रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 400, कुल 558 में से
संदर्भ में पढ़ेंसप्तदशः पटलः । ३७७ पीतगन्धकपालाश-निर्यासेन प्रलेपितम् । पुटत्रयप्रदानेन¹ रजतं काञ्चनं भवेत् ॥ २७ ॥ पीतकृष्णारुणगन्धं² यथालाभं सुचूर्णितम् । गोसर्पिर्भावितं तारे³ वापेन श्वेतनाशनम्⁴ ॥ २८ ॥ रक्तपीतासितगन्धं⁵ छागक्षीरेण भूयसा । सप्ताहं स्नापयेत्तारे⁶ निषेकाद्रक्तवर्धनम्⁷ ॥ २९ ॥ यदा वाप⁸निषेकाभ्यां मार्जारनयनप्रभम् । तत्ततारं दक्षसंप्रोक्तं⁹ मेलनं परमं मतम् ॥ ३० ॥ शुल्कस्य¹⁰ कांस्यरूपं तु रसकेन तु रञ्जयेत् । द्वौ भागौ तस्य शुल्कस्य तारस्यैकं च मेलयेत् ॥ ३१ ॥ तदा तस्य रसेन्द्रस्य मेलनं परमं मतम् । वेधयेत् शुद्धसूतेन¹¹ शतांशेन सुरेश्वरि ॥ ३२ ॥ हेममाक्षिकलवणं¹² पेषयेन्मधुसर्पिषा ।
(१) पुटत्रयं प्रयत्नेन, a variant in B, which seems to be incorrect. (२) D reads गतं instead of गन्धं. This charana and the next five are not found in K. (३) गोसर्पिर्भावितातारं, a variant in B. (४) D has वामने श्वेतनाञ्जी, which has no clear sense. (५) B reads सितगन्धं, which is evidently an error of the scribe. (६) B reads erroneously स्वापयेत्तरे. (७) निषेकाद्रक्त बन्धनं, a variant in D, which is partly incor- rect. (८) D reads incompletely यथा-सं. K reads यथा वाप्य, which is not correct. (९) D and K read तदा तस्य रसीन्द्रस्य, which seems to be improper. (१०) B reads शूलं तु. D reads शूलेन तु, which is incorrect. (११) B reads सिद्धसूतेन. (१२) B reads हेम- माक्षिकजीवं च. 48