in B and My. मूखालिपा प्रहातव्यं, a variant in D. मूखालिपष्प्रदातव्यं, a variant in K. All the texts are incorrect. (१२) All the texts read चूर्वंकम्, which is not, lexicographically correct. 44