रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 409, कुल 558 में से
संदर्भ में पढ़ें३८६ रसार्णवे कङ्कुष्ठं गन्धपाषाणं¹ रजनीद्वितयं तथा । भावयेत् सप्तवारांश्च चामीकररसेन तु² ॥ ८५ ॥ निषिक्तं शिंशपातैले³ सप्तधा प्रतिवापितम्⁴ । नागं रञ्जति च⁵ क्षिप्रं रञ्जितं चाक्षयं भवेत् ॥ ८६ ॥ विद्रुमं दरदं तीक्ष्णम् अनेन⁶ प्रतिवापितम् । मञ्जिष्ठाकिंशुकरसे शाके चैव निषेचयेत्⁷ ॥ ८७ ॥ प्रतिवापनिषिक्ताश्च⁸ क्रमेणानेन रञ्जितः⁹ । भुजगो¹⁰ हेमतां याति नात्र कार्या विचारणा¹¹ ॥ ८८ ॥ उक्तं हेमदलं¹² देवि वरं तारदलं¹³ शृणु ॥ ८९ ॥ श्वेताभ्रं काञ्जिके स्विन्नं¹⁴ त्रिवारं पुटितं ततः । स्वल्पटङ्कणवज्रं च मुद्गमुखे तु वापयेत्¹⁵ ॥ ९० ॥ (1) B and K have गंधपाषाण. (2) K reads शाकवृक्षरसेन तु. (3) D reads तैले:. (4) D reads erroneously प्रतिवापिता. (5) नागं रञ्जयते is the reading in B. नागं रक्तति is the reading in D. This hemistich and the next one are not found in K. (6) D reads वस्रनं. (7) K reads erroneously निषिचयेत्. (8) D reads निषिक्तं च. K has विस्रनं before प्रतिवापनिषिक्तं च, which is incorrect. (9) क्रमे चानेन रञ्जयेत्, a variant in D. (10) K reads भुजंगो. (11) K reads विचारणात्, which is incorrect. (12) D has सिक्तं हेमदले. K has रक्तहेमदलं. Both सिक्तं and रक्त are absurd. (13) D reads चिरं तालदलं, which is not correct. (14) B has स्विन्ने. काञ्जिकं स्विन्नं is the variant in D. (15) D reads मुहुर्मुखेन. K reads कापयेत्.