रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 392, कुल 558 में से
संदर्भ में पढ़ेंषोडशः पटलः । ३६८ गुञ्जाद्वयं समाख्यातं वातारिखेहसंयुक्तम् । समे हेम्नि समं सूतं¹ तारे ताम्रेऽथवा प्रिये ॥ ९० ॥ महारसाष्टमध्येकं दद्यात्तूपरसांस्तथा² । मर्दयेत् खल्लपाषाणे³ यावन्निचेतनं भवेत् ॥ ९१ ॥ खेदयेदारणालेन⁴ मर्दयेत् पूर्वकल्पवत् । तच्च लोहस्य देहस्य तत्तत्कर्मसु⁵ योजयेत् ॥ ९२ ॥ हेमाभ्रकस्य चैकैकं सूतकस्य द्वयं तथा⁶ । ताराभ्रकस्य चैकैकं सूतकस्य द्वयं तथा⁷ ॥ ९३ ॥ पिष्टिकां कारयेत्तेन निगलेन च बन्धयेत् । पुटेषु पिष्टिकाबन्धो⁸ गोलेन निगलेन च⁹ ॥ ९४ ॥ पुनरन्यं प्रवक्ष्यामि चूर्णबन्धं सुरेश्वरि¹⁰ ॥ ९५ ॥ पिष्टिकां¹¹ टङ्कणं दत्त्वा द्विपदीरस¹²मर्हितम् । नष्टपिष्टं च शुष्कं तत्¹³ धामयित्वा पुटे¹⁴ पचेत् ॥ ९६ ॥
(1) B reads समे सूते. (2) दद्यादुपरसांस्तथा, a variant in B. (3) D reads खल्लु पाषाणे. (4) D and K read खेदयेदारनालेन. (5) B reads तच कर्मसु. D reads ततः कर्मसु. (6) D reads सूतकस्याद्वयं तथा, which seems to be incorrect. (7) This hemistich is not found in D. K reads सूतकं द्वितयं तथा. (8) All the texts have पिष्टिका- बद्धो, which seems to be incorrect. (9) B reads वा. After this we find the following in B only—इति पिष्टिकाबंधः । (10) D has चूर्णबंधं सुरेश्वरी, which is incorrect. (11) B reads पीठिकां. (12) B has विपदीरज. (13) नष्टं पिष्टं च शुष्कं तत्, a variant in B. नष्टं पिष्टं च शुष्कं च, a variant in D. (14) B reads रंभयित्वा पुटे. D and K read पुटं. 47