रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 420, कुल 558 में से
संदर्भ में पढ़ेंसप्तदशः पटलः । ३६७ एकेको रसहेमांशः शतवेध इति स्मृतः ॥ १५२ ॥] अनेन क्रमयोगेण सहस्रांशेन वेधकः¹ ॥ १५३ ॥ मूषां² तु गोस्तनीं कृत्वा दलपूर्णां तथा दृढाम्³ । धमेद्दलं निर्मलं तत्⁴ घृतमुच्छोल्लितं यदा ॥ १५४ ॥ क्रामणेन समायुक्तं रसं दत्त्वा तु वेधयेत् । दलपत्रं रसालिप्तं ताम्रपात्रान्तरे⁵ स्थितम् ॥ १५५ ॥ उपरिष्टान्मृदा लिप्तं दत्त्वा मृद्वग्निमेव च । बीजसंयुक्तमावर्त्य ध्मापयेन्मतिमान् सदा ॥ १५६ ॥ टङ्कणं तिलचूर्णं च शीतले तु निवापयेत्⁶ । रससिद्धं तु⁷ कनकं पलैकं ध्मापयेद्भुवि । उद्धृत्य पुनरुत्थाप्य⁸ विक्रेयं तत् सुरेश्वर ॥ १५७ ॥ पुनरन्यं प्रवक्ष्यामि रसवेधो⁹ यथा भवेत् ॥ १५८ ॥ तिलसर्षपचूर्णस्य द्वे पले च प्रदापयेत्¹⁰ । द्वे पले च हरिद्राया एकत्रैव तु मर्दयेत्¹¹ ॥ १५९ ॥ (1) B has सहस्रांशादिदोषतः. D has सहस्रांशेन विधायकः, which is incor- rect. (2) D and K read मूषां, which is incorrect. (3) दलं पूर्वं तथा दृढं, an incorrect variant in D. (4) D and K read च. (5) B reads ताम्रं पात्रातरे. K reads ताम्रपत्रांतरे, which is incorrect. (6) D reads शीतलेन तु पेषयेत्. K reads क्षितलेन निवापयेत्, which is partly incor- rect. (7) D reads रसं विद्धे तु, which is incorrect K reads रस- विद्धं तु. (8) D reads पुनरुत्थाय, which is unintelligible. K reads पुन- रुत्थाप्या. (9) B reads रसवेद्धाः. D and K read रसवेधं. Both are incorrect. (10) D and K read द्वे पली च हरिद्रया, wherein the last term is incorrect. (11) This hemistich is not found in D and K.